भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 247, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 247

सर्गः ] घण्टापथ-सुधान्याख्याद्वयोपेतम् ६३

इति णमुल्। परिरब्धुं कामो यस्याः सा परिरब्धुकामाऽस्मि। आलिङ्गितुमिच्छामी-
त्यर्थः। 'तुं काममनसोरपि' इति मकारलोपः। प्राक्कार्यसिद्धेः प्रमदाऽऽलिङ्गनमपि
न प्रतिदमिति भावः॥ ५४॥

अन्वयः—तत्, महर्षेः, वचनम्, आशु, कुर्वन्, नः, मनोरथान्, सफलीकुरुष्व, कृतार्थं, प्रत्यागतम्, एव, त्वां, स्तनोपपीडं, परिरब्धुकामा, अस्मि॥ ५४॥

व्याख्या—तत्=तस्मात् कारणात्, वा, तत् = पूर्वोक्तम्, आशु=सत्वरम्, महर्षेः=व्यासस्य, वचनं=वचः, कुर्वन्=प्रतिपालयन्, त्वमिति शेषः। नः=अस्माकं, स्वसकलपरिवाराणामित्यर्थः। मनोरथान् = अभिलाषान्=शत्रुपराजय-पूर्वकस्वराज्यलाभरूपान्, सफलीकुरुष्व=साफल्यं गमयेत्यर्थः। अथ=ततः, कृतार्थं=कृतकृत्यं, साधितसाध्यमित्यर्थः। प्रत्यागतम्=पुनरागतम्, एव, त्वाम्-अर्जुनं, स्तनोपपीडं=कुचोपपीडं, स्तनयोरुपपीड्येत्यर्थः। परिरब्धुकामा=आलिङ्गितुकामा, (अहं द्रौपदी) अस्मि। यदा त्वं तपः सम्पाद्य सफलकामो भूत्वाऽऽगमिष्यसि, तदैव त्वां गाढालिङ्गनेन तोषयिष्यामि नहि तावत्वया कयाऽपि रन्तव्यं ब्रह्मचर्येण स्थातव्यं, तदा नियतं, तपस्सिद्धिर्भविष्यतीति॥ ५४॥

समासः—कृतोऽर्थो येन सः, कृतार्थस्तं कृतार्थम्। परिरब्धुं कामोऽभिलाषो यस्याः साः परिरब्धुकामा। 'तुं काममनसोरपि' ऽयनेन 'म' कारलोपो जातः॥ ५४॥

व्याकरणम्—कुर्वन्=कृ+लट्+शतृ। सफलीकुरुष्व=सफली+कृ+लोट्। अस्मि=अस्+लट्। स्तनोपपीडं=स्तनयोरुपपीड्य, इत्यत्र 'सप्तम्यां चोपपीड-रुधकर्षः' इति णमुल्। परिरब्धुकामा='तुं काममनसोरपि' अनेन 'म'—कारस्य लोपः। त्वा=त्वाम्, 'त्वमौ द्वितीयायाः' इति त्वाऽऽदेशः॥ ५४॥

वाच्यान्तरम्—तत् 'महर्षेर्वचनमाशु कुर्वता त्वया नो मनोरथाः सफलीक्रियन्ताम्, प्रत्यागतं कृतार्थमेव त्वां परिरब्धुकामया मया भूयते॥ ५४॥

कोषः—'सत्वरं चपलं तूर्णमविलम्बितमाशु च' इत्यमरः। 'व्याहार उक्तिर्लपितं भाषितं वचनं वच' इत्यमरः। 'इच्छा काङ्क्षा स्पृहेहा तृड् वाञ्छा लिप्सा मनोरथ' इत्यमरः। स्तनौ कुचावुरोजौ च वक्षोजावपि तौ मताविति कोषः॥ ५४॥

सारार्थ—तस्मात्कारणाद् व्यासोपदेशं पालयन्नस्माकमभिलाषपूर्तिं कृत्वा यदा त्वमागमिष्यसि, तदैव प्रसभमुत्थाय, चिरोषितं त्वां बाहुभ्यां परिपीड्यालिङ्गनं करिष्यामि। तदैव तत्सुखानुभवः सम्यक्तया भविष्यति। अधुना तु कार्यान्तर-विचलितचित्तस्य तव, वैरिकृताप्रकृतिविकृतया मयाऽऽलिङ्गितस्य न किमपि सुरतस्वादानुभवः स्यादिति॥ ५४॥