भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 249, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 249

सर्गः ] घंटापथ-सुधाव्याख्याद्वयोपेतम् ६५


सारार्थः—तपः कर्तुं प्रयातस्यार्जुनस्य, चेतसि लग्ने द्रौपदीपूर्वोक्तवार्त्ताश्रय- णेन चिरकृतोऽपि वैरिवर्गापकारः सद्यः सञ्जात इवाभवत्, तेनोद्भूतामर्षेण सोऽतिमात्रमुत्तेजितो भवंस्तपःस्थानमाप ॥ ५५ ॥

भाषार्थः—जिसके स्मरण कराने से शत्रु का अपकार पुनः नवीन होकर उमड़ पड़ा है, ऐसी द्रौपदी की बात को सुनकर अर्जुन अत्यन्त प्रदीप्त हो उठे, जैसे उत्तर दिशा को पाकर सूर्य प्रज्वलित हो उठता है।

अथाभिपश्यन्निव विद्विषः पुरः पुरोधसाऽऽरोपितहेतिसंहतिः ।
बभार रम्योऽपि वपुः स भीषणं गतः क्रियां मन्त्र इवाभिचारिकीम्॥५६॥

अथेति। अथ विद्विषः शत्रून्पुरोऽभिपश्यन्निव स्थितस्तथा पुरोधसा धौम्येनारो- पिता समन्त्रमाहिता हेतिसंहतिरायुधकलापो यस्य स तथोक्तः । 'हेतिर्ज्वालाऽङ्कु- रायुधे' इति वैजयन्ती । सोऽर्जुनो रम्यः सौम्यः सन्नपि । अभिचारः परहिंसा- प्रयोजनं यस्याः साऽऽभिचारिकी । 'प्रयोजनम्' इति ठञ् । तां क्रियां गतः । अभिचारकर्मणि नियुक्त इत्यर्थः । मन्त्र इव रम्यः प्रकृत्या । रमणीयः । भीषयत इति भीषणम् । नन्द्यादित्वाल्ल्यु प्रत्ययः । वपुर्बभार । प्रशान्तो मन्त्रः प्रयोगभेदा- दिव । सोऽप्यवस्थाभेदाद्भीषणो बभूवेत्यर्थः ॥ ५६ ॥

अन्वयः--अथ, पुरः, विद्विषः, अभिपश्यन् इव, पुरोधसा, आरोपितहेति- संहतिः, रम्यः, अपि, सः, आभिचारिकीं, क्रियां, गतः मन्त्र इव, भीषणं, वपुः, बभार ॥ ५६ ॥

व्याख्या—अथ = तपःस्थानोपवेशनानन्तरम् , पुरः = अग्रे, विद्विषः = शत्रून् , दुर्योधनादीनिति शेषः । अर्थात्तथाऽधिकोत्तेजनासम्भवात् , तपसि सर्वतो भावेन प्रवृत्तिः सूचितेति भावः । अभिपश्यन् = आलोकयन् , इव स्थित इति शेषः । पुरोधसा = पुरोहितेन, धौम्येनेत्यर्थः । आरोपितहेतिसंहतिः = समन्त्रप्रयोगपूर्वकनि- कटनिवेशितायुधसमूहः, सः = अर्जुनः, रम्यः = रमणीयकलेवरः अपि, प्रकृत्येति शेषः । तदानीम्, आभिचारिकीं = तन्त्रोक्तां मारणमोहनादिकां, क्रियां = विधानं, गतः = प्राप्तः, प्रयुक्त इत्यर्थः, मन्त्रः = अमुकं हन २ दह २ पच २ मारय २ शोषय २ इत्यादिरूप इव, भीषणम् = भयङ्करं, वपुः = शरीरं, बभार = धारयामास ॥ ५६ ॥

समासः—हेतीनां संहतिर्हेतिसंहतिः, आरोपिता हेतिसंहतिर्यस्मिन् स आरो- पितहेतिसंहतिः ॥ ५६ ॥

व्याकरणम्—अभिपश्यन्—अभि + दृश् + लट् + शतृ । बभार=भृ + लिट् ॥५६॥

वाच्यान्तरम्—अथ पुरो विद्विषोऽभिपश्यता, आरोपितहेतिसंहतिना तेन रम्ये- णापि ( अर्जुनेन ) आभिचारिकीं क्रियां गतेन मन्त्रेणेव भीषणं वपुर्बभ्रे ॥ ५६ ॥

६ कि०