भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 36, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 36

६ किरातार्जुननीयम् [प्रथमः

न = न भ्रमादपि, इच्छन्ति = अभिलषन्ति, स्वप्नेऽपीति शेषः। मिथ्या तु मिथ्यैव, सत्यं सत्यमेव, तेन मिथ्याप्रियवचननिवेदनेन, यथार्थविषयस्थितिमज्ञात्वा नरपतिः प्रमत्तो भवन् राज्यात्पतति, ताकालिकमप्रियमपि वचनं निशम्य, तत्प्रतीकारतत्परो राजा न जात्वरिवशङ्कतो भवति, अतो गूढचरस्यायं मुख्यो धर्मोऽस्ति, यत्स्वमिनेऽसत्यं प्रियं न निवेदनीयमिति भावः। अत एवोक्तं 'सत्यं ब्रूयात्प्रियं ब्रूयात्' इति । अनेन यथार्थो भृत्यसमुदाचारो वर्णितः। एवम् ‘अमौढ्यममान्द्यममृषाभाषितवमभ्यूहकत्वञ्चेति चारगुणाः' इति नीतिवाक्यामृते कथितम् ॥२॥

समासः- कृतः प्रणामो येन सः कृतप्रणामस्तस्य कृतप्रणामस्य । महीं भुनक्तीति महीभुक् तस्मै महीभुजे । हितमिच्छन्तीति हितैषिणः॥२॥

व्याकरणम्- विव्यथे = व्यथ + लिट् । इच्छन्ति = इष् + लट् ॥२॥

वाच्यान्तरम्- वनेचरस्य मनसा न विव्यथे, हितैषिभिर्मृषा प्रियं न प्रवक्तुं मिष्यते ॥२॥

कोषः- 'गोत्रा कुः पृथिवी पृथ्वी क्ष्माऽवनिर्मेदिनी मही' इत्यमरः। 'पार्थिवो भूपतिर्भूपो महीभुक् क्ष्मापतिर्नृपः'। 'रिपौ वैरिसपत्लारिद्विषद्वेषणदुर्हृदः' इत्यमरः। 'चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मन' इत्यमरः 'मृषा मिथ्या तु वितथे' इत्यमरः॥२॥

सारार्थः- स च वनेचरो युधिष्ठिरं प्रणम्य यथादृष्टं प्रभुद्रोहिप्रशंसामपरमपि दुर्योधनकृतराज्यशासनविधिं प्रवक्तुमुद्यतः। परन्तु कथमेवं शत्रूत्कर्षं स्वप्रभवे निवेदयामिति मनागपि तस्य मनो न कम्पितम् । यतो हितेच्छोर्भृत्यस्य स्वामिनं प्रति सत्यकथनमेव परो धर्मः। कथमन्धथा भृत्यस्य विश्वासः। तथा शत्रुकृते प्रतीकारः क्रियते स्वामिभिरिति॥२॥

भाषार्थः- किया है प्रणाम जिसने और दुर्योधन से वशीकृत राज्य के बारे में कहने की इच्छा है जिसकी, ऐसे उस वनेचर का चित्त जरा भी विचलित नहीं हुआ । इसलिए कि मालिक के कल्याण चाहने वाले नौकर कभी झूठी मीठी बात मालिक से नहीं कह सकते ॥२॥

तथापि प्रियार्हे राशि कटुनिष्ठुरोक्तिर्न युक्तेत्याशङ्क्य स्वाभ्यनुज्ञया न दुष्यतीत्याशयेनाह—

द्विषां विघाताय विधातुमिच्छतो रहस्यनुज्ञामधिगम्य भूभृतः।
स सौष्ठवौदार्यविशेषशालिनीं विनिश्चितार्थामिति वाचमाददे ।। ३ ।।