किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 69, कुल 707 में से
संदर्भ में पढ़ेंसर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ३९
सारार्थः—उग्रशासनो दुर्योधनो महाराजः राज्यकार्ये स्वकनिष्ठभ्रातरं दुःशासननामानं नियुज्य स्वयं निश्चिन्तो भूत्वा पुरोहितादेशानुसारं यज्ञं च करोति ॥२१॥
भाषार्थः— कठोर शासन करने वाला दुर्योधन अपने छोटे भाई दुःशासन को युवराज बनाकर स्वयं यज्ञ में निश्चित रूप से पुरोहित के आज्ञानुसार हव्य से अग्नि को सन्तुष्ट करता है ॥२२॥
न चैतावता निरुद्योगैर्भाव्यमित्याशङ्कयाशां दर्शयति—
प्रलीनभूपालमपि स्थिरायति प्रशासदावारिधि मण्डलं भुवः । स चिन्तयत्येव भियस्त्वदेष्यतीरहो दुरन्ता बलवद्विरोधिता ॥२३॥
प्रलीनेति । स दुर्योधनः। प्रलीनभूपालम् । निःसपत्नमित्यर्थः। स्थिरायति । चिरस्थायीत्यर्थः। भुवो मण्डलमावारिधिभ्य आवारिधि । आङ्मर्यादाऽभिविध्योः इत्यव्ययीभावः। प्रशासदाज्ञापयन्नपि । 'जक्षित्यादयः षट्' इत्यभ्यस्तसंज्ञा । 'नाभ्यस्ताच्छतुः' इति नुमागमप्रतिषेधः। त्वत् त्कत एष्यतीरगमिख्यतीः। धातूनामनेकार्थत्वादुक्तार्थसिद्धिः अथवाऽऽङ्पूर्वः पाठः। 'एत्येधत्यूठ्सु' इति वृद्धिः। 'लटः सद्वा' इति शतृप्रत्ययः। 'उगितश्च' इति ङीप् । 'आच्छीनद्योर्नुम्' इति विकल्पान्नुमभावः। भियो भयहेतून् । विपद इत्यर्थः। चिन्तयत्यालोचयत्येव । स एवाह- अहो बलवद्विरोधिता दुरन्ता दुष्टावसाना । सार्वभौमस्यापि प्रबलैः सह वैरायमाणत्वमनर्थपर्यवसाय्येवेति तात्पर्यम् । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः॥२३॥
अन्वयः—सः प्रलीनभूपालं, स्थिरायति, आवारिधि, भुवः, मण्डलम्, प्रशासत् अपि, त्वदेष्यतीः भियः, चिन्तयति, एव । अहो, बलवद्विरोधिता, दुरन्ता (भवति)॥
सुधा—सः=दुर्योधनः, प्रलीनभूपालम् = अप्रतिमभूपम्, अकण्टकम्, स्थिरायति = चिरस्थायि सदावर्त्तमानम्, आवारिधि = आसमुद्रम्, भुवः = पृथिव्याः, मण्डलम् = वलयम, प्रशासत् = आज्ञापयन्, अपि, त्वदेष्यतीः = त्वदागमिष्यतीः, भियः= विपदः, चिन्तयपि = आलोचयति, एव । कुत इत्याह— अहो इति सखेदोच्छ्वासे बलवद्विरोधिता=महाजनवैरिता, दुरन्ता = दुरवसाना, दुःखपरिणामा, भवतीति शेषः॥२३॥
समासः— प्रलीना भूपाला यस्मिन् तत् प्रलीनभूपालम्। स्थिरा आयतिरुत्तरकालो यस्त तत् स्थिरायति । आ वारिधिभ्य इति आवारिधि । बलमस्यास्तीति बलवान्, बलवद्भिः विरोधिता बलवद्विरोधिता ॥२३॥