भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 78, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 78

४८ किराटार्जुननीयम् [प्रथमः

भाषार्थः- जिस समुद्र पर्यन्त पृथ्वी को, इन्द्र के समान पराक्रम वाले अपने कुल के राजा लोगों ने बराबर अपने अधीन रक्खा। उसको आपने अपने ही हाथ से खो दिया। जैसे मद से मतवाला हाथी अपने गले की माला तोड़कर फेंक दे॥

स्वदोषादेवायमर्थागम इत्युक्तम्। स च दोषः कुटिलेष्वकौटिल्यमेवेत्याह—
व्रजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः।
प्रविश्य हि घ्नन्ति शठास्तथाविधानसंवृताङ्गान्निशिता इवेषवः॥३०॥

व्रजन्तीति। मूढधियो निर्विवेकबुद्धयस्ते पराभवं व्रजन्ति से मायाविषु मायावत्सु विषये। 'अस्मायामेधा-' इत्यादिना विनिप्रत्ययः। मायाविनो मायावन्तः। व्रीह्यादित्वादि-निप्रत्ययः, न भवन्ति। अत्रैवार्थान्तरं न्यस्यति-प्रविश्येति। शठा अपकारिणोधूर्तास्त-थाविधानकुटिलानसंवृताङ्गानवर्मितशरीरान्निशिता इषव इव प्रविश्य प्रवेशं कृत्वाऽऽत्मीया भूत्वा घ्नन्ति हि। 'आर्जवं हि कुटिलेषु न नीतिः' इति भावः॥३०॥

अन्वयः- ये, मायाविषु, मायिनः न भवन्ति, ते, मूढधियः, पराभवं व्रजन्ति। शठाः, तथाविधान् असंवृताङ्गान्, निशिता, इषव इव, प्रविश्य, घ्नन्ति॥३०॥

सुधा- ये = केचन, जना इति शेषः। मायाविषु = कपटिषु, मायिनः=कपटिनः न भवन्ति, ते = अमायिनः, मूढधियः=मन्दबुद्धयः, पराभवम् = अन्याक्रमणम्, व्रजन्ति=यान्ति। हि=यतः, शठाः=मायिनः, तथाविधान् = तादृशान्, असंवृताङ्गान्=कवचादिनाऽरक्षितदेहान्, निशिताः=तीक्ष्णीकृताः, इषवः=बाणाः, इव, प्रविश्य=अंतःप्रविश्य, घ्नन्ति = मारयन्ति। अतो भवद्भीरीदृशैः सरलैर्नभाव्यमिति भावः॥३०॥

समासः- मूढा धीर्येषां ते मूढधियः। न संवृतानि असंवृतानि असंवृतान्यङ्गानि येषां ते असंवृताङ्गास्तान् असंवृताङ्गान्॥३०॥

व्याकरणम्- भवन्ति = भू+लट्। व्रजन्ति=व्रज्+लट्। प्रविश्य=प्र+विश् क्त्वा+ल्यप्। घ्नन्ति=हन् = लट्॥३०॥

वाच्यान्तरम्- यैः मायाविषु मायिभिर्न भूयते, तैर्मूढधीभिः पराभवो व्रज्यते शठैः प्रविश्य निशितैरिषुभिरिव तथाविधा, असंवृताङ्गा जना हन्यन्ते॥३०॥

कोषः- 'पराभवः परिभवः पराजयः इति कोषः। 'निकृतस्त्वनृजुः शठ' इत्यमरः।

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित) · पृष्ठ 78, कुल 707 में से · BharatKosha