कुलार्णव तन्त्र (हिन्दी व्याख्या सहित)
Kularnava Tantra with Hindi Commentary
भगवान शिव / पं. भद्रशील शर्मा द्वारा
स्रोत: कल्याण मन्दिर प्रयाग · कल्याण मन्दिर प्रयाग · 1950 (उद्गम)
पृष्ठ 19, कुल 84 में से
संदर्भ में पढ़ेंसाधनमाला १३ ब्रह्मा शिवो मे अस्तु मरीच्यै नमः उत्तरवक्त्रे । सदाशिवोम् अंशुमालिन्यै नमः पश्चिमवक्त्रे । अंगुष्ठतर्जनी को मिला उनसे न्यास करे— तत्पुरुषाय विद्महे शान्त्यै नमः पूर्ववक्त्राधः । महादेवाय धीमहि विद्यायै नमः दक्षिणवक्त्राधः । तन्नो रुद्रः प्रतिष्ठायै नमः उत्तरवक्त्राधः । प्रचोदयात् निवृत्यै नमः पश्चिमवक्त्राधः । अंगुष्ठमध्यमा को मिला उनसे न्यास करे— अघोरेभ्यः तमायै नमः हृदि । अथ घोरेभ्यो मोहायै नमः ग्रीवायां । घोर क्षमायै नमः दक्षांसे । घोरतरेभ्यो निद्रायै नमः वामांसे । सर्वतः शर्व व्याध्यै नमः नाभौ । सर्वेभ्यो मृत्यवे नमः कुक्षौ । नमस्ते अस्तु क्षुधायै नमः पृष्ठे । रुद्ररूपेभ्यः तृष्णायै नमः वक्षसि । अंगुष्ठअनामिका को मिलाकर उनसे न्यास करे— वामदेवाय नमो रजायै नमः गुह्ये । ज्येष्ठाय नमः श्रेष्ठाय नमो रक्षायै नमः लिंगे । रुद्राय नमो रत्यै नमः दक्षोरौ । कालाय नमो मालिन्यै नमः वामोरौ । कल विकरणाय नमः काम्यायै नमः दक्षजानुनि । विकरणाय नमः शशिन्यै नमः वामजानुनि । बल विकरणाय नमः क्रियायै नमः दक्षजंघायां । विकरणाय नमः वृद्ध्यै नमः वामजंघायां । बलाय नमः स्थिरायै नमः दक्षस्फिचि । बलप्रमथनाय नमः रात्र्यै नमः वामस्फिचि ।