कुलार्णव तन्त्र (हिन्दी व्याख्या सहित)
Kularnava Tantra with Hindi Commentary
भगवान शिव / पं. भद्रशील शर्मा द्वारा
स्रोत: कल्याण मन्दिर प्रयाग · कल्याण मन्दिर प्रयाग · 1950 (उद्गम)
पृष्ठ 22, कुल 84 में से
संदर्भ में पढ़ें१६ हिन्दी कुलार्णव थं करणरूपायै माहेश्वर्यै नमः वामजंघायाम् । दं पक्षरूपायै मृडान्यै नमः वामगुल्फे ॥ धं मासरूपायै रुद्राण्यै नमः वामपादांगुलिमूले । नं राशिरूपायै शर्वाण्यै नमः वामपादांगुल्यग्रे ॥ पं ऋतुरूपायै परमेश्वर्यै नमः दक्षकुक्षौ । फं अयनरूपायै काल्यै नमः वामकुक्षौ ॥ बं वत्सररूपायै कात्यायन्यै नमः पृष्ठवंशे । भं युगरूपायै गौर्यै नमः नाभौ ॥ मं प्रलयरूपायै भवान्यै नमः हृदये । यं पृथिव्यप्तेजोवाय्वाकाशाख्यपञ्चभूतरूपायै ब्राह्म्यै नमः दक्षांसे ॥ रं शब्दस्पर्शरूपरसगंधाख्यपञ्चतन्मात्ररूपायै वागीश्वर्यै नमः वामांसे । लं वाक्पाणिपादपायूपस्थाख्यपञ्चकर्मेन्द्रियरूपायै वाण्यै नमः अपरगले ॥ वं श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणाख्यपञ्चज्ञानेन्द्रियरूपायै सावित्र्यै नमः दक्षकक्षे । शं प्राणापानव्यानोदानसमानाख्यपञ्चप्राणरूपायै सरस्वत्यै नमः वामकक्षे । षं सत्त्वरजस्तमाख्यगुणत्रयरूपायै गायत्र्यै नमः हृदयादि- दक्षपाणिपर्यन्तं । सं मनोबुद्ध्यहंकारचित्ताख्यान्तःकरणचतुष्टयरूपायै वाक्प्रदायै नमः हृदयादिवामपाणिपर्यन्तं ॥ हं जाग्रत्स्वप्नसुषुप्तितुरीयावस्थाचतुष्टय रूपायै शारदायै नमः हृदयादिदक्षपादान्तं । ळं त्वगसृग्मांसमेदोस्थिमज्जाशुक्राख्यसप्तधातुरूपायै भारत्यै नमः हृदयादि वामपादान्तं ।