कुलार्णव तन्त्र (हिन्दी व्याख्या सहित)
Kularnava Tantra with Hindi Commentary
भगवान शिव / पं. भद्रशील शर्मा द्वारा
स्रोत: कल्याण मन्दिर प्रयाग · कल्याण मन्दिर प्रयाग · 1950 (उद्गम)
पृष्ठ 29, कुल 84 में से
संदर्भ में पढ़ेंसाधनमाला २३ नमः भाले । कं क्षं अनन्तकोटिजलचरीकुलसहितायै अः लां भीषणाम्बादेव्यै अः।लां महालक्ष्यम्बादेव्यै अनन्तकोटिकूष्माण्ड- कुलसहितायै अः लं भीषणनाथाय अः लं संहारभैरवनाथाय नमः ब्रह्मरन्ध्रे । अं आं...क्षं मातृभैरवाधिपायै पराम्बादेव्यै नमः सर्वाङ्गे व्यापकं । इस प्रकार न्यास कर अपने हृदयकमल में अर्द्धनारीश्वर भगवान् शिव का ध्यान करे । यथा— अमृतार्णवमध्योद्यन्मणिद्वीपे सुशोभिते । कल्पवृक्षवनान्तस्थनवमाणिक्यमण्डपे ॥ नवरत्नमयं श्रीमत्सिंहासनगतेऽम्बुजे । त्रिकोणान्तःसमासीनं चन्द्रसूर्यसमन्वितम् ॥ अर्द्धाम्बिकासमायुक्तं प्रविभक्तविभूषणम् । कोटिकन्दर्पलावण्यं सदा षोडशवार्षिकम् ॥ मन्दस्मितमुखाम्भोजं त्रिनेत्रं चन्द्रचूडकम् । दिव्याम्बरस्रगालेपं दिव्याभरणभूषितम् ॥ पानपात्रं च चिन्मुद्रां त्रिशूलं पुस्तकं करैः । विद्यासंसिद्धिबिभ्राणं सदानन्दमुखेक्षणम् ॥ महाषोढोदिताशेषदेवतागणसेवितम् । फिर योनि, लिङ्ग, सुरभि, वनमाला, महामुद्रा, नभोमुद्रा दिखाकर यथाशक्ति मूलमन्त्र का जप कर श्रीपादुका का भी जप करे। मूर्ध्नि में शिवस्वरूप श्रीगुरुदेव का ध्यान करे। यथा— सहस्रदलपङ्कजे सकलशीतरश्मिप्रभम् । वराभयकराम्बुजं विमलगन्धपुष्पस्रजम् ॥ प्रसन्नवदनेक्षणं सकलदेवतारूपिणम् । स्मरेत् शिरसि हंसगं तदभिधानपूर्वं गुरुम् ॥ इस प्रकार षोढान्यास जो प्रतिदिन करता है, हे पार्वति !