भारतकोश
महाभारत (खंड १) - आदि व सभा पर्व

महाभारत (खंड १) - आदि व सभा पर्व

Mahabharata (Vol 1) - Adi and Sabha Parva

महर्षि कृष्णद्वैपायन वेदव्यास द्वारा

DevanagariSanskritpublished2,256 पृष्ठ

पृष्ठ 1624, कुल 2256 में से

संदर्भ में पढ़ें
पृष्ठ 1624

ये तथा और भी वेद-वेदांगोंके पारंगत बहुत-से मुनिश्रेष्ठ उस सभामें महात्मा युधिष्ठिरके पास बैठा करते थे ॥ १९ ॥ कथयन्तः कथाः पुण्या धर्मज्ञाः शुचयोऽमलाः । तथैव क्षत्रियश्रेष्ठा धर्मराजमुपासते ॥ २० ॥ वे धर्मज्ञ, पवित्रात्मा और निर्मल महर्षि राजा युधिष्ठिरको पवित्र कथाएँ सुनाया करते थे। इसी प्रकार क्षत्रियोंमें श्रेष्ठ नरेश भी वहाँ धर्मराज युधिष्ठिरकी उपासना करते थे ॥ २० ॥ श्रीमान् महात्मा धर्मात्मा मुञ्जकेतुर्विवर्धनः । संग्रामजिद् दुर्मुखश्च उग्रसेनश्च वीर्यवान् ॥ २१ ॥ कक्षसेनः क्षितिपतिः क्षेमकश्चापराजितः । कम्बोजराजः कमठः कम्पनश्च महाबलः ॥ २२ ॥ सततं कम्पयामास यवनानेक एव यः । बलपौरुषसम्पन्नान् कृतास्त्रानमितौजसः । यथासुरान् कालकेयान् देवो वज्रधरस्तथा ॥ २३ ॥ श्रीमान् महामना धर्मात्मा मुंजकेतु, विवर्धन, संग्रामजित्, दुर्मुख, पराक्रमी उग्रसेन, राजा कक्षसेन, अपराजित क्षेमक, कम्बोजराज कमठ और महाबली कम्पन, जो अकेले ही बल-पौरुषसम्पन्न, अस्त्रविद्याके ज्ञाता तथा अमिततेजस्वी यवनोंको सदा उसी प्रकार कँपाते रहते थे, जैसे वज्रधारी इन्द्रने कालकेय नामक असुरोंको कम्पित किया था। (ये सभी नरेश धर्मराज युधिष्ठिरकी उपासना करते रहते थे) ॥ २१—२३ ॥ जटासुरो मद्रकाणां च राजा कुन्तिः पुलिन्दश्च किरातराजः । तथाऽऽङ्गवाङ्गौ सह पुण्ड्रकेण पाण्ड्योड्रराजौ च सहान्ध्रकेण ॥ २४ ॥ अङ्गो वङ्गः सुमित्रश्च शैब्यश्चामित्रकर्शनः । किरातराजः सुमना यवनाधिपतिस्तथा ॥ २५ ॥ चाणूरो देवरातश्च भोजो भीमरथश्च यः । श्रुतायुधश्च कालिङ्गो जयसेनश्च मागधः ॥ २६ ॥ सुकर्मा चेकितानश्च पुरुश्चामित्रकर्शनः । केतुमान् वसुदानश्च वैदेहोऽथ कृतक्षणः ॥ २७ ॥ सुधर्मा चानिरुद्धश्च श्रुतायुश्च महाबलः । अनूपराजो दुर्धर्षः क्रमजिच्च सुदर्शनः ॥ २८ ॥ शिशुपालः सहसुतः करूषाधिपतिस्तथा । वृष्णीनां चैव दुर्धर्षाः कुमारा देवरूपिणः ॥ २९ ॥