मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 91, कुल 804 में से
संदर्भ में पढ़ें६ ] प्रथमाध्याये द्वितीयपादः ३९ संयोगाभावः साध्यो भवितुमर्हति—उच्यते१। अनित्यसंयोगप्रसङ्गोऽत्र हेतुर्विवक्षितः, ततश्च स्वार्थसत्यत्वेऽनित्यसंयोगप्रसङ्गात्तत्परिहारार्थं स्वार्थासत्यत्वं बबरः प्रावाहणि- रित्यादीनामेष्टव्यमिति सूत्रार्थो भवति । अनित्यसंयोगान्मन्त्रानर्थक्यमित्यत्राप्यर्थप्रकाशनपक्षे यस्य यो ऽर्थः, स एव तेन प्रकाशयितव्यः क्वचिच्चानित्यैरकर्माङ्गभूतैः स्वार्थैरर्थवन्तो मन्त्रा लक्ष्यन्त इत्युपक्रमवार्त्तिकाद्यद्येतद्विवक्षितम्, तथा सत्यादिमदर्थाभिधानाद्वेदस्य कृत्रि- मत्वेनाप्रामाण्यं प्रसज्येतेति चोपसंहारवार्तिकादनित्यसंयोगः खल्वपि भवेन्मन्त्रेष्वभिधानार्थे- ष्विति भाष्याच्चायमेवार्थः प्रतीयते । अन्यानर्थक्याभागिप्रतिषेधयोरप्येवम्२ । तत्रापि स्वार्थासत्यत्वे तयोरभावात्सूत्रव्याख्यानार्थमनित्यसंयोगश्चेति भाष्यं तत्सोपस्कारमेव द्रष्टव्यम् । अनित्यसंयोगः स्वार्थवत्त्वे प्रसज्येत तस्मादानर्थक्यमेव युक्तमिति तत्रानित्य- संयोगप्रसङ्गान्माभूत्स्वार्थस्य सत्यत्वम्, स्तुत्यर्थत्वं तु सिद्धान्त्यभिमतं निराकर्तुमशक्य- मित्याशङ्क्याह—सर्वोपाख्यानेष्विति । अयमाशयः अन्यपरत्वं ह्युच्यमानं कार्यपरत्वं वा स्यात्, स्तुतिपरत्वं वा तच्चोभयमपि प्रतीत्यनारूढत्वान्न युज्यते । तेन पारिशेष्यादर्थवत्त्व- मङ्गीकुर्वता स्वार्थपरत्वमेव वाच्यम्, तत्र चानित्यसंयोगः प्रसज्येत इति । ननु परं तु श्रुतिसामान्यमात्रमित्यत्र बबरादिशब्दानां नित्यसिद्धवाय्वादद्यर्थाभिधा- यित्वस्योक्तत्वात्स्वार्थपरत्वेऽपि नानित्यसंयोगप्रसङ्ग इत्याशङ्कानिराकरणार्थं वेदप्रामाण्ये सतीति भाष्यं तद्व्याचष्टे—स चेति । अयमाशयः—अनित्यार्थाभिधायित्वे कृत्रिमत्वेन वेदस्याप्रामाण्यापत्तेस्तत्परिहार्थं कथंचिन्नित्यसिद्धवाय्वाद्यर्थवचनत्वम् कल्पितम् । यदा तु कथंचित्प्रामाण्यं न सम्भवति तदा यथाश्रुतार्थपरित्यागकारणाभावान्न क्लेशेन बबरादि- शब्दानां वाय्वादिवचनत्वकल्पनं युक्तमिति । नन्वेवमप्रामाण्ये सति यथाश्रुतार्थपरित्याग- कारणाभावादनित्यार्थाभिधायित्वमनित्यार्थाभिधायित्वे बवरादिवाक्यानां कृतकत्वेना- प्रामाण्यमितीतरेतराश्रयमाशङ्क्येत रैकदेशवदित्युक्तम्—तस्यार्थः । यथेतरेषामनित्यसंयोग- रहितानामापो वै शान्ता इत्यादीनामेकदेशानामकियार्थत्वादप्रामाण्यम्, तथैतेषामनित्यार्था- नामप्यक्रियार्थत्वेनैवाप्रामाण्यसिद्धेर्न इतरेतराश्रयत्वमिति । नन्वध्ययनविधिबलात्सर्वस्य वेदस्य पुरुषार्थोपयिकत्वावगतेः कथमर्थवादानर्थक्यशङ्क। । अत आह—तस्मादिति । अदृष्टार्थत्वेऽपि पुरुषार्थोपयिकत्वोपपत्तेन्नैं॑कान्ततोऽर्थपरत्वमध्यापनविधिर्राक्षपतीति भावः । एवमादीनामित्यनेनैतद्दर्शयति प्रथमसूत्रव्युत्पादितमध्ययनविधेर्दृष्टार्थत्वमर्थवादेष्वेवा- सम्भवादाक्षिप्य तेन सर्वत्र विधेर्हि प्रयोजनाकाङ्क्षायां दृष्टे सम्भवत्यदृष्टं न कल्प्यमिति तत्रोक्तम् । न च सर्वत्रैकरूप्येण भाव्यमिति नियमो युक्तः । स्तोभादिष्वर्थपरत्वासम्भ- वात् । अथ तत्रापि नियतकालसामभागपूरणाद्यर्थत्वादर्थज्ञानाथंत्वाभावेऽपि दृष्टार्थत्व- १. बबरादिवाक्यानि प्रतीयमानबाधितार्थकानि सत्यत्वेऽनित्यसंयोगप्रसङ्गात् । २. साध्यं तदेव सत्यार्थत्वेऽन्यानर्थक्यप्रसङ्गात् यथार्थत्वे प्रसज्यमानाप्रतिषेधभाग्यमर्थम- निषेधकत्वादिति ।