मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 92, कुल 804 में से
संदर्भ में पढ़ें४० मीमांसादर्शनम् [ सू० मात्रेणैकरूप्यमुच्यते । ततो ऽत्रापि यत्सम्भवति तत्प्रयोजनमित्यनेन रूपेणैकरूप्यं मत्त्वा सन्तोष्टव्यम् । यद्वा अध्ययनसंस्कृतैरक्षरैर्यच्छक्यते पुरुषार्थरूपम्, तत् कुर्यादित्यध्ययनविधिना वेदा- ध्ययनस्य शक्यफलसाधनत्वावगमादर्थवादाक्षरैः कस्य चित्पुरुषार्थरूपस्य कर्तुमशक्यत्वा- न्निष्प्रयोजनत्वमेवाङ्गीकृतमित्याह—अथ वेति । प्रत्यक्षशब्देनापरोक्षाकारवाचिना१ ग्रहण- पर्यन्तमध्यापनमभिप्रेतं तस्योपेक्षाफलत्वमुपपादयितुं हेतुतयार्थवादजनितस्य२ ज्ञानस्य हेयोपादेयार्थविषयत्वेन तद्वाक्यानामुपेक्षाफलत्वं दृष्टान्तमिषेणोक्तं द्रष्टव्यम् । अर्थपरत्वा- भावेऽपि कर्मानुष्ठानकाले उच्चारणार्थत्वसम्भवादर्थवादाध्ययनस्यादृष्टार्थत्वम्, निष्प्रयो- जनत्वं वा पूर्वपक्षिणापि नाङ्गीकार्यमित्याशङ्कते—अथेति । परिहरति—प्रयोगेति । अव्यापाररूपत्वेन मन्त्राणां व्यापारग्राहिणा करणेन साक्षाद्ग्रहणाद्योगादुच्चारणद्वारा तद्ग्रहणम्, तद्ग्रहणच्चोच्चारणार्थतेत्यन्योन्याश्रययापत्तेर्न प्रकरणपाठमात्रेण विनियोगो युक्तः, सामर्थ्यात्त्वभिधानक्रियार्थत्वावगमे तद्द्वाराप्रकरणग्रहणोपपत्तेरनुच्चारितस्या- भिधानांशक्तेः कर्म्मकालोच्चारणसिद्धिरिति भावः । मन्त्राधिकरणपूर्वपक्षन्यायेन चार्थ- वादानामर्थपरत्वाभावेऽपि कर्म्मकालोच्चारणमत्रेत्यः पूर्वपक्षी मन्यत इत्यनभिमतमपि प्रौढ्यानुजानाति—अथ वेति । अस्मिन्पक्षे सूत्रविरोधमाशङ्कयाह—यत्त्विति ॥ ६ ॥ बबर, प्रावाहणि, इत्यादि अनित्य विषयों का संयोग अर्थात् प्रतिपादन होने से भी अर्थवाद अप्रमाण है । वेद में जन्म-मरणशील मनुष्यों का उल्लेख है । जैसे:—‘‘बबरः प्रावाहणिरकामयत’’ (तै० सं० ६।१।१०।२) । ‘‘कुसुरुविन्द औद्दालकिरकामयत’’ । (तै० सं० ६।२।२।१) प्रवाहणका पुत्र बबर उद्दालकका पुत्र कुसुरुविन्द ने कामना की, इत्यादि स्थलों में पिता और पुत्र का उल्लेख मिलता है, अतः, अर्थवादवाक्यों का अप्रामाण्य है । इन सूत्रों के द्वारा पूर्वपक्ष किया गया है । अतः अर्थवाद के अप्रामाण्य सूचक पद पञ्चम्यन्त में प्रयुक्त हैं । अर्थात् इन कारणों से इनका अप्रामाण्य है । ॥ ६ ॥ सिद्धान्तः विधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युः ॥१.२.७॥ [सि०] शा०] इदं समाम्नायते—‘वायव्यं श्वेतमालभेत भूतिकामः ‘वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयति इति (तै० सं० २।१।१) । वायुर्वै क्षेपिष्ठा देवतेत्यतो यद्यपि क्रिया नावगम्यते क्रियासंबद्धं वा १. ग्रहणपर्यन्ततायां प्रत्यक्षत्वं भवतीति भावः । २. तस्य ग्रहणपर्यन्तताध्ययनस्योपेक्षाफलत्वमुपपादयितुमर्थवादवाक्यानामुपेक्षाफलत्वं दृष्टान्तमिषेण हेतुतयोक्तमिति संबन्धः । ३. अर्थवादवाक्यानामुपेक्षाफलत्वमुपपादयितुमाह—अथेति ।