मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 8, कुल 1023 में से
संदर्भ में पढ़ेंखं. १ अ. ४ | पान ८ ह्यशिवोऽसि न संशयः ॥५८॥ शिवेति द्व्यक्षरं ब्रह्म निर्गुणं गुणधारणम् । न जानासि यतस्त्वं भोस्तेनाहं दुःखिता भृशम् ॥५९॥ तव देहात् समुद्भूतो मम देहस्त्वयं पितः। न योग्यः शिवनिंदायाः कारणात् तं त्यजाम्यहम् ॥६०॥ इत्युक्त्वा सा हृदि ध्याने नीत्वा तं शंकरं प्रभुम् । योगाग्निना समुज्ज्वल्य देहं धाम्नि गताऽभवत् ॥६१॥ पुनः स्वमायया देवी हिमा- चलसुताऽभवत् । शिवध्यानपरा साक्षात्तं लेभे सा पुनः पतिम् ॥६२॥ तपस्तप्तं सुतीव्रं यत्नेन चात्मवशेन सा । लेभे मुदं शिवेनापि पार्वती प्रेमविह्वला ॥६३॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुंडचरिते पार्वतीदेहत्यागो नाम तृतीयोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ सत उवाच । कैलासशिखरे रम्ये शिवश्चिन्तापरोऽभवत् । अनाहूता गता देवी द्विद्गृहे किं भविष्यति ॥१॥ वटमूले समासीनो नंदिकेशादिभिर्वृतः । योगिभिः सेवितस्तत्र कथा नाना प्रवर्तयन् ॥२॥ नानाऽपशकुनं तत्र बभूवाति- भयानकम् । स्तुतिभिस्तेन सर्वे ते उत्पाताशंकया भृशम् ॥३॥ एतस्मिन्नन्तरे तत्र नारदो मुनिराययौ । तं प्रणम्य स्थितो योगी शिवं कल्याणदं परम् ॥४॥ कथावसरमासाद्य प्रोवाच कठिनं वचः । धन्या सती त्रिभुवने न समा कामिनी तया ॥५॥ सतीत्येव च यन्नाम कृतं तत्सार्थकं परम् । शिवनिन्दां समाकर्ण्य तृणवज्ज्वलितं वपुः ॥६॥ नारदस्य वचः श्रुत्वा वज्रसारमयोपमम् । उवाच तमृषिं शंभुः किं नु देवी मृता मुने ॥७॥ न किंचिदुक्तवांस्तत्र शंभुक्रोधभयाकुलः । शोकाग्निर्मां दहेत्किं वा ततो देवोऽन्वबुध्यत ॥८॥ शोकसागरमग्नोऽभूत्किं मां त्यक्त्वा गता शिवा। शक्तिहीनः कृतोऽहं वै ह्यशक्त सर्वकर्मणि ॥९॥ निःश्वासपरमोप्यासीदर्धमङ्गं गतं त्विति । जीवितेन च किं कार्यं देहत्यागं करोम्यहम् ॥१०॥ योगिभि सांत्वितो देवो न किंचित्सुखवानभूत् । शिवश्चिंतापरो भूत्वा विचारं कृतवान् हृदि ॥११॥ अहो विघ्नाकुलोऽहं वै कृतो विघ्नकरेण च। गर्वितः परमैश्वर्यात्कृतं गर्वस्य खण्डनम् ॥१२॥ अतुला शक्तिरर्धाङ्गे जगन्माताऽस्ति मे सदा । अर्धनारी श्वरोऽहं च न वियोगो मम क्वचित् ॥१३॥ शक्तियुक्ततया नित्यं शक्तोऽहं प्रचुरीश्वरः । अखण्डैश्वर्यमोहेन विघ्नराजं च