न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 377, कुल 608 में से
संदर्भ में पढ़ेंतृतीयस्तवके ] अनुमानप्रामाण्योपपादनम् । ३४५ ननु तर्कोऽप्यविनाभावमपेक्ष्य प्रवर्त्तते, ततोऽनवस्थया भवितव्यम् । न । शङ्काया व्याघातावधित्वात् । तदेव ह्याशङ्क्यते, यस्मिन्नाशङ्क्यमाने स्वक्रियाव्या- बोधनी । ननु यदि तर्केण व्यभिचारशङ्कानिवृत्तिः तर्हि, तर्कस्याप्यविनाभावापेक्षत्वात्तत्रापि शङ्कानिवृत्त्यर्थं तर्कान्तरापेक्षायामनवस्था स्यादित्याशङ्कयाह ननु-इति । अत्रोत्तरत्वेन तृतीयं पादमवतारयति न- इति । नानवस्थया भवितव्यम्, न हि यत्र यत्राविनाभावग्रहस्तत्र सर्वत्र शङ्कोदय इति । व्या- घातावधित्वमेवाह तदेव हि-इति । यस्मिन्नाशङ्क्यमाने लोकस्य व्यवहारव्याघातादयो न प्रादुष्यन् प्रकाशः । नन्वन्वयेच तर्कामूलव्याप्तावपि शङ्काऽनुवृत्तौ मूलशैथिल्यात्तन्निवर्त्तनं तर्कादेवेत्यनवस्थेत्याह— नन्विति ॥ न चानादिसिद्धव्याप्तिका एव केचित्तर्का इति वाच्यम् । तत्रापि प्रमाणानुयोगेऽ- नुमान एव पर्यवसानेऽनवस्थापत्तेरिति भावः । तर्कामूलव्याप्तिग्रहो न तर्कांन्तरात् किन्त्वन्वयै- वेत्याह ॥ शङ्काया इति ॥ तदेव स्पष्टयति ॥ तदेव हीति ॥ धूमो यदि वह्निसमवहितसामग्र्य- जन्यत्वे तत्समवहितसामग्र्यजन्यः स्यान्नोत्पन्नः स्यादित्यत्र तर्के प्रवृत्ते किमवह्नेरेव धूमः स्यादिति शङ्का, क्वचिद्वह्निं विनाऽपि स्यादिति वा, अकारणत एवोत्पद्यते इति वा ? । सर्वत्र स्वक्रियाव्याघातः । यदि हान्वयव्यतिरेकावधृतकारणभावं कारणं विना कार्योत्पत्तिं शङ्केत, तदा नियमेन धूमार्थं वह्नेस्तृ- प्यर्थमन्नस्य परप्रतिपत्त्यर्थं शब्दस्योपादानं न कुर्यात्, तैर्विनाऽपि तेषां सम्भवात् । तस्मात् तदु- पादानमेव तादृशशङ्काप्रतिवन्धकम् । न ह्यस्ति सम्भवो धूमार्थं वह्नयादिकमुपादत्ते तत्कारणं तन्ने- त्याशङ्कते चेत्यर्थः । अतश्च— व्याघातो यदि शङ्काऽस्ति न चेच्छङ्का ततस्तराम् । व्याघातावधिराशङ्का तर्कः शङ्कावधिः कुतः ॥ प्रकाशिका । रति धूमो यदीति । अत्र सत्यन्तं विशेषणं पक्षेयोजनीयम् । तेनाभिमतविपर्ययपर्यवसायित्वं तर्कस्येति बोध्यम् । तदुपादानमिति । उपादानकारणीभूतं कार्यकारणभावज्ञानमित्यर्थः । उपादा- नस्य क्रियायाः शङ्काप्रतिवन्धकत्वात् । नन्वेवमन्योन्याश्रयः कार्यकारणभावग्रहार्थमेवैतत्कर्मानुसरणा- दिति वाच्यम् । न ह्यनेनैव तर्केण धूमवह्निव्याप्तिग्रहनियमः कोटिस्मरणादिविरहेण शङ्काविच्छेदे तर्कं विनापि व्याप्तिग्रहात् , किन्तु सर्वत्र शङ्का स्यादेवेति शङ्कापिशाच्या न क्वापि व्याप्तिग्रह इति नानुमानं प्रमाणामेति वदन्तं चार्वाकं प्रति तर्कोऽयमुपदर्श्यते । एवमाशङ्कमानस्य भवतोऽपि स्वक्रि- याव्याघात इति प्रतिपादनाय तथा च भवतोऽप्युपादानकारणीभूतं कार्यकारणभावज्ञानं वर्त्तत एवेति नास्ति शङ्केति तदुद्भावनं वाङ्मनसविर्संवाद इति भयेन शङ्काममुद्भावयन् सोऽनुमानप्रामाण्यानु- मकरन्दः । यत्तर्कामूलव्याप्तौ व्याघातः शङ्काप्रतिबन्धकस्तमुदाहरति धूमो यदीति । सत्यन्तं घटादौ व्यभि- चारवारणाय । पक्षविशेषणमप्येतद् बोध्यम् । तेनैतद्विशेषणस्यैव व्यतिरेकमादाय नास्य विपर्य्ययप- र्य्यवसानम् । तद्ग्रहश्च योग्यानां व्यभिचारदर्शनात्, अयोग्यानामनुपस्थितकल्पनागौरवात् । तदु- पादानमिति । तदुपादानहेतुभूतधूमवह्न्यादिकार्य्यकारणभावज्ञानमेवेत्यर्थः । शङ्काया विरोधिनिश्च- याप्रतिबध्यत्वादिति ध्येयम्। यद्यप्येवमन्योन्याश्रयः, शङ्कानिवृत्तावेव तर्कस्य कार्य्यकारणभावनिवर्त्तकत्वं निश्चिते च कार्य्यकारणभावे ततः शङ्कानिवृत्तिरिति, तथापि न सर्वत्रानेनैव तर्केण वह्निधूमकार्य्य- कारणभावग्रहः, स्वतः सिद्धशङ्काविरहेऽन्वयादिज्ञानवतस्तद्ग्रहे बाधकाभावाव तस्मात् सर्वत्र शङ्का स्यादेवेति यच्चार्वाकादिरनुमानविरोधी मन्यते, तं प्रत्युच्यते तथा सत्येतादृशतर्केऽपि तादृशशङ्कायां भवतो धूमार्थंवडयुपादानं व्याहन्येत । तदिदमाह, न ह्यस्ति सम्भवो धूमार्थं वह्नयादिकमुपादत्ते ४४ न्या० कु०