पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
पृष्ठ 333, कुल 536 में से
संदर्भ में पढ़ें( ३१८ ) पञ्चतन्त्रम् । निकल जाओ" शशक बोला,-"यह तेरा नहीं किन्तु मेरा घर है । सो क्यों मिथ्या कठोर वचन कहता है । कहा है- वापीकूपतडागानां देवालयकुजन्मनाम् । उत्सर्गात्परतः स्वाम्यमपि कर्तुं न शक्यते ॥ ९३ ॥ बावडी कुए तडागोंको देवालय तथा वृक्षोंको छोड़कर फिर इनपर कोई अपना प्रभुत्व नहीं कर सक्ता ॥ ९३ ॥ तथाच- तैसेही- प्रत्यक्षं यस्य यद्भुक्तं क्षेत्राद्यं दश वत्सराम् । तत्र भुक्तिः प्रमाणं स्यान्न साक्षी नाक्षराणि वा ॥ ९४ ॥ दश वर्षतक जिसने प्रत्यक्ष क्षेत्रादिका भोग किया है उसमें भोगही प्रमाण २ साक्षी और लेखकी आवश्यकता नहीं है ॥ ९४ ॥ मानुषाणामयं न्यायो मुनिभिः परिकीर्त्तितः । तिरश्चाञ्च विहङ्गानां यावदेव समाश्रयः ॥ ९५ ॥ मनुष्योंका यह न्याय मुनियोंने कहा है पशु और पक्षियोंकी जबतक जहां स्थिति है तबतक वह वहांका अधीश्वर है ॥ ९५ ॥ तन्मम एतद्गृहं न तव" इति । कपिञ्जल आह,-"भो ! यदि स्मृतिं प्रमाणीकरोषि तदागच्छ मया सह येन स्मृति- पाठकं पृष्ट्वा स यस्य ददाति स गृह्णातु । तथानुष्ठिते मया अपि चिन्तितम् । "किमत्र भविष्यति । मया द्रष्टव्योऽयं न्यायः" । ततः कौतुकादहमपि तावनु प्रस्थितः । अत्रा- न्तरे तीक्ष्णदंष्ट्रो नाम अरण्यमार्जारः तयोर्विवादं श्रुत्वा मार्गासन्नं नदीतटमासाद्य कृतकुशोपग्रहो निमीलितनयन ऊर्ध्वबाहुरेकपादस्पृष्टभूमिः श्रीसूर्याभिमुख इमां धर्मोपदे- शनामकरोत् । "अहो ! असारोऽयं संसारः क्षणभङ्गुराः प्राणाः । स्वप्नसदृशः प्रियसमागमः । इन्द्रजालवत् कुटुम्बप- रिग्रहोऽयम् । तत् धर्म मुक्त्वा नान्या गतिः अस्ति । उक्तञ्च-