पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
पृष्ठ 389, कुल 536 में से
संदर्भ में पढ़ें( ३७४ ) पञ्चतन्त्रम् । अनागतं यः कुरुते स शोभते स शोच्यते यो न करोत्यनागतम् । वनेऽत्र संस्थस्य समागता जरा बिलस्य वाणी न कदापि मे श्रुता ॥ २२५ ॥ " नहीं उपस्थित हुई ( भावि ) विपदका प्रतिकार जो करता है वह शोभित होता है और जो न आई विपतका प्रतिकार नहीं करता वह कष्ट पाता है इस वनमें रहते २ मैं बूढा होगया परन्तु बिलकी वाणी कभी मैंने न सुनी ॥ २२५ ॥" ते प्रोचुः-,"कथमेतत् ?" रक्ताक्षः कथयति- वे बोले- "यह कैसे ?" रक्ताक्ष कहने लगा- कथा १४. कस्मिंश्चित् वनोद्देशे खरनखरो नाम सिंहः प्रतिवसति स्म। स कदाचित् इतश्चतश्च परिभ्रमन् क्षुत्क्षामकण्ठो न किञ्चिदपि सत्त्वं आससाद । ततश्च अस्तमनसमये महतीं गिरिगुहां आसाद्य प्रविष्टः चिन्तयामास । "नूनं एतस्यां गुहायां रात्रौ केनापि सत्त्वेन आगन्तव्यम् । तत् निभृतो भूत्वा तिष्ठामि" । एतस्मिन्नन्तरे तत्स्वामी दधिपुच्छो नाम शृगालः समायातः, स च यावत् पश्यति, तावत् सिंहपदप- द्धतिर्गुहायां प्रविष्टा न च निष्क्रमणं गता । ततश्च अचिन्त- यत्, "अहो ! विनष्टोऽस्मि । नूनमस्यामन्तर्गतेन सिंहेन भाव्यम् । तत् किं करोमि ? कथं ज्ञास्यामि ?" एवं विचिन्त्य द्वारस्थः फूत्कर्तुमारब्धः- "अहो बिल ! अहो बिल !" इत्युक्त्वा तूष्णीम्भूय भूयोऽपि तथा एव प्रत्यभाषत, - "भोः ! किं न स्मरसि यत् मया त्वया सह समयः कृतोऽस्ति । यत् मया बाह्यात् समागतेन त्वं वक्तव्यः। त्वया च अहमाकार- णीय इति । तद् यदि मां न आह्वयसि ततोऽहं द्वितीयं बिलं यास्यामि"। अथ तच्छ्रुत्वा सिंहः चिन्तितवान् "नूनं एषा