पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)
Paraskara Grihyasutra Hindi
महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा
स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)
पृष्ठ 182, कुल 263 में से
संदर्भ में पढ़ें( १६० )
अहं ब्रह्माभिगुप्तः—ब्रह्मणा वेदेन अभितः गुप्तः सन् सुरक्षितः— निष्प्रत्यूहः स्यां—भवेयम्।
३- विश्वेदेवास्त्रयोदश आदित्या द्वादश, वसवः अष्टौ, रुद्रा— एकादश, मरुतः—एकोनपञ्चाशत् च नः—अस्माकं गोप्तारः— रक्षितारः, सन्तु—भवन्तु । परमेष्ठी—परमे स्थाने वर्त्तमानः प्रजापतिः मयि—यजमाने ऊर्जं—बलं, प्रजां—सन्ततिम्, अमृतम्—अमरणधर्मत्व- मानन्दं वा दीर्घमायुः—चिरजीवित्वं च दधातु—सुस्थितं करोतु ।
अष्टकायै स्वाहा । ७
अष्टकायै स्वाहा इति मन्त्रेण चतुर्थीमाहुतिं जुहुयादित्युक्तमेव । प्रथमाष्टकाया इन्द्रदेवताकत्वेन अपूपहविष्कत्वेन च उक्तत्वात् स्थालीपाकहोमानन्तरम् इन्द्राय स्वाहा इति अपूपेन एकामाहुतिं हुत्वा उभयोः स्विष्टकृद्धोमं कुर्यात् । इति प्रथमाष्टकानिरूपणम् ।
मध्यमा गवा । ८
प्रथमाष्टकायामष्टकासाधारणविधानमुक्त्वा सम्प्रति मध्याष्टकायां विशेषमाह । मध्यमा—मध्यमाष्टका पौषपूर्णिमाया ऊर्ध्वमागच्छन्ती कृष्णाष्टमी, सा गवा—गोपशुना कर्त्तव्येति शेषः । अत्र यद्यप्याचार्येण गोपशुरुक्तस्तथापि "अस्वर्ग्यं लोकविद्विष्टं धर्म्यमप्याचरेन्न तु" इति (१-१५६) याज्ञवल्क्यस्मरणात् । तथा च कलिवर्ज्ये—
देवरेण सुतोत्पत्तिर्वानप्रस्थाश्रमग्रहः । दत्ताक्षतायाः कन्यायाः पुनर्दानं परस्य च ॥ समुद्रयानस्वीकारः कमण्डलुविधारणम् । महाप्रस्थानगमनं गोपशुश्च सुराग्रहः ॥ अग्निहोत्रहवण्याश्च लेहो लीढ़ा परिग्रहः ॥ असवर्णासु कन्यासु विवाहश्च द्विजातिषु । वृत्तस्वाध्यायस्वापेक्षमघसंकोचनं तथा । अस्थिसञ्चयनादूर्ध्वमङ्गस्पर्शनमेव च ॥