पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
by श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य)
Page 369 of 1267
Read in context३२२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ] (९) ‘नाग्निर्न यज्ञो न क्रिया संस्कारो न व्रतानि शूद्रस्य’ इति पैङ्गिश्रुतौ संस्काराभावाभिलापाच्च । (१०) उत्तमस्त्रीणां तु न शूद्रवत् । ‘स पत्नीं मे पराधम’ इत्यादिष्वधिकारदर्शनात् । (११) संस्काराभावेनाभावस्तु सामान्येन ॥ (९) नन्वस्त्वध्ययनस्य उपनयनसंस्कारसापेक्षत्वं, तथापि न शू- द्रस्य वेदाध्ययनाभावसिद्धिः । शूद्रस्यापि संस्कारसम्भवादित्यतः प्रवृत्तं ‘तदभावाभिलापात्’ इति सूत्रखण्डं व्याचष्टे—नाग्निरिति । ‘अभिलापात्’ अभिधानादिति । अस्य सूत्रे अध्याहृतेन ‘न शूद्रस्य वेदाधिकारो, न वा तदविनाभूतं रथित्वम्’ इति साध्येनान्वयः । ‘अ- ग्निः’ श्रौतः स्मार्तश्च । ‘यज्ञः’ अग्निहोत्रादिः, दैवपित्र्यादियज्ञो वा । ‘क्रिया’ सन्ध्यावन्दनादिरूपा, उत्तरक्रिया वा । संस्कार उपनयना- दिः । ‘व्रतानि’ कृच्छ्रचान्द्रायणादीनि ॥ (१०) नन्वेवं संस्काराभावेन वेदानधिकारश्चेदुत्तमस्त्रीणामपि त- त्प्रसङ्गः । संस्काराभावेऽपि तासामधिकारे शूद्रस्यापि तत्प्राप्तिरित्य- त आह—उत्तमैति ॥ तुशब्दो वेदद्रष्टृत्वाख्यविशेषद्योतकः। ‘संस्कारा- भावेनाभावः’ इत्याकृष्यते। अधिकारस्येति शेषः । उत्तमानां स्त्रिय इति विग्रहः, कर्मधारयो वा । तथा च शची यमी-ऊर्वश्याद्युत्तमस्त्रीणां शू- द्रवन्न संस्काराभावेन वेदविद्याधिकारस्याभावो वक्तव्यः। कुतः? ‘सप- त्नीं मे पराधम’ (मंत्रप्रश्न.१-१६.) इत्यादिविद्यासु तासां तद्दृष्टत्वेन अ- धिकारदर्शनादिति योजना । अत्र ‘सपत्नीम्’ इति प्रतीकग्रहणेन ‘स- पत्नी मे पराधम’’ पतिं मे केवलं कुरु, उत्तराऽहममुत्तरेदुत्तर उत्तरा- भ्यः’ इति समग्रवाक्या गृह्यते। शचीवाक्यमिदम् । हे भगवन् ‘मे सपत्नीं’ मदन्यां मत्पतिपाणिगृहीतीं ‘पराधम’ पराणुद् । मम पतिं ‘केवलं’ मय्येवासक्तं कुरु । ‘अहमुत्तराभ्यः’ सौन्दर्येणोत्कृष्टाभ्यः मदन्तराभ्यो वा स्त्रीभ्यः ‘उत्तरा’ उत्कृष्टा सती ‘उत्तरेत्’ प्रियोत्त- मैव ‘उत्तरे’ सपत्नीक्लेशादुत्तरेयमिति धुल्यर्थः । आदिपदेन ‘उदतीं पश्यवः सोम एकेभ्यः पवते, ( ) उद्वसौ सूर्यो अगात्’ (ऋ.१०-१५९-१०) इत्यादि देवमातृयमीपौलोम्यादिदृष्टानां ग्रहणम् ॥ (११) तर्हि संस्काराभावहेतोरुत्तमस्त्रीषु व्यभिचारस्स्यादित्यत आह—संस्कारेति ॥ अभावो वेदाधिकारस्य । तुशब्दः पूर्वोक्तन्याय-