पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 368, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ९. सू - ३६. ] दीपिकासहितम्. ३२१ ( ८ ) सू—ॐ ॥ संस्कारपरामर्शात्तदभावाभिलापाच्च ॥ॐ॥३६॥ ‘ अष्टवर्षं ब्राह्मणमुपनयीत तमध्यापयीत ’ ( ) इत्यध्यापनार्थं संस्कारपरामर्शात् । शेषः अनेन—‘ आद्रवणात्’ सम्बोधनाद्वा ‘ उत्तरत्र ’ ‘ अयमश्वतरी रथः ’ ( छां. ४-२-२. ) इतिश्रुतेन ‘ चैत्ररथेन लिङ्गात् ’ लिङ्गेन स्वा भाविकरथेन लिङ्गेन बहुदायित्वादिलिङ्गेन चास्य पौत्रायणस्य क्षत्रि यत्वावगतेः। अस्मात् बाधकात्तादाद्रवणनिमित्तादेवास्य शूद्रत्वम्, न तु जात्याऽसौ शूद्रः । तथा रथेन वेदनिश्चयाच्च नासौ शूद्र इति सूत्रार्थ उक्तो भवति ॥ ( ८ ) यदुक्तं रथित्वलिङ्गेन पौत्रायणस्य क्षत्रियत्वावगमात्, न त ल्लिङ्गेन शूद्रस्य वेदाधिकारसिद्धिरिति । न तद्युक्तं—शूद्रस्यापि र थित्वसम्भवात् । न च रथस्य वेदव्याप्यत्वाच्छूद्रे च तदभावाद्रथ स्याप्यभाव इति वाच्यम् । शूद्रेऽपि वेदाधिकाराङ्गीकारादित्याशङ्कां परिहरत्सूत्रमुपन्यस्यति—संस्कारेति ॥ अत्र ‘अष्टवर्षं ब्राह्मणमुपन यीत् । तमध्यापयीत’ इति श्रुतौ ब्राह्मणस्यैवाध्ययने उपनयनापेक्षा, नान्येषामित्याशङ्कापरिहाराय प्रवृत्तं संस्कारपरामर्शादित्यंशं व्याच ष्टे—अष्टवर्षमिति । उपनयीतेत्यनन्तरं इत्युपनयनमुक्त्वेति शेषः।‘तं’ उपनीतं माणवकमात्मन आचार्यकरणकामोऽध्यापयीतेत्यर्थः । इतिश ब्दानन्तरं श्रुताविति शेषः। ‘ अन्यार्थवचनं परामर्शः ’ इत्याशयेन प रामर्शपदं व्याचष्टे—अध्ययनार्थमिति । अध्ययनाङ्गतयेत्यर्थः । अध्या पनवाक्यस्यापि ‘स्वाध्यायोऽध्येतव्यः’ (तै.आ.२-१५-१.) इति श्रुत्यनुरो धेन जीविकार्थोऽध्ययनविधिपरत्वादिति भावः। ‘संस्कारपरामर्शात् ’ उपनयनाख्यसंस्कारमात्रवचनादित्यर्थः । तच्छब्देनेति शेषः। न तु ब्रा ह्मणपरामर्श इतिमात्रशब्दार्थः। तथा च नोक्तशङ्कावकाश इति भावः। केचित्तु-श्रुतिगतब्राह्मणशब्दोऽत्र ब्रह्मज्ञानयोग्यत्रैवर्णिकपर इत्याहुः । तच्चिन्त्यम्, शङ्कासमाधानाननुगुणत्वात्। कुत एवं कल्प्यत इत्यतः स्मृ तावप्युपनयनाख्यद्वितीयजन्मवत एव सारण्यकवेदाध्ययनविधानादि त्याशयेन सूत्रे भाष्ये च ‘ वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्म ना ’ इति स्मृतिसमुच्चयार्थकश्चशब्दः प्रायोजि । सः परामर्शादित्यने नान्वेति। परामर्शाच्चेत्यनन्तरं अध्ययनस्य संस्कारसापेक्षत्वावगमादि ति शेषः ॥ ४१