पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 367, कुल 1267 में से
संदर्भ में पढ़ें३२० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ] (७) यत्र वेदो रथस्तत्र न वेदो यत्र नो रथः । इति ब्रह्मवैवर्ते ॥ ३५ ॥ स्तत्वविशेषोक्तिरेव, न तु रथत्वस्यापि शक्यकोटिप्रवेशः । तथा च सूत्रे रथत्वप्रकारकबोधाय रथशब्दप्रयोग इति न तद्वैयर्थ्यमिति ध्ये यम् । इति ब्राह्मे उक्तत्वात् न श्रुतिसूत्रयोर्वैरूप्यमित्युपस्कारेणान्वयः॥ (७) एवं साक्षादेव स्वाभाविकरथेन पौत्रायणस्य क्षत्रियत्वं प्रसाधि तम् । स्वाभाविकरथित्वेऽप्यस्य वर्णावरत्वं किं न स्यादित्यप्रयोजकत्व माशङ्क्य मैवं-आगन्तुकस्यापि रथस्य वेदं विनाऽयोगात् 'वेदस्य च संस्कारेति वक्ष्यमाणन्यायेन शूद्रेऽयोगात्' रथमात्रेण वेदानुमानद्वारा पौत्रायणस्य शूद्रत्वाभावसिद्धेरित्याशयेन रथेन वेदानुमाने व्यभिचा र शङ्कापरिहाराय आगमेनोभयव्याप्तिं दर्शयति- यत्रेति ॥ 'तत्र' त त्रैवेत्यर्थः। तेन यत्र वह्निः तत्रैवधूम इत्यादाविव वेदस्य व्यापकताला भः । अतएव व्यतिरेकप्रदर्शकांशे न वेद इति वेदाभावस्य प्रथममु क्तिः। स्मृतौ रथशब्देन आगन्तुकस्वाभाविकसाधारणरथमात्रस्य वि वक्षितत्वात्, समव्याप्त्यभिप्रायेण वा यत्र वेद इत्युक्तिः। अतएव टी कायां 'रथस्य वेदाविनाभावात्' इति रथस्य व्याप्यत्वमुक्त्वा 'वै दिकत्वमात्रे विद्यमानंरथित्वम्' इत्यनेन तस्य व्यापकत्वमुक्तम् । वस्तुतस्तु-यत्ररथस्तत्रवेद इति योजनायां नानुपपत्तिः । तथा च अनेन व्याप्तिनिश्चयात् न व्यभिचारशङ्केति यादृशतादृशरथमात्रेण वेदानुमानद्वारा शूद्रत्वाभावानिश्चयान्न पौत्रायणस्य वेदबाह्यवर्णी वरत्वं शङ्क्यमिति भावः । एतेन पूर्वपक्षिणा शूद्रेऽपि वेदाङ्गीकारान्न ते न शूद्रत्वाभावसाधनं युक्तमितिनिरस्तम्, तस्योत्तरसूत्रे निराकरिष्य माणत्वात् । न च ब्राह्मणादिसाधारणरथित्वेनास्य वैदिकत्वनिश्चये ऽपि तद्द्वारा अशूद्रत्वसिद्धावपि कथं क्षत्रियत्वनिश्चय इति वाच्यम् । रथित्वमात्रस्य वैदिकत्वव्याप्तत्वोक्त्या स्वाभाविकरथित्वस्य वैदिक विशेषक्षत्रियत्वव्याप्तत्वेनापि स्मृत्यभिप्रेतत्वात् । तस्य च कादाचित्क रथवति ब्राह्मणादावभावान्तेन साक्षादेव क्षत्रियत्वनिश्चयोपपत्तिः। न च 'अपलायनं च शूद्रस्य' इत्यनेन प्राप्तयोधृत्वान्यथानुपपत्त्या शूद्र स्य रथित्वप्रतीतेस्तत्र व्यभिचार इति वाच्यम् । अपलायनेन योद्धृ त्वस्य पदातितयोपपत्त्या रथित्वानाक्षेपकत्वात् । ब्रह्मवैवर्ते इत्यस्य उक्तत्वादित्यध्याहारेण नासौ शूद्र इत्यनेनान्वय इति ज्ञायत इति