पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
DevanagariHindipublished1,267 पृष्ठ
पृष्ठ 57, कुल 1267 में से
संदर्भ में पढ़ेंपृष्ठ 57
१० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] चकार ब्रह्मसूत्राणि येषां सूत्रत्वमञ्जसा । ( ९ ) अल्पाक्षरमसंदिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः । न्वेदानिति बहुवचननिर्दिष्टनामपि वेदानां तस्येत्येकवचनेन निर्देशो नानुपपन्नः, तस्येत्यस्य समुदायैकवचनत्वात् । नित्यसापेक्षत्वात् 'अ र्थवित्तये' इति समासस्साधुः । पुनश्शब्दस्यानन्तर्यार्थत्वं च 'पुनर प्रथमे भेदे' इत्यमरोक्त्या 'पुनरेव समभ्यसेत्' इत्यत्र पुनः निद्राप
- गमानन्तरमिति सुधोक्त्या 'तृतीये पुनरेव च'इत्यत्र वरत्रयानन्तर मिति विश्वेशतीर्थोक्त्या च सिद्धम् । 'चकार' इत्यत्रापि 'कृष्णो व्यासः' इत्यनुषज्यते । ननु सूत्रान्तरैरेव वेदार्थनिर्णयसम्भवात्किं ब्रह्मसूत्रैरिति गतार्थताशङ्कापरिहारायाह—'येषां' इति । 'सूत्रत्वं' सू त्रशब्दप्रवृत्तिनिमित्तं 'अञ्जसा' मुख्यतोऽस्तीत्यर्थः । अस्य तानि 'चकार' इति पूर्वेण 'एवंविधानि' इत्युत्तरेण वा अन्वयः ॥ (९) किं तत् सूत्रत्वं यदञ्जस्यं ब्रह्मसूत्राणामित्यत आह—'अ ल्प' इति । यावदक्षरां विना श्रुत्यर्थाभ्यां विवक्षितार्थसिद्धिर्नास्ति तदर्थप्रतिपादनाय तावन्मात्राक्षरमसति नियामके ततोऽधिकाक्षररहितं 'अल्पाक्षरम्' । केचित्तु—अल्पाक्षरबह्वक्षरयुक्तपर्यायपदयोर्मध्ये अ ल्पाक्षरपदोपेतत्वं अल्पाक्षरत्वमित्याहुः । तट्टीकानुगुणम् । एवं च भवितुमर्हतीत्यनुच्यमानार्थं 'असन्दिग्धम्' असन्दिग्धार्थे निर्णीता र्थमिति तत्त्वप्रदीपोक्तेः । अनन्यलभ्योत्तमार्थयुक्तं 'सारवत्' । बहु शाखागतपदवाक्यार्थनिर्णायकं 'विश्वतोमुखम्' । तत्त्वप्रदीपे तु एकं प्रयोजनं प्रत्यपेक्षितार्थस्य कृत्स्नस्य प्रतिपादकं 'विश्वतोमुखं' इत्यु क्तम् । अर्थज्ञानमन्तरेण गानभागपूरणादिप्रयोजनान्तरगार्थाक्षररहितं 'अस्तोभम्' । शब्दार्थदोषविधुरं 'अनवद्यम्' । यदेतावद्विशेषणयुतं तदेव 'सूत्रं' इति 'सूत्रविदः' सूत्रलक्षणाज्ञाः 'विदुः' अभ्युपयन्तीत्य र्थः । अत्र भाष्यनिर्णयहेतुशून्यवाक्यं कुशलपुरुषोक्तलौकिकवार्तादि कं भगवन्नाममन्त्रादिकं अर्थाप्रतिपादकत्वेऽपि ऋगक्षराव्याप्तगानभा गपरिपूरकसामगतस्तोभाक्षराणि अपशब्दोपेततादृशवाक्यं च व्या वर्तयितुं क्रमेण विशेषणानीति पदप्रयोजनं तत्त्वप्रदीपोक्तमनुसन्धेयम् । अत्र सर्वत्र धर्मिकथनेऽपि तद्वारा सूत्रपदप्रवृत्तिनिमित्तमप्युक्तमिति व भावस्कूतिः ॥