भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 58, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 58

[ अधि - १. सू - १० ] दीपिकासहितम्. ११ ( १० ) निर्विशेषितसूत्रत्वं ब्रह्मसूत्रस्य चाप्यतः । यथा व्यासत्वमेकस्य कृष्णस्यान्ये विशेषणात् । ( ११ ) सविशेषणसूत्राणि ह्यपराणि विदो विदुः । ( १० ) नन्वेतत्सूत्रत्वं कुतो ब्रह्मसूत्राणामाञ्जस्येनेत्यत आह— 'निर्विशेषित' इति । 'ब्रह्मसूत्रस्य' इति समुदायैकवचनम् । चोऽव धारणे यत इत्यर्थे च । 'अपि' शब्दो मुख्यसूत्रत्वसमुच्चये । तथाच यतो ब्रह्मसूत्राणां मुख्यसूत्रत्वमस्ति अत एव हि 'निर्विशेषितसूत्रत्वं' निर्गता विशेषा यस्मात्तन्निर्विशेषं तथाख्यातं निर्विशेषितं तादृशं सू त्रपदं यस्य तस्य भावः । यद्वा — विशेषो विशेषणं, तस्याभावोऽस्य सञ्जातः तादृशः सूत्रशब्दो यस्य तस्य भावो निर्विशेषितसूत्रत्वम् । विशेषणरहितकेवलसूत्रपदवाच्यत्वमस्ति पुराणादावुक्तम् । अन्यथा तन्न स्यात्, व्यापकाभावे व्याप्याभावनियमादित्यर्थः । अत्राद्यपक्षे त थाख्यातमित्यर्थे ण्यन्तात्कर्मणि क्तः, द्वितीये तद्धितः 'इतच्' इति विवे कः । अनेन ब्रह्मसूत्राणां मुख्यसूत्रत्वे निर्विशेषितशब्दवाच्यत्वादिति हेतुरुक्तो भवति । अत्र हेतोरप्रयोजकत्वमाशङ्क्य व्याप्तिवचनेन तां प रिहर्तुं तत्र प्रथमं यद्यन्न निर्विशेषितं तत्तन्न मुख्यमित्यन्वयव्याप्तिमभि प्रेत्य तत्र दृष्टान्तमाह --- 'यथा' इति । 'एव' इत्यनुवर्तते । तेनैक शब्दार्थस्य मुख्यत्वस्य व्यापकता लभ्यते । तथाच यथा एकस्यैव सतः कृष्णस्य वेदव्यासस्य व्यासत्वं निर्विशेषितव्यासपदवाच्यत्वम स्तीत्यर्थः । तथाच निर्विशेषितत्वान्मुख्यसूत्रत्वं ब्रह्मसूत्राणामिति वाक्यशेषः । इदानीं ये अमुख्याः न ते निर्विशेषपदवाच्याः किन्तु स विशेषपदवाच्याः इति व्यतिरेकव्याप्तिमभिप्रेत्य तत्र दृष्टान्तमाह — 'अन्ये' इति । 'यथा' इत्यनुवर्तते । पूर्वमेकशब्दश्रवणादत्रामुख्या इति लभ्यते । 'व्यासः' इति शेषः । तथाच - यथा कृष्णात् 'अन्ये' द्रौण्यादयो ये ऽमुख्यास्ते 'विशेषणात्' एव विशेषणमपेक्ष्यैव व्या साः न तन्नैरपेक्ष्येण । तृतीयार्थे वा पञ्चमी, सविशेषणव्यासपदवा च्या एवेति योजना ॥ ( ११ ) नन्वस्तु ब्रह्मसूत्राणां मुख्यत्वं, तथाऽपि तदन्येषामप्यस्ति, न तेषामेव, इतरेषाममुख्यत्वे कारणाभावादित्याशङ्क्य, तत्र निर्विशे षितत्वहेतोः समव्याप्तिपरेण तदर्थमेव प्रागुक्तव्यतिरेकव्याप्तिदृष्टान्तव