भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 64, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 64

[ अधि - १. सू - १. ] दीपिकासहितम्. १७ ( २१ ) उक्तं च गारुडे— ( २२ ) अथातश्शब्दपूर्वाणि सूत्राणि निखिलान्यपि । ( २३ ) प्रारभन्ते नियत्यैव तत्किमत्र नियामकम् ॥ सनतात्पर्येणापि प्रयुक्तस्याखण्डाथशब्दस्य वाच्यमर्थमाह — ‘अ धिकार’ इति । च शब्दोऽनुष्ठेयाननुष्ठेयाक्षरार्थविवक्षया समुच्चये, न केवलं मङ्गलप्रयोजनकः किन्त्वानन्तर्याभिधायकश्चेति विषमसमुच्चये वा । यद्वा—अवधारणे चशब्दः । तेनानुष्ठेयमङ्गलारम्भप्रश्नकात्स्न्र्यार्थनि रासः । तत्प्रकारस्तु चन्द्रिकायामुक्तः । तथा चाधिकारानन्तर्यमर्थोऽ भिधेयो यस्य स तथोक्तः । अथशब्दस्यानन्तर्यमात्रार्थत्वेऽपि अधि कारेतिपदस्य योग्यतया सम्बन्धात् एवमुक्तिः । अनेनानधिकारिणो मुक्त्यर्थमात्रस्य ब्रह्मविचारे प्रवृत्तिर्निरस्ता भवति । ब्रह्मजिज्ञासायाः प्रयोजनकारणशून्यताशङ्कानिवर्तकतया अतःशब्दं व्याचष्टे—‘अतः’ इति । ‘हेत्वर्थः’ इति । हेतुर्लिङ्गमर्थो यस्य, हेतुः कारणं प्रसादाख्य मर्थो यस्येति वा, स तथोक्तः । ( २१ ) नन्वथातः शब्दपूर्वकत्वं सूत्राणां किं निमित्तं विघ्ननिवर्तक शब्दोच्चारणादेः “मङ्गळं ततः” इति शब्दान्तरोच्चारणेनापि सम्भवा दित्याशङ्कां पुराणवचनेनैव निराकरोति—‘उक्तञ्च’ इति । यदेतत् “अथशब्दः” इत्यादिनाक्तं तद्गारुडपुराणे उक्तमेवेत्यर्थः । न केवलम स्माभिः, किंतु गारुडे चेति समुच्चये वा चशब्दः । ( २२ )—( २३ ) किमुक्तमित्यतस्तत्पठति — ‘अथ’ इति । यादृ च्छिकत्वापरपर्यायानियतत्वशङ्कावारणाय ‘नियत्यैव’ इति । ‘निखि लानि’ इत्येतत् ‘सूत्राणि’ इत्यस्य सङ्कोचवारकं विशेषणम् । अपिर भिव्याप्तौ । एवकारोऽनियमव्यावृत्त्यर्थः । भिन्नक्रमो वा । तथा च — हे ‘विद्वन्’ आदिकवे ‘ब्रह्मन्’ चतुर्मुख ‘निखिलान्यपि’ व्यासजैमि न्यादिकृतानि सर्वाण्यप्यादिसूत्राणि ‘नियत्यैव’ नियमेनैव कल्पा न्तरेपि ‘अथातश्शब्दपूर्वाणि’ एव, अथातश्शब्दौ पूर्वौ प्रथमप्रयोज्यौ येषु तथाविधान्येव ‘प्रारभन्ते’ सूत्रकाराः । ‘अत्र’ प्रथमप्रयोज्यत्वे नियमेन प्रथमप्रयोगे केन चिन्नियामकेन भाव्यं, तन्नियामकं किमिति प्रश्नवाक्ययोजना । ३