भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 661, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 661

६१४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ] ( ३ ) अतो ब्रवीति — सू—ॐ ॥ अंशो नानाव्यपदेशादन्यथा चापि दाशकितवा- दित्वमधीयत एके ॥ ॐ ॥ ४३ ॥ ( ३ ) अथ सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे—अत इति ॥ यत एवं श्रुतिद्वये विरुद्धोक्तिस्संशयबीजमस्ति, अतस्तत्परिहारार्थमन्यत रकोटिनिर्णयरूपसिद्धान्तमाह सूत्रकार इत्यर्थः। सौत्रहेतुव्याख्यानाय नानाव्यपदेशान् दर्शयति—मां रक्षत्विति। 'विभुः' हरिः। अहमित्युक्त स्य जीवस्य स्पष्टं परमात्मपुत्रत्वप्रतिपादकत्वादौ स्मृत्युदाहृत्याथ श्रुतिरूपव्यपदेशं दर्शयति—अव इति। अव इत्येकदेशग्रहणेनास्य ब्र ह्मापरत्वस्फोरकः 'कवीयमानः क इह प्रवोचद्देवं मनः कुतो अधि प्रजा तम्' (ऋ.१-१६४-१८.) इत्युत्तरभागोऽपि ग्राह्यः। इत्यादिनेति। एतदादि वाक्येन जीवस्य पितृत्वपुत्रत्वादिरूपनानाप्रकारेण परमात्मसम्बन्धि त्वोक्तेरित्यर्थः । ज्ञपदानुवृत्त्या प्रतिज्ञावाक्यं दर्शयति—अंश इति । अत्रांशत्वं द्विविधम् । उपजीवकत्वरूपतच्छेषत्वं तन्न्यूनत्वे सति त त्सदृशत्वं चेति । अत एवोभयविधांशत्वमभिप्रेत्य सादृश्यं चांशताऽ स्तित्यनुव्याख्यानं चशब्दात्तदधीनत्वं चेति सुधा च प्रवृत्ता। अत्राद्ये अंशत्वे साध्ये अन्यथाऽपीत्यंशसहितो नानाव्यपदेशादित्यंशो हेतुः त त्रान्यथेत्यस्योपजीव्यत्वराहित्येन व्यपदेशादित्यर्थः। इदं च विशेषणं परमात्मनि व्यभिचारपरिहारकम् । न च पूर्वत्राप्यन्यथेत्यस्यान्वये ज्ञापकाभावः। 'नासौ' इत्यादिनानाव्यपदेशविरुद्धासम्बन्धप्रतिपाद कांगोदाहरणस्यैव ज्ञापकत्वात् । अन्यथा तद्वैयर्थ्यापत्तेः । अत एव चान्यथा चेत्युभयत्रान्वयज्ञापकचशब्दप्रयोगः । न च चशब्दो वक्ष्य माणाभेदसमुच्चायक एवास्तु, न सम्बन्धसमुच्चायकोऽपीति वाच्यम् । तस्यापिशब्देनैव लाभात् । अत एवाभेदेनापीति भाष्ये अपिशब्दः। न च नानाव्यपदेशाख्योक्तहेतुसमुच्चायकोऽपिरिति वाच्यम्। एकेनैवोभ यलाभात् । टीकायां सुधायां चान्यथेत्यस्य वक्ष्यमाणेन सम्बन्धोक्ति रपि वक्ष्यमाणेनापि सम्बन्धाभिप्रायिका, न तु पूर्वत्रासम्बन्धाभिप्रा यिका। न च तत्सम्बन्धित्वरूपांशत्वे सम्बन्धाभावव्यपदेशस्यापि हे तुत्वेऽनंशत्वश्रुतेर्गतिं चाहेत्युत्तरभाष्यविरोधः, तत्रासम्बन्धश्रुतेः गत्य नुक्तेरिति वाच्यम् । तद्भाष्यस्य भेदाभेदव्यपदेशप्रयुक्तांशत्वप्रतियो ग्यनंशत्वविषयत्वेनासम्बन्धरूपानंशत्वविषयत्वाभावात् । अत एव अ

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक) · पृष्ठ 661, कुल 1267 में से · BharatKosha