पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 662, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - १८. सू - ४३. ] दीपिकासहितम्. ६१५ मां रक्षतु विभुर्नित्यं पुत्रोऽहं परमात्मनः । ‘अवः परेण पितरं यो अस्यानुवेद पर एनावरेण’ (ऋ.१-१६४-१८.) ‘यस्तद्वेद सपितुष्पिताऽसत्’ (म. हाना.१-१४.) ‘यस्ता विजानात्स पितुष्पिताऽसत्’ सम्बन्धश्रुतेरुपकर्तृत्वाभावविषयत्वेनाद्यसूत्रभाष्य एव गतेरुक्तत्वान्न तद्विरोधोऽस्त्वश्रुतेर्न वा पौनरुक्त्यम् । द्वितीये अंशत्वे साध्ये तूत्तरत्रा प्यन्वितेनान्यथाचापीत्यंशसहितेन दाशकितवादीत्यादिनोक्तो हेतुर्यो ज्यः । हेत्वन्तरेणैतत्समर्थयत इति टीकायां एतच्छब्दोऽप्यंशत्वसामा न्यपर इति चन्द्रिकाकाराः । भावबोधकारास्तु अत्र तदधीनत्वे सति तत्सादृश्यमंशत्वं परमात्मनः पुत्रत्वं पुन्नाम्नो नरकात्त्राणकर्तृत्वेन जीव नियामकत्वरूपमेव । जीवस्य परमात्मपितृत्वमपि तज्ज्ञानेन तत्संरक्ष्यत्वे न तदधीनत्वमेव । तत्र तदधीनत्वरूपसम्बन्धित्वांशे नानाव्यपदेशो हेतुः। तत्सदृशत्वांशे तु अन्यथाचापीत्यादिः हेतुः । अन्यथा चापीत्यत्रत्यच शब्दो वक्ष्यमाणभेदव्यपदेशसमुच्चायकः । अपिशब्दस्तु भेदाभेदव्यप देशाख्यहेतोर्नानाव्यपदेशरूपपूर्वोक्तहेतुना सह समुच्चयार्थः । यथा च ‘अन्यः परोऽन्यो जीवः’ ( पाराशर्या ) इत्यंशोऽन्यथाशब्दोक्तभेदव्यपदे शः । तथा ‘नासावस्य कुतश्चन’ ‘नायं तस्यापि कश्चन’ इत्यंशोऽपि । ‘असौ’ परमात्मा ‘अस्य’ जीवस्य ‘कुतश्चन’ केनापि प्रकारेणो पकर्तव्यो न, किन्तूपकर्तैव। ‘अयं’ जीवोऽपि तस्य परमात्मनः कश्चनो पकर्ता न, किन्तूपकर्तव्य एवेति जीवपरमात्मनोः सदोपजीव्योपजीव कत्वकथनेन भेदव्यपदेश एव नासम्बन्धव्यपदेशः । हेत्वन्तरेणैतत्स मर्थयत इति टीकाऽप्यंशत्वान्तर्गततदधीनत्वसाधकनानाव्यपदेशरूप हेत्वपेक्षया हेत्वन्तरेण तदन्तर्गततत्सदृशत्वांशं साधयतीत्यभिप्रायके त्याहुः । ‘अवः परेण’ इति ऋङ्मन्त्रे तृतीया पञ्चम्यर्थे । जात इति उ च्यत इति ब्रह्मेति च शेषः । अधीतस्याधिक्येनेत्यर्थः । प्रे