पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 667, कुल 1267 में से
संदर्भ में पढ़ें६२० ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ] 'पादोऽस्य विश्वा भूतानि' (ऋ.१०-९०-३.) ॥ ४४ ॥ ( ११ ) सू—ॐ ॥ अपि स्मर्यते ॥ ॐ ॥ ४५ ॥ 'ममैवांशो जीवलोके जीवभूतस्सनातनः' (गी.१५- ७.) इति ॥ ४५ ॥ ( १२ ) अनंशत्वश्रुतेर्गतिं चाह— सू—ॐ ॥ प्रकाशादिवन्नैवं परः ॥ ॐ ॥ ४६ ॥ अनंशत्वेऽपि न मत्स्यादिरूपी पर एवंविधः । शब्दोऽत्राकर्षणीयः । ज्ञः अंश इति च वर्तते । तथा च न केवलमुपप त्तेः, किन्तु 'पादोऽस्य' इति मन्त्रवर्णाच्च जीवः परस्यांश इति योज ना । 'विश्वा भूतानि' सर्वे जीवाः 'अस्य' परमात्मनः 'पादः' अंश इति श्रुत्यर्थः प्रागेवोक्तः ॥ ( ११ ) स्मृत्याऽपि जीवस्य परमात्मांशत्वं साधयत्सूत्रं पठित्वा तां स्मृतिमुदाहरति — अपीति ॥ न केवलं जीवस्य परमात्मांशत्वं श्रूयते, किन्तु 'स्मर्यते' स्मृत्याऽप्युच्यते, अतोऽपि जीवः परस्यांश इत्यन्व यः । 'जीवलोके' जीवच्छरीरे स्थितः 'सनातनः' नित्यो 'जीवभूतः' जीवभावोपेतः जीवाख्यो यो ब्रह्मादिचेतनराशिः सः 'ममांश एव' मदु पजीव्य एव मदधीनत्वे सति मत्सदृश एव वा, न तु अभिन्नांशोऽनंशो वेत्यर्थः । कृष्णवाक्य