पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 669, कुल 1267 में से
संदर्भ में पढ़ें६२२ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ] ( १५ ) सू- ॐ ॥ स्मरन्ति च ॥ ॐ ॥ ४७ ॥ ( १६ ) एते स्वांशकलाः पुंसः कृष्णस्तु भगवान् स्वयम् । प्रथमतः समुद्रमेर्वाभिमानिनां तदंशानां च क्रमेणान्योन्यमभिन्नत्वात्, खद्योतमूत्रविष्ठाद्यभिमानिनीनां अपभ्रष्टाख्यदेवतानां तु क्रमेण तेजो जलपृथिव्यभिमानिभ्यो भिन्नत्वात् युक्तं दृष्टान्तत्वमिति भावः । अनेन सूत्रे प्रकाशादिशब्द उभयविधतेजोंशादिपरोऽभिमानिदेवतापरश्च। त था च प्रकाशादिवदित्यस्य कालाग्निखद्योतादिषु तेजाद्यंशेष्वेव भिन्न त्वाभिन्नत्ववैषम्यवदित्यर्थ इत्युक्तं भवति । अनेनैवानंशत्वश्रुतेरभि न्नांशत्वनिषेधपरत्वेन गतिरुक्ता भवति । अत एवांशत्वश्रुतेः तद्विरो धोऽपि परिहृतः ॥ ( १५ ) ननु दृष्टान्तमात्रस