पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 68, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - १. सू - १. ] दीपिका सहितम्. २१ ( ३३ ) तद्धेतुत्वं वदंश्चापि तृतीयोऽत उदाहृतः ॥ तौ, तस्मात्स्वरूपोत्तमौ, तस्मात्स्वरूपोत्तमत्वादेव 'प्राथमिकौ' प्रथमं प्रयोroundज्यविति योजना । अत्राक्षेपाविषयस्याप्योङ्कारस्य स्वरूपाधिक्यो क्तिर्ब्रह्ममीमांसाशास्त्रमात्रमुख्यामुख्यादित्वविवक्षया प्रवृत्तं 'सर्वे एते' इति वक्ष्यमाणमनुसृत्येति द्रष्टव्यम् । ननु द्वयोरेकविधं प्राथमिकत्वं विरुद्धमित्यत उक्तं 'क्रमात्' इति । आदिमध्यक्रमादित्यर्थः । तत्रो ङ्कारस्य मुख्यं प्राथमिकत्वं, अथशब्दस्य द्वितीयतया मुख्यत्वमिति ध्येयम् । ( ३३ ) अथशब्दस्य ओङ्कारेण सह स्वरूपाधिक्यमभिधाय अतः शब्दस्यापि तदाह — 'तत्' इति । 'तद्धेतुत्वं वदन्' इति 'हेत्व र्थे' इत्यस्यानुवादः । स चोद्देश्यसमर्पकस्य अत इत्यस्य शब्दपरत्व ज्ञापनद्वारा तृतीयतयोक्तत्वादिविधानार्थः । अन्यथा स्वरूपाधिक्यकथन दशाऽसङ्गतिः स्यात् । यद्यपि पुरोवादानुसारात् 'तद्धेतुत्वं वदन्' इति सुवचम् ; तथापि हेतुशब्दस्य लिङ्गार्थत्वपक्षे तत्स्वरूपं विवरि तुं कारणार्थत्वपक्षे तत्कार्यं तसिप्रत्ययार्थं च प्रदर्शयितुं 'तद्धेतुत्वं व दन्' इत्युक्तम् । अत्रातःशब्दोऽसकृदावर्तते । तत्रैकशब्दपरः, अ न्यो हेतौ, अपरो विष्णुपराः । अत्र शब्दपरस्यातश्शब्दस्य समुच्चया र्थेन अपिशब्देनान्वयः । चो यत इत्यर्थे । 'तृतीयः उदाहृतः' इत्यन योरावृत्तिः । 'प्राथमिकौ' इत्यस्य वचनव्यत्ययेनानुषङ्गः । तृतीयश ब्दो भावप्रधानः, विभक्तिव्यत्ययश्च । तथा च—न केवलमोङ्कारार्थश ब्दौ, किन्तु 'तद्धेतुत्वं' तस्य प्रसन्नस्याकारवाच्यस्य विष्णोस्तत्र जि ज्ञासादौ कारणत्वं तसिप्रत्ययेन वदन्प्रकृत्यैव तस्य जिज्ञासादेर्मोक्षहे तुत्वरूपं लिङ्गं वा वदन् 'अतः' सर्वनामासर्वनामप्रकृतिकोऽतश्शब्दोऽपि यतो विष्णोः 'तृतीयः' तृतीयतया 'उदाहृतः' उच्चारितः अतः सोऽ पि स्वरूपोत्तमः ; यत एवमतोऽतश्शब्दोऽपि तृतीयतया प्राथमिक उदाहृत इति योजना । तथा च—मङ्गलशब्देन मङ्गलोक्तावपि तस्य स्वरूपाधिक्यानुक्तेः अथातःशब्दाभ्यामवाधिकारप्रयोजनयोरनुक्ते श्च न तेन गतार्थता, अधिकारप्रयोजनसूचनार्थं तयोरवश्यापेक्षित त्वात् । अत एव टीकायां "मङ्गलोक्त्यादेः" इत्यादिशब्दः । ततश्श ब्देन हेत्वानन्तर्यप्रतियोग्यधिकारसूचनेऽपि न तस्यादिसूत्रे निवे शो युक्तः, तस्य स्वरूपाधिक्यानुक्तेरेवेति भावः ।