पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 69, कुल 1267 में से
संदर्भ में पढ़ें२२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] ( ३४ ) अकारस्सर्ववागात्मा परब्रह्माभिधायकः । ( ३५ ) तथौ प्राणात्मकौ प्रोक्तौ व्याप्तिस्थितिविधायकौ । ( ३६ ) अतश्च पूर्वमुच्चार्याः सर्वे एते सतां मताः । ( ३४ ) न केवलमवश्यवक्तव्यार्थत्वात् नापि स्वरूपाधिक्यात् अ- थातश्शब्दयोः प्रथमप्रयोगः, किन्त्ववयवार्थतश्च । अतोऽपि प्रथमप्र- योग इति भावेन कथमिति तृतीयप्रश्नस्य प्रकारान्तरेणोत्तरमाह — ‘अकारः’ इति । तयोरित्यनुवर्तते । तथा च — अथातश्शब्दयोस्स- म्बन्धी ‘अकारो’ यतः ‘सर्ववागात्मा’ तस्मात्सर्वगुणान् विष्णोः अकारो वक्ति । “यत्प्रभोः” इत्यैतरेयभाष्यदिशा सर्वासाम् वाचां र्थो यत्पूर्णत्वं तदभिधायकः, अतः परब्रह्माभिधायकः ; गुणपूर्णत्व धर्मिण एव परब्रह्मत्वात् , धर्मधर्मिणोरभेदाच्चेति भावः । ( ३५ ) एवं तयोः ‘तथौ’ तश्च थश्च वर्णौ ‘प्राणात्मकौ’ प्राणौ, दोषात्म- कः दोष इतिवत् । विशेषणयोः प्रत्येकमन्वयः । प्राणशब्दो वायुविष्णू- भयवाची । “महत्तश्चतुर्मुखात्” इतिवत् अभिमान्यभिमन्यमानयोः, “अयं वै लोकः प्रथमा महानाम्नी” ( ) इतिवद्वाच्यवा- चकयोः सामानाधिकरण्येन ऐक्यव्यपदेशः । अस्य निरूढत्वज्ञापनाय ‘आत्मक’ शब्दः । प्रोक्ताविति वाच्यत्वाभिमानित्वयोः प्रामाणिकत्व- माह । क्रमभङ्गस्तु वर्गक्रमानुसारात् उच्चारणलाघवाच्च कृतः । परमा- त्मवाचित्वं च तद्गुणद्वारेत्याह— ‘व्याप्ति’ इति । तस्येति शेषः । त- था च—तस्य अकारवाच्यस्य परब्रह्मणो व्याप्तिस्थित्यभिधायकौ इत्यर्थः । तथयोरेतत्क्रमेण योजनीयम् । अत्राकारार्थो गुणव्याप्तिः, त- कारार्थो देशकालव्याप्तिः, थकारस्य तु अविकारेण अवस्थितिरर्थ इत्यर्थभेदो ज्ञातव्यः । तत्त्वप्रदीपे तु -- ‘तथौ प्राणात्मकं प्राप्तौ’ इ- ति पाठभेदमङ्गीकृत्य प्राणात्मकं प्राणप्रणेतारं विष्णुं वाचकत्वेन प्रा- प्ताविति व्याख्यातम् । यद्यपि सूत्रे प्रविष्टस्य सर्वनामप्रकृतिकस्य अ- तश्शब्दस्य नैवमवयवार्थकथनं युज्यते, असर्वनामप्रकृतिकस्य तु ‘परस्य’ इत्यनेनैव अर्थत आधिक्यं चोक्तम् । तथापि अथशब्दस्य अर्थत आधिक्यानुक्तेः तद्गतवर्णयोः असर्वनामप्रकृतिकातश्शब्दगतव- र्णयोश्च वाक्यार्थाप्रविष्टातिशयितार्थान्तरोक्तिरियमित्यदोषः । ( ३६ ) अस्त्वेवं, ततः किमित्यत आह — ‘अतश्च’ इति । चोऽव- धारणे समुच्चये च । तत्र अथातश्शब्दविषये समुच्चयः, ओङ्कारविष-