पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 73, कुल 1267 में से
संदर्भ में पढ़ें२६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
( ४९ ) “ अध्ययनमात्रवतः । नाविशेषात् ” (१) इति चोपरि । ( ब्र. सू. ३-४-१२,१३. )
नैव सर्वाणि कर्माणि करोति ” इत्यादिना । अनेन ‘ भक्तिमान् परमे विष्णौ ’ इत्यादि ‘ संन्यस्ताखिलकर्मवान् ’ इत्यन्तवाक्येन यान्यधिका रित्रयविशेषणान्युक्तानि तान्येव सर्वाणि मिलित्वाधिकारिसामान्यल क्षणभूतानीत्युक्तं भवति । न च मिलितानां त्रयाणां प्रत्येकं त्रैविध्याभावा दसम्भवः, भावे वाऽधमादिलक्षणस्य मध्यमादिष्वतिव्याप्त्यापत्तिरि ति वाच्यम्, उत्तरवाक्ये पूर्वस्य पूर्ववाक्ये चोत्तरस्यानुकर्षेण सर्व त्र सर्वस्य सत्त्वाभ्युपगमेनासम्भवाभावात् । नन्वसङ्कीर्णविशेषलक्ष णानुक्तेस्त्रैविध्यायोग इति चेत् — अत्र केचित् “ उत्तरोक्ताप्राचुर्यं ण ” इति टीकावाक्यस्योत्तरयोरधिकारिणोरुक्तानां गुणा