पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 965, कुल 1267 में से
संदर्भ में पढ़ें९१८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ] १. अधिकरणम् ॥ (१) ज्ञानसामर्थ्यमस्मिन् पाद उच्यते ॥ सू--ॐ ॥ पुरुषार्थोऽतः शब्दादिति बादरायणः ॥ ॐ ॥ १ ॥ यद्दर्शनार्थमुपासनोक्ता तस्माद्दर्शनात्सर्वपुरुषार्थप्रा- प्तिरिति बादरायणो मन्यते । (२) यंयं लोकं मनसा संविभाति विशुद्धसत्त्वः कामयते यांश्च कामान् । तंतं लोकं जयते तांश्च कामान् १. अधिकरणम् ॥ (१) एतत्पादार्थं दर्शयति—ज्ञानेति ॥ यदर्थं पूर्वपादे उपासनो- क्ता तस्य ब्रह्मापरोक्षज्ञानस्य ‘सामर्थ्यं’ महिमा ‘अस्मिन्’ आरभ्य- माणे चतुर्थे ‘उच्यते’ अनुवर्ण्यत इत्यर्थः। तत्र ज्ञानिनां मोक्षेतरपुरु- षार्थेषु विरक्तत्वेन तदिच्छाया एवाभावात्, इच्छाभावेऽपि तत्प्राप्तौ पुरुषार्थत्वहान्यापत्तेः ज्ञानस्य मोक्षमात्रे साधनत्वं, न सर्वेषु पुरुषा- र्थेषु इति प्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्यति—पुरुषार्थ इति ॥ अत्र अ- तः पुरुषार्थ इति प्रतिज्ञाभागे सङ्गतिसूचकस्य अत इत्यस्यार्थमाह— यद्दर्शनार्थमिति। यस्य ब्रह्मदर्शनस्यार्थमित्यर्थः। ‘तस्मात्’ अतो द- र्शनात् । तत्त्वप्रदीपे तु यस्य विष्णोर्दर्शनार्थं उपासनोक्ता ‘तस्मात्’ तस्य प्रसादात् सञ्जाताद्दर्शनादित्यर्थ उक्तः। पुरुषार्थ इत्यस्यार्थमा- ह—सर्वेति। पुरुषैरर्थ्यमानं यावच्छुभं तस्य सर्वस्यैव प्राप्तिर्भवति, न तु मोक्षमात्रस्येत्यर्थः। ब्रह्मदर्शन इति शेषः। अधिकारिणः फलस- म्बन्धबोधनाय प्राप्तिपर्यन्तधावनम्। यद्यपि सूत्रे सर्वशब्दो न श्रूयते। तथाऽपि पुरुषैरर्थ्यमानत्वरूपधर्माक्रान्तसर्वपुरुषार्थवाचिपुरुषार्थशब्द- पर्यालोचनया तल्लाभ इत्याशयेन सर्वेत्युक्तम्। इति बादरायणो मन्यत इत्यस्य शब्दादित्यनन्तरमन्वयः। वादे ज्ञाने रतानामधिकतया आश्रय- त्वेन भगवत्तमो वेदेश्वर उच्यत इति तत्त्वप्रदीपोक्तरीत्या बादरायण- शब्दार्थो ज्ञातव्यः ॥ (२) ज्ञानात्सर्वपुरुषार्थ इत्येतत्कुत इत्यतः शब्दादिति हेत्वंशं व्याच- ष्टे-यमिति ॥ यस्मात् ‘विशुद्धसत्त्वो’ निर्मलान्तःकरणो ब्रह्मज्ञानी ‘यं यं लोकं’ स्वर्गादिरूपं मनसा ‘संविभाति’ इच्छति, प्राप्तुमिति शे- षः ‘यांश्च कामान्’ काम्यान् ‘कामयते’ इच्छति तंतं लोकं तान्