पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 973, कुल 1267 में से
संदर्भ में पढ़ें९२६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ] इति केचिद्विदः प्राहुः व्यासशिष्या इमेऽखिलाः ॥ यस्माद्व्यासमतं सर्वं सत्यमेव ततोऽखिलम् ॥ ( १४ ) यथाऽऽकाशस्त्वनन्तोऽपि व्यामो हस्तावधिस्तथा । प्रादेशोऽपि हि सत्येन तथैतेषां मतानि तु ॥ ( १५ ) स्वयन्तु भगवान् व्यासो व्याप्तज्ञानमहांशुमान् । अनन्ताकाशवत्पश्यन्निखिलं पुरुषोत्तमः ॥ जनीयः। न चाश्रमक्रमेण योजने स्मृत्यानुगुण्यं सुधाविरोधश्च नास्ती ति वाच्यम् । प्रमेयबाधात् । कर्मसाध्ये दृष्टादृष्टादौ सर्वत्र ज्ञानस्यानुप्र वेशो ह्युत्तमपक्षे। दृष्टमात्रप्रवेशो मध्यमे। अधमे तु न कुत्रापि ज्ञानस्य प्रवेश इति तत्त्वम् । व्युत्क्रमस्यापि क्रमत्वे सुधोक्तानुक्रमविरोधो य थायोग्यमित्युक्तिविरोधश्चेति ध्येयम् । कर्मफले विचित्रतायामपि न मुनिमतानामसत्यत्वं शङ्क्यमित्याह—इम इति। यस्मादिमे एवं वद न्तोऽखिलाः सर्वेऽपि व्यासशिष्याः, तस्मादुक्तं ‘सर्वं व्यासमतं’ वेद व्यासमतान्तर्भूतं ‘ततोऽखिलं’ निश्शेषं सर्वं सत्यमेवाधिकारिभेदा दित्यर्थः॥ ( १४ ) अत्र दृष्टान्तमाह—यथेति॥ यथा आकाशोऽनन्तोऽपि ‘स त्येन’ सत्यत्वेन वर्तते, तथा तत्प्रभेदाश्च ‘व्यामः’ पुरुषप्रमाणः बाहु द्वयपरिमितो वा ‘हस्तावधिः’ हस्तपरिमितः प्रादेशपरिमितश्चेत्येते सत्यत्वेन वर्तन्ते, तथा भगवन्मतं तदन्तर्गतान्येतेषां मुनीनां मतानि च साकल्येन सत्यानीत्यर्थः । तुशब्दार्थः चस्समुच्चये । तत्त्वप्रदीपे तु—य था आकाशः कात्स्न्र्येन गृह्यमाणोऽनन्तोऽपि परिमाणभेदापेक्षया व्या मो हस्तप्रमाण इत्याद्युच्यते ‘सत्येन’ सत्यवचनेनैव, तथैतेषां मता न्यधिकारिभेदापेक्षया सत्यानीत्यर्थ उक्तः ॥ ( १५ ) ननु ज्ञानादेव सर्वे पुरुषार्थाः कर्मणा तु तदाधिक्यमिति भ गवन्मतं, अन्येषां तु नैवं मतं, अतः कथमनन्ताकाशवदन्तर्भावितान्य मतत्वं बादरायणमतस्येत्यत आह—स्वयं त्विति॥ तुरप्यर्थः। अन न्ताकाशवदित्यस्य पूर्वेणान्वयः। भूतव्यावृत्त्यर्थं—अनन्तेति । व्याप्ते त्यर्थः। दृष्टान्ते विधेयधर्मवैकल्यपरिहारायेदम् । तथा च पुरुषोत्तमो भगवान् अनन्ताकाशवत् व्याप्तज्ञानमहांशुमान् ‘महायोगी’ महामु निर्व्यासो नानाधिकारिकं निखिलं मतं पश्यन्नपि स्वमतत्वेनेति शेषः। अपरोक्षज्ञानेनैव सर्वे स्वर्गादिकमाप्यते, ज्ञानोत्तरकृतकर्मणा तु तद्