पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
by श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य)
पर्यालोचनया बादरायणः द्वैती इति मम प्रतिभाति ॥ ( १३ ) व्यासः द्वैती चेत् भवतु, " तत्त्वमसि " इत्याद्यद्वैतप्रतिपा- दकवेदवाक्यानां का गतिः ? कुतः वेदे द्वैताद्वैतपरवाक्यानि सन्ति ? इति चेत्—वेदे द्वैताद्वैतपरवचनानि सन्तीति यत् तत्सत्यम् । तस्य कारणं वेदऋषीणां विचित्रबुद्धिरेव इति अहं मन्ये । कानि वाक्या- नि अस्माभिः अङ्गीकर्तव्यानि इति विषये वक्ष्यमाणभारतश्लोके उक्ता- त् उत्तरात् अन्यत् उत्तमं उत्तरं मम न प्रतीयते ॥ तथा च भारतश्लोकः— तर्कोऽप्रतिष्ठश्श्रुतयो विभिन्नाः नैको ऋषिर्यस्य मतं प्रमाणम् । धर्मस्य तत्त्वं निहितं गुहायां महाजनो येन गतस्स पन्थाः ॥ आरण्यपर्वणि एकादशोत्तरत्रिशततमे ( ३११ ) अध्याये पञ्चदशोत्तर- शततमः ( ११५ ) येथे यान्यान् पूज्यजनानिति मन्यन्ते तेषांतेषां तेते महाजनाः। अस्माकं भक्त्या वा क्रियया वा ज्ञानेन वा निष्ठया वा परमात्मनः कि- मपि प्रयोजनं नास्ति । यत्कार्यं निष्कापट्येन अस्माभिः क्रियते तदेव भगवत्प्रीतिकरं भवतीति निष्कपटनिरीश्वरवादिनोऽपि परमात्मा रक्षि- तुं समर्थ इति अहं मन्ये । ' मन एव मनुष्याणां कारणं बन्धमोक्षयोः ' इति वचने यथार्थमिति भासते ॥ ( १४ ) अस्य ग्रन्थस्य मुद्राङ्कनं बहूनां मित्राणां साहाय्येन आसी- त् । राजकार्यधुरन्धराः के. सि. एस्. ऐ. इति च बिरुदाङ्किताः महाराज श्री मैसूरु दिवान् शेषाद्रिअय्यर् ग्रन्थस्य मुद्राङ्कने ईप्सितं सर्वं सा- हाय्यं कार्यमिति मम प्रार्थनानुसारेण मैसूर् ग्रन्थशालाधिपतीन् वेद- शास्त्रसम्पन्नान् बि. ए. महादेवशास्त्रिणः तदपेक्षितं सर्वं कार्यमिति विश्वासपूर्वकं आज्ञापयामासुः । ते महादेवशास्त्रिणः ग्रन्थस्य मुद्रा- ङ्कने यद्यत्कार्यं आवश्यकं तत्सर्वं श्रद्धया जागरूकतया च अकुर्वन् । महाराजश्री रामचन्द्ररावु साहेब् इत्येतेषां, महाराजश्री आर्काट् श्री- निवासाचार्याणां च साहाय्येन मूलग्रन्थाः लब्धाः । मैसूरु कौन्सिल- र् महाराजश्री सि. ऐ. इ. कृष्णमूर्तिरावु महाराजश्री रामचन्द्ररावु
( १० ) साहेब द्वारा एकं मूलग्रन्थं अदुः । मध्वशास्त्रसम्पन्नाः वि. घ. लक्ष्म णाचार्याः मूलग्रन्थेषु कांश्चिदध्यायान् अदुः । मध्वशास्त्रसम्पन्नाः बि. ये. ये. श्रीनिवासाचार्याः मूलग्रन्थेषु कांश्चित्पादान् अदुः । म ध्वशास्त्रसम्पन्नाः वेंकटेशाचार्याः शुद्धाशुद्धपत्रिकां परिनिर्मिमिरे । एतेषां सर्वेषां महाजनानां वन्दनानि समर्पयामि ॥ — * — ☞ पळ्ळे, चेंचलरावु .
श्रीमद्ब्रह्मसूत्राधिकरणविषयसूचिका. —::— प्रथमाध्यायस्य प्रथमः पादः । —::— अधि०। सूत्र०। विषयाः । १ १ ब्रह्मजिज्ञासायाः कर्तव्यत्वसाधनम् ॥ २ २ लक्षणकथनेन ब्रह्मणः विष्णुत्वसमर्थनम् ॥ ३ ३ ब्रह्मलक्षणस्य अन्येषु अविद्यमानत्वप्रतिपादनम् ॥ ४ ४ शास्त्रसमन्वयात् ब्रह्मण एव जगज्जन्मादिकारणत्वस- मर्थनम् ॥ ५ ५–११ ब्रह्मणः साकल्येन अवाच्यत्वेऽपि यत्किञ्चिद्रूपेण वा- च्यत्वसमर्थनम् ॥ ६ १२–१९ श्रुत्युक्तानन्दमयस्य ब्रह्मत्वसमर्थनम् ॥ ७ २०–२१ श्रुत्युक्तः देहान्तःप्रविष्टः परमात्मैव नेन्द्रादिः इति स- मर्थनम् ॥ ८ २२ कतिपयश्रुतिषु उदाहृतः आकाशशब्दः परमात्मवाची- ति समर्थनम् ॥ ९ २३ कतिपयश्रुत्युक्तप्राणशब्दः परमात्मवाचीति समर्थनम् ॥ १० २४ कतिपयश्रुत्युक्तज्योतिश्शब्दः परमात्मवाचीति समर्थ- नम् ॥ ११ २५–२७ गायत्रीशब्दः परमात्मवाचीति समर्थनम् ॥ १२ २८–३१ ऐतरेयके उक्तप्राणशब्दः परमात्मवाचीति समर्थनम् ॥ —:*:— प्रथमाध्यायस्य द्वितीयः पादः । १ १–८ ऐतरेयके आपाततः आदित्ये विद्यमानतया प्रतीतस- र्वगतत्वान्तर्गत सर्वप्राणिहृदयस्थत्वं परमात्मन्येव वर्तते इति समर्थनम् ॥ २ ९–१० सर्वात्तृत्वं परमात्मन एव इतरस्य तु दत्तस्वातन्त्र्येण स्वल्पात्तृत्वमिति समर्थनम् ॥ ३ ११–१२ श्रुतौ द्वयोः पुरुषयोः प्रतिपादितं कर्मफलभोक्तृत्वं आत्मान्तरात्मरूपद्वयेन एकस्य परमात्मन एवेति
( १२ ) श्रीमद्ब्रह्मसूत्राधिकरणविषयसूचिका. अधि०। सूत्र०। विषयाः । समर्थनम् ॥ ४ १३-१७ श्रुत्युक्तचक्षुरन्तस्थत्वं परमात्मन एव नाग्नेरिति स मर्थनम् ॥ ५ १८-२० विष्णोः सर्वान्तर्यामित्वस्थापनम् ॥ ६ २१-२३ परमात्मनः अदृश्यत्वाद्यभावाख्यधर्मसमर्थनम् ॥ ७ २४-३२ वैश्वानरशब्दवाच्यः विष्णुरेवेति समर्थनम् ॥ —::— प्रथमाध्यायस्य तृतीयः पादः॥ १ १-७ पृथिवीस्वर्गाद्याधारत्वं विष्णोरेव न रुद्रादीनामिति समर्थनम् ॥ २ ८-९ श्रुत्युक्तभूमा विष्णुरेव न वायुरिति समर्थनम् ॥ ३ १०-१२ अक्षरशब्दवाच्यः परमात्मा न लक्ष्मीरिति समर्थनम्॥ ४ १३ सच्छब्दवाच्यः परमात्मा न प्रकृतिरिति समर्थनम् ॥ ५ १४-२१ हृत्पद्मस्थत्वं परमात्मनि एव वर्तते न आकाशे इति समर्थनम् ॥ ६ २२-२३ ज्ञानार्थं अपेक्षितत्वं परमात्मन एव न ज्ञानिसुखस्य इति समर्थनम् ॥ ७ २४-२५ काठके उक्त ईशानः परमात्मैव न वायुः तस्य अंगुष्ठ परिमितत्वं उपासनार्थं उक्तं इति समर्थनम् ॥ ८ २६-३३ देवानां वेदविद्याऽधिकारसमर्थनम् ॥ ९ ३४-३८ शूद्राणां वेदाधिकारो नास्तीति समर्थनम् ॥ १० ३९ श्रुत्युक्तवज्रशब्दः परमात्मवाची इति समर्थनम् ॥ ११ ४० श्रुत्युक्तज्योतिः परमात्मेति समर्थनम् ॥ १२ ४१ श्रुत्युक्ताकाशः परमात्मेति समर्थनम् ॥ १३ ४२ स्वप्नादिदर्शनम् परमात्मन एव इति समर्थनम् ॥ १४ ४३ श्रुत्युक्तब्राह्मणः परमात्मैव न विरिञ्चः इति समर्थनम्॥ —::— प्रथमाध्यायस्य चतुर्थः पादः॥ १ १-९ श्रुत्युक्तः अव्यक्तादिः परमात्मैव न प्रधानादिः इति समर्थनम् ॥
श्रीमद्ब्रह्मसूत्राधिकरणविषयसूचिका. ( १३ ) अधि०। सूत्र०। विषयाः । २ १०-११ ज्योतिष्टोमादिशब्दाः परमात्मबोधकाः इति समर्थ- नम् ॥ ३ १२-१४ पञ्चजनादिशब्दाः परमात्मबोधकाः इति समर्थनम् ॥ ४ १५ श्रुत्युक्तः आकाशशब्दः परमात्मबोधकः इति समर्थ- नम् ॥ ५ १६-२३ सर्वशब्दानां परमात्ममात्रवाचकत्वमिति, व्यवहारबा- हुल्यात जगद्विषये प्रसिद्धिरिति च समर्थनम् ॥ ६ २४-२८ स्त्रीलिङ्गशब्दा अपि परमात्मबोधका एव इति समर्थ- नम् ॥ ७ २९ निषेधादिवाचकशब्दा अपि परमात्मबोधका इति स- मर्थनम् ॥ —::— द्वितीयाध्यायस्य प्रथमः पादः । १ १-३ परमात्मनः जगज्जन्मादिकर्तृत्वे पाशुपतादिस्मृतिवि- रोधस्य परिहारः ॥ २ ४-५ श्रुत्यादिप्रामाण्ये युक्तिविरोध परिहारः ॥ ३ ६-७ मृदब्रवीत इति वचनात् अवगतमृत्कर्तृकवचनरूपा- विद्यमानार्थप्रतिपादकत्वस्य परिहारः ॥ ४ ८-१३ ब्रह्मणः जगत्कर्तृत्वे श्रुत्युपसर्जनप्रागभावकर्तृत्वसा- धकयुक्तिविरोधपरिहारः ॥ ५ १४ जीवेश्वरैक्यस्य निरासः ॥ ६ १५-२१ परमात्मनः सृष्ट्यर्थं स्वतन्त्रसाधनापेक्षत्वस्य निरासः॥ ७ २२-२७ जगत्सृष्टेः जीवकर्तृकत्वनिरासः ॥ ८ २८-३२ ब्रह्मणः जगत्कर्तृत्वविषये जीवपक्षोक्तदोषस्य नि- रासः ॥ ९ ३३-३४ ब्रह्मणः जगत्कर्तृत्वविषये प्रयोजनवत्त्वादिदोषनि- रासः ॥ १० ३५-३७ परमात्मनः वैषम्यनैर्घृण्यदोषनिरासः ॥ ११ ३८ परमात्मनः सर्वगुणैः पूर्णत्वनिगमनम् ॥ —::—
( १४ ) श्रीमद्ब्रह्मसूत्राधिकरणविषयसूचिका. अधि० | सूत्र० | विषयाः । द्वितीयाध्यायस्य द्वितीयः पादः । १ १-४ प्रकृतेः जगत्कर्तृत्वं सम्भवतीति यत् निरीश्वरसाङ्ख्य मतं तस्य निराकरणम् ॥ २ ५ ईश्वरसाहाय्येन प्रधानस्यैव जगत्कर्तृत्वं इति यत् से श्वरसाङ्ख्यमतं तस्य निराकरणम् ॥ ३ ६ यत् प्रत्यक्षं तदेव प्रमाणं इति यत् चार्वाकमतं तस्य निराकरणम् ॥ ४ ७-८ जीवोपसर्जनेन प्रकृतेरेव कर्तृत्वमिति यत् सेश्वरसा ङ्ख्यैकदेशिमतं तस्य निराकरणम् ॥ ५ ९-१० प्रकृत्युपसर्जनेन जीवस्यैव कर्तृत्वमिति यत् निरीश्व रसाङ्ख्यैकदेशिमतं तस्य निराकरणम् ॥ ६ ११-१७ अणुभिः कार्यं जायते इति यत् तार्किकाणां मतं तस्य निराकरणम् ॥ ७ १८-२५ परमाणुसमुदाय एव घटादिबुद्धिं जनयति न तु तद तिरिक्तवस्तु अस्तीति यत् बौद्धैकदेशिवैभाषिक सौत्रान्तिकमतं तस्य निराकरणम् ॥ ८ २६-२९ शून्यादेव जगदुत्पत्तिरिति यत् शून्यवादिमाध्यमिक मतं तस्य निराकरणम् ॥ ९ ३०-३२ जगत् विज्ञानमात्रमिति यत् योगाचारमतं तस्य नि राकरणम् ॥ १० ३३-३६ जैनमतनिराकरणम् ॥ ११ ३७-४१ पशुपतिः जगत्कर्ता इति यत् पाशुपतमतं तस्य निरा करणम् ॥ १२ ४२-४५ शक्तिः जगत्कर्त्री इति यत् शाक्तमतं तस्य निराकर णम् ॥ —:*:— द्वितीयाध्यायस्य तृतीयः पादः । १ १-७ आकाशस्य उत्पत्तिमत्त्वविषयकश्रुतिविरोधपरिहारे ण उत्पत्तिमत्त्वनिरूपणम् ॥ २ ८ मुख्यवायोः उत्पत्तिमत्त्वविषयकश्रुतिविरोधपरिहारे
श्रीमद्ब्रह्मसूत्राधिकरणविषयसूचिका. ( १५ ) अधि०। सूत्र०। विषयाः। ण मुख्यप्राणः उत्पत्तिमान् इति निरूपणम् ॥ ३ ९ ब्रह्मणः उत्पत्तिमत्त्वविषयकश्रुतिविरोधपरिहारेण ब्र- ह्मणः उत्पत्तिर्नास्तीति निरूपणम् ॥ ४ १० तेजसः ब्रह्मणस्सकाशादुत्पत्तिविषयकश्रुतिविरोधप- रिहारेण ब्रह्मणस्सकाशात् तेजसः उत्पत्तिनिरूप- णम् ॥ ५ ११ अपां ब्रह्मणः सकाशादुत्पत्तिविषयकश्रुतिविरोधपरि- हारेण ब्रह्मणः सकाशात् उत्पत्तिरिति निरूपणम्॥ ६ १२ जलं ब्रह्मणः अन्नसृष्टौ द्वारकारणं पृथिवीसृष्टौ द्वार द्वारकारणं इत्येतद्बोधकश्रुतिविरोधपरिहारेण ज- लं पृथिवीद्वारकारणं इति निरूपणम् ॥ ७ १३ ब्रह्मणः अधिभूताधिदैवसंहारकर्तृत्वविषयकश्रुतिवि- रोधपरिहारेण ब्रह्मणः अधिभूतादिसंहारकर्तृत्व- निरूपणम् ॥ ८ १४ अधिभूतादिसंहारक्रमविषयकश्रुतिविरोधपरिहारेण व्युत्क्रमेण लीयते इति निरूपणम् ॥ ९ १५-१६ मनस्तत्त्वस्य उत्पत्तिक्रमेण लयः सर्वेषां विपरीतक्रमे- ण लयः इत्येतत्प्रतिपादकश्रुतिविरोधपरिहारेण सर्वेषां विपरीतक्रमेणैव लयः इति निरूपणम् । १० १७ परमात्मा न लीयते परमात्मा लीयते इत्येतत्प्रतिपाद- कश्रुतिविरोधपरिहारेण परमात्मनः लयः नास्ती- ति निरूपणम् ॥ ११ १८-१९ जीवोत्पत्तिविषयकश्रुतिविरोधपरिहारेण स्थूलशरी- रेण ब्रह्मणः जीवः उत्पद्यत इति जीवस्य स्थूलशरी- रसम्बन्ध एव उत्पत्तिः इति निरूपणम् ॥ १२ २०-२६ जीवाणुत्वविषयकश्रुतिविरोधपरिहारेण जीवः अणु- रिति निरूपणम् ॥ १३ २७ जीवः बहुरूपः बहुरूपो न इत्येतत्प्रतिपादकश्रुतिवि- रोधपरिहारेण जीवः स्वरूपेण एकः। अंशेन बहु- रूपः इति निरूपणम् ॥
( १६ ) श्रीमद्ब्रह्मसूत्राधिकरणविषयसूचिका. अधि०। सूत्र०। विषयाः । १४ २८-२९ जीवस्य परमात्मभिन्नत्वविषयकश्रुतिविरोधपरिहा- रेण जीवः भिन्न इति निरूपणम् ॥ १५ ३० जीवस्य उत्पत्तिरस्ति , जीवः अनादिः , इत्येतद्बोध- कश्रुतिविरोधपरिहारेण स्वरूपतः अनादिरिति निरूपणम् ॥ १६ ३१-३२ जीवः ज्ञानानन्दरूपः जीवः ज्ञानानन्दादिरूपो न इत्ये- तद्बोधक श्रुतिविरोधपरिहारेण जीवः स्वरूपतः ज्ञा- नानन्दादिरूपः इति निरूपणम् ॥ १७ ३३-४२ जीवकर्तृत्वविषयकश्रुतिविरोधपरिहारेण दत्तस्वात्- न्त्र्येण जीवः कर्ता इति निरूपणम् ॥ १८ ४३-५० जीवः परमात्मनः अंशः परमात्मनः अंशो न इत्येतद्बो- धक श्रुतिविरोधपरिहारेण भिन्नांशः नाम, अल्पश- क्तिः किञ्चित्साहश्यमात्रवान् इति निरूपणम् ॥ १९ ५१-५३ जीवः परमात्मनः प्रतिबिम्बः इति श्रुतिः न इति अनु- मितश्रुतिः अनयोर्विरोधपरिहारेण प्रतिबिम्बः ना- म, किञ्चित् साम्योपेतः इति निरूपणम् ॥ —:*:— द्वितीयाध्यायस्य चतुर्थः पादः । १ १-३ इन्द्रियोत्पत्तिविषयकबलवच्छ्रुतिविरोधस्य परिहारे ण इन्द्रियाणि परमात्मना स्थूलरूपेण उत्पद्यन्ते इ- ति निरूपणम् ॥ २ ४ मनोजन्मविषयकबलवच्छ्रुतिविरोधस्य परिहारेण म नः परमात्मना स्थूलरूपेण उत्पद्यते इति निरूप- णम् ॥ ३ ५ वागुत्पत्तिविषयकबलवच्छ्रुतिविरोधस्य परिहारेण वा क् परमात्मना स्थूलरूपेण उत्पद्यते इति निरूपणम्॥ ४ ६-७ प्राणसङ्ख्याविषयबलवच्छ्रुतिविरोधस्य परिहारेण प्राणाः द्वादश इति निरूपणम् ॥ ५ ८ प्राणपरिमाणविषयकश्रुतिविरोधस्य परिहारेण प्रा णाः अणव इति निरूपणम् ॥
श्रीमद्ब्रह्मसूत्राधिकरणविषयसूचिका. ( १७ ) अधि० । सूत्रं । विषयाः । ६ ९-१० मुख्यप्राणजन्मविषयकश्रुतिविरोधस्य परिहारेण स्थू- लरूपेण मुख्यप्राणः उत्पद्यते इति निरूपणम् ॥ ७ ११-१२ मुख्यप्राणः स्वतन्त्रः मुख्यप्राणः परमात्माधीनः इत्ये- तद्बोधकश्रुतिविरोधस्य परिहारेण परमात्माधीनः इति निरूपणम् ॥ ८ १३ प्राणादयः मुख्यप्राणस्य स्वरूपभूताः मुख्यप्राणस्य दासाः इत्येतद्बोधकश्रुतिविरोधस्य परिहारेण दा- सभूताः पञ्च, स्वरूपभूताः पञ्च इति निरूपणम् ॥ ९ १४ मुख्यप्राणः व्याप्तः मुख्यप्राणः अणुः इत्येतद्बोधकशु- तिविरोधस्य परिहारेण अन्तर्गतरूपेण अणुः बहि- र्गतरूपेण व्याप्तः इति निरूपणम् ॥ १० १५-१७ प्राणाः जीवस्य करणानि ब्रह्मणः करणानि इत्येतद्बो- धकश्रुतिविरोधस्य परिहारेण ब्रह्मणः करणानि इ- ति निरूपणम् ॥ ११ १८-२० सर्वे प्राणाः इन्द्रियाणि मुख्यप्राणादन्ये द्वादश प्राणाः एव इन्द्रियाणि इत्येतद्बोधकश्रुतिविरोधस्य परि- हारेण अन्ये एव इन्द्रियाणि इति निरूपणम् ॥ १२ २१ इन्द्रियाश्रयशरीरं परमात्मसृष्टं विरिञ्चसृष्टं इत्येतद्बो- धकश्रुतिविरोधस्य परिहारेण परमात्मसृष्टमिति निरूपणम् ॥ १३ २२-२३ इन्द्रियाश्रयशरीरं जलमात्रेण उत्पद्यते पृथिव्यादि- भ्यः उत्पद्यते इत्येतद्बोधकश्रुतिविरोधस्य परिहा- रेण पृथिव्यादिभ्यः इति निरूपणम् ॥ —-::-*— तृतीयाध्यायस्य प्रथमः पादः । १ १ जीवस्य भूतसम्बन्धः देहनाशेऽपि न निवर्तते इति नि- रूपणम् ॥ २ २ समस्तभूतविशिष्टस्य जीवस्य गमननिरूपणम् ॥ ३ ३ भूतानां जीवेन सह गमननिरूपणम् ॥ ४ ४ प्राणाः जीवेन सह आगतः गच्छन्तीति निरूपणम् ॥
( १८ ) श्रीमद्ब्रह्मसूत्राधिकरणविषयसूचिका. अधि०। सूत्र०। विषयाः। ५ ५ भूतानां जीवेन सह गमनविषये पूर्वपक्षपरिहारः ॥ ६ ६ भूतानां जीवेन सह गमनविषये प्रत्यक्षश्रुतिः नास्तीति पूर्वपक्षस्य परिहारः ॥ ७ ७ वैराग्यभक्त्युपासनज्ञानैरेव मोक्षः भवति कर्मणा जा- यमानो मोक्षः गौणः इति निरूपणम् ॥ ८ ८ कर्म अनुभवेन निःशेषं न नश्यति अतः वैराग्यादि साधनं आवश्यकमेव इति निरूपणम् ॥ ९ ९ जीवस्य स्वर्गादिकं प्रति येन पथा गमनं तथा नियमे- न आगमनं नेति निरूपणम् ॥ १० १०-१२ जीवस्य गमनागमनं कर्मणैव न आचारमात्रेण इति निरूपणम् ॥ ११ १३-१५ पापकर्मकृतामपि गमनागमनमस्तीति, केचिज्जीवाः नरके दुःखं अनुभूय ऊर्ध्वलोकं आरोहन्ति, अन्ये तमसि अवरोहन्ति इति निरूपणम् ॥ १२ १६ नरकाणि सप्तेति निरूपणम् ॥ १३ १७ परमात्मा जीवस्य अन्तःस्थित्वा प्रेरकोऽपि तस्य नर- कानुभवः नेति निरूपणम् ॥ १४ १८ देवयानपितृयानयोः गमने जीवानां स्वातन्त्र्यं नेति निरूपणम् ॥ १५ १९-२३ तमसि सुखलेशोऽपि नास्तीति निरूपणम् ॥ १६ २४ जीवः धूमादिदेवतादेहेषु प्रविश्य तस्य स्थितौ तिष्ठ- ति तद्गमने गच्छति न तु तद्रूपत्वं तत्पदं वा प्राप्नो- ति इति निरूपणम् ॥ १७ २५ जीवः पुण्यमनुभूय धूममार्गेण अविळम्बेन संवत्सरा- त्प्रागेव मातृदेहं प्रविशति इति निरूपणम् ॥ १८ २६-२७ कर्मिणां स्वर्गादवरोहणे दुःखानुभवः नास्तीति निरू- पणम् ॥ १९ २८ जीवः प्रथमतः पितृदेहं प्रविश्य अनन्तरं मातृयोनिं प्र- विशतीति निरूपणम् ॥ २० २९ योनिप्रवेशानन्तरं शरीरप्राप्तिः इत्येतत् सामान्यजन
श्रीमद्ब्रह्मसूत्राधिकरणविषयसूचिका. (१९) अधि०। सूत्र०। विषयाः । नं, विशेषतस्तु मातापितृशरीरसम्बन्धं विनाऽपि जननमस्तीति निरूपणम् ॥ ——:*:—— तृतीयाध्यायस्य द्वितीयः पादः । १ १-४ यत्स्वप्ने दृश्यते तत्सत्यं, तत्कर्ता परमात्मेति, स्वाप्नि- कपदार्थः जाग्रच्छुभाशुभसूचकः इति च निरूप- णम् ॥ २ ५ स्वप्नपदार्थस्य अदर्शनमपि परमात्माधीनमेव इति निरूपणम् ॥ ३ ६ जाग्रदवस्था परमात्मनैव भवतीति निरूपणम् ॥ ४ ७ नाडीस्थपरमात्मनि जीवस्य प्रवेशः सुषुप्तिरिति नि- रूपणम् ॥ ५ ८ ब्रह्मैव सुप्तपुरुषं प्रबोधयतीति निरूपणम् ॥ ६ ९ सर्वेषां सर्वकालेष्वपि ब्रह्मैव स्वप्नादिकारणं इति नि- रूपणम् ॥ ७ १० जीवस्य परमात्मनि अर्धप्रवेशे मूर्च्छा संभवतीति निरू- पणम् ॥ ८ ११-१३ जाग्रत्स्वप्नसुषुप्तिषु प्रवर्तकः विश्वतैजसप्राज्ञरूपः प- रमात्मा एक एवेति निरूपणम् ॥ ९ १४-१७ परमात्मा प्राकृतरूपरहितः अप्राकृतज्ञानानन्दादिरूप- वान् इति निरूपणम् ॥ १० १८ यथा सूर्यात् सूर्यप्रतिबिम्बः भिन्नः तथा जीवः परमा- त्मनः अन्यः इति निरूपणम् ॥ ११ १९ जीवः ज्ञानानन्दस्वरूपोऽपि तदभिव्यक्त्यर्थं भक्तिं कु- र्यादिति निरूपणम् ॥ १२ २०-२१ साधनेषु न्यूनाधिकभावसत्त्वात् फलेऽपि न्यूनाधिक- भावो वर्तते इति निरूपणम् ॥ १३ २२ परमात्मनः सृष्टिसंहारकर्तृत्वमात्रं नास्ति, किन्तु पा- लनकर्तृत्वमपि अस्तीति निरूपणम् ॥ १४ २३-२७ परमात्मा अव्यक्तोऽपि स्वप्रसादात् व्यक्तो भवतीति निरूपणम् ॥
( २० ) श्रीमद्ब्रह्मसूत्राधिकरणविषयसूचिका. अधि०। सूत्र०। विषयाः। १५ २८-३१ परमात्मनि गुणत्वं गुणित्वं च वर्तते इति निरूपणम्॥ १६ ३२-३४ परमात्मनः आनन्दादिकं लौकिकानन्दादिभ्यः विल क्षणमिति निरूपणम् ॥ १७ ३५-३६ परमात्मरूपाणां आनन्दादिषु परस्परवैलक्षण्यं ना स्ति इति निरूपणम् ॥ १८ ३७ ध्यानकाले यद्रूपं प्रतीयते तत् ब्रह्मस्वरूपं न इति नि रूपणम् ॥ १९ ३८ सर्वत्र सर्वकालेषु च सृष्ट्यादिकं परमात्मनैवेति नि रूपणम् ॥ २० ३९-४२ परमात्मैव कर्मणः फलस्य च हेतुः इति निरूपणम् ॥ ─:※:─ तृतीयाध्यायस्य तृतीयः पादः । १ १-५ सर्ववेदार्थविचारेण ब्रह्म ज्ञातव्यं इति समर्थनम् ॥ २ ६-९ सर्ववेदोक्तगुणान् प्रकरणानुसारेण उपसंहृत्य उपा सना कर्तव्येति निरूपणम् ३ १० विरिञ्च एव सर्ववेदोक्तसर्वगुणैः उपासनां कर्तुं यो ग्यः, अन्ये देवाः योग्यताऽनुसारेण एककाले याव न्तो गुणाः स्फुरन्ति तावद्गुणैः उपासनां कर्तुं यो ग्याः, मनुष्यास्तु आनन्दादिगुणैः उपासनां कर्तुं योग्याः इति निरूपणम् ॥ ४ ११ अधिकगुणोपासनाक्रमेण फलप्राप्तिक्रमः इति निरूप णम् ॥ ५ १२ प्रधानफलस्य मोक्षस्य प्राप्तये सत्यं ज्ञानं आनन्दं ब्रह्म इति चतुर्गुणैः सर्वैः परमात्मा उपास्यः इति निरू पणम् ॥ ६ १३ प्रियशिरस्त्वादिगुणाः सर्वैः नोपास्याः केचिदेवा एव तदुपासनां कर्तुं योग्याः इति निरूपणम् ॥ ७ १४ चतुर्भ्यः सर्वेभ्यश्च अन्ये परमात्मनः गुणाः देवादि भिः उपास्याः इति निरूपणम् ॥
श्रीमद्ब्रह्मसूत्राधिकरणविषयसूचिका. ( २१ ) अधि०। सूत्र०। विषयाः । ८ १५-१६ सर्वगुणोपसंहारानुपसंहारयोः कर्तव्यत्वे प्रमाणनिरू- पणम् ॥ ९ १७ “आत्मेत्येव उपासीत” इति वचने सत्यपि चतुर्गु- णाः उपास्या एवेति निरूपणम् ॥ १० १८ आत्मशब्दः सर्वगुणबोधकोऽपि विरिञ्चेतरेषां सर्वगु- णबोधको न भवतीति निरूपणम् ॥ ११ १९ मोक्षार्थं उपास्यमानगुणाः लोकविलक्षणा इति निरू- पणम् ॥ १२ २०-२१ वाण्याः त्रिविक्रमत्वादिक्रियाणां पृथक् उपासना ना- स्तीति निरूपणम् ॥ १३ २२-२३ आत्मशब्दः तत्तदधिकारियोग्यगुणाभिधायकः इति निरूपणम् ॥ १४ २४ सम्यग्भरणं , अन्तरिक्षादिलोकव्याप्तिश्च देवादिभिः उपास्ये इति निरूपणम् ॥ १५ २५ सर्ववेदोक्तगुणैरेव उपासना कर्तव्या इति निरूप- णम् ॥ १६ २६ सर्वैः भेदनादिगुणा नोपास्या इति निरूपणम् ॥ १७ २७-२८ मोक्षे मुक्तानां उपासना अस्ति । सा तु पेच्छिकी इ- ति निरूपणम् ॥ १८ २९-३१ मोक्षे मुक्ताः स्वेच्छया कर्म कुर्वन्तीति निरूपणम् ॥ १९ ३२ सर्वेषां ज्ञानिनां मुक्तिरस्तीति निरूपणम् ॥ २० ३३-३४ मुक्तानां योग्यतातारतम्यानुसारेण आनन्दः , आन- न्दतारतम्येऽपि तेषां परस्परविरोधो नास्तीति नि- रूपणम् ॥ २१ ३५-३७ मुख्यप्राणादूर्ध्वं अधिकारिणः अभावात् प्राणावसा- नमेव अधिकारितारतम्यं इति निरूपणम् ॥ २२ ३८ परमात्मा प्राणादधिक इति निरूपणम् ॥ २३ ३९ छान्दोग्ये सत्यादिप्रकरणे उक्ताः सत्यादयः भगवत्स्व- रूपभूताः इति निरूपणम् ॥ २४ ४०-४२ लक्ष्मीः नित्यमुक्ताऽपि भक्तिविशेषात् उपासनां क-
( २२ ) श्रीमद्ब्रह्मसूत्राधिकरणविषयसूचिका. अधि०। सूत्र०। विषयाः । रोति इति निरूपणम् ॥ २५ ४३ ब्रह्मसाक्षात्कारार्थं श्रवणमननध्यानरूपोपासना कर्त व्या , श्रवणेन तत्त्वज्ञानं , मननात् तन्निश्चयः , ध्यानात् अपरोक्षः इति निरूपणम् ॥ २६ ४४ केवलं श्रवणमात्रेण ज्ञानं न संभवति , गुरुप्रसादपू र्वकश्रवणेनैव ज्ञानं इति निरूपणम् ॥ २७ ४५ गुरुप्रसादः बलीयान् इति निरूपणम् ॥ २८ ४६-४७ पूर्वगुरुसमानश्चेत् गुर्वनुज्ञया अन्यगुरुः स्वीका र्यः अधिकश्चेत् पूर्वानुज्ञां विनैव अन्यगुरुः स्वी कार्यः इति निरूपणम् ॥ २९ ४८-४९ अपरोक्षज्ञानमेव मोक्षकारणमिति निरूपणम् ॥ ३० ५० “ज्ञानात् मोक्षः” इति वचनं ‘कर्मणा मोक्षः’ इति वच नेन बाधितं न भवतीति निरूपणम् ॥ ३१ ५१ ब्रह्मदर्शनं श्रवणादिमात्रेण न भवति, किन्तु हरिगुरु भक्तिशमदमादिभिश्च इति निरूपणम् ॥ ३२ ५२ यथातथा उपासनाभेदः तथातथा दर्शनभेदः इति नि रूपणम् ॥ ३३ ५३ सामान्यतः भगवदवतारदर्शनात् न मुक्तिः, किन्तु स्वयोग्यरूपदर्शनादेव मुक्तिः इति निरूपणम् ॥ ३४ ५४ परमात्मप्रसादादेव अपरोक्षज्ञानं, न भक्तिमात्रेण इ ति निरूपणम् ॥ ३५ ५५-५६ उपासना तत्तज्जीवयोग्यताऽनुसारिणी इति निरूपणम्॥ ३६ ५७-५८ अप्रधानत्वेन अन्यदेवता अपि उपास्याः, तत्रापि अ धमगुणाः उत्तमेषु उपसंहार्याः, न उत्तमगुणाः अ धमेषु इति निरूपणम् ॥ ३७ ५९ पूर्णत्वरूपगुणेन परमात्मा उपास्यः इति निरूपणम्॥ ३८ ६० परमात्मगुणेषु पूर्णत्वं जीवानां योग्यताऽनुसारेण प्रती यते इति निरूपणम् ॥ ३९ ६१ योग्यताऽनुसारेण कर्तव्योपासनानन्तरं अन्यरूपोपास नाऽपि इच्छानुसारेण कर्तव्या इति निरूपणम् ॥
श्रीमद्ब्रह्मसूत्राधिकरणविषयसूचिका. ( २३ ) अधि०। सूत्र०। विषयाः । ४० ६२ काम्यापेक्षी कामानुसारेण कामसाधनगुणविशिष्ट या उपासनां कुर्यात्, तद्रहितः मुमुक्षुस्तु न कुर्या त् इति निरूपणम् ॥ ४१ ६३-६६ देवैः स्वोत्पादकाङ्गत्त्वेन परमात्मा उपास्यः इति नि रूपणम् ॥ ४२ ६७-६८ पूर्वोक्ताङ्गोपासना देवव्यतिरिक्तैः न कर्तव्या इति नि रूपणम् ॥ : -*- : तृतीयाध्यायस्य चतुर्थः पादः । १ १-९ अपरोक्षज्ञानात् सर्वपुरुषार्थप्राप्तिरिति निरूपणम् ॥ २ १०-१२ सर्वेषां अपरोक्षज्ञाने अधिकारो नास्ति परन्तु वेदा ध्ययनवतामेव अधिकारः इति निरूपणम् ॥ ३ १३ सर्वेषामपि एकप्रकारेण ज्ञानाधिकारः न , किन्तु यो ग्यतातारतम्यानुसारेण इति समर्थनम् ॥ ४ १४-३३ मनुष्येषु ज्ञानिनां अपि यथेष्टाचरणं न निषिद्धप्रवृत्ति विषयं , तर्हि तेषां दुष्कर्मानुष्ठानेन मोक्षहानिः न भवति मोक्षफले एव ह्रासो भवति सत्कर्मानुष्ठाने न फलाधिक्यं भवतीति , देवाः एव कामचरणा नुज्ञावन्तः तत्रापि अनुष्ठेयकार्याणां मध्ये एव का मचरणमिति, विरिञ्चस्तु यथेच्छाचरणविधिमान् इति निरूपणम् ॥ ५ ३४-४० श्रवणमननादिषु यत्नवतामपि ज्ञानयोग्यानामेव ज्ञा नं संभवति न अयोग्यानां इति निरूपणम् ॥ ६ ४१-४३ उत्तमाधिकारिणां पदं अधमाधिकारिभिः नापेक्षणी यं इति निरूपणम् ॥ ७ ४४-४६ ज्ञानादिफलं इन्द्रियाद्यभिमानिदेवानामेव मुख्यं प्रजा नां अल्पं इति निरूपणम् ॥ ८ ४७-४८ गृहस्थाश्रमिणः आश्रमिषु उत्तमाः न भवन्ति, कि न्तु यतय एव इति निरूपणम् ॥ ९ ४९ अयोग्यानां उपदेशः न कर्तव्यः इति निरूपणम् ॥
( २४ ) श्रीमद्ब्रह्मसूत्राधिकरणविषयसूचिका. अधि०। सूत्र०। विषयाः । १० ५० प्रारब्धकर्मप्रतिबन्धाभावे श्रवणमननादिभिः तज्जन्म- न्येव ज्ञानं सम्भवति अन्यथा जन्मान्तरे इति नि- रूपणम् ॥ ११ ५१ ज्ञानिनोऽपि प्रारब्धकर्मप्रतिबन्धाभावे तच्छरीरपाता- नन्तरमेव मोक्षः इति निरूपणम् ॥ :—*—: चतुर्थाध्यायस्य प्रथमः पादः । १ १-२ श्रवणमननादीनां आवृत्तिः कर्तव्येति निरूपणम् ॥ २ ३ विष्णुः मम स्वामी इत्युपासना कर्तव्येति निरूपणम् ॥ ३ ४ नामादिप्रतिमायां ब्रह्मदृष्टिः न कर्तव्या, किन्तु तत्र स्थितत्वेन उपासना कार्येति निरूपणम् ॥ ४ ५ परमात्मनः ब्रह्मत्वेन उपासना कर्तव्येति निरूपणस् ॥ ५ ६ परमात्मनः अवयवे आदित्यादिजनकत्वोपासना देवै- रेव कार्या इति निरूपणम् ॥ ६ ७-११ आसीनस्सन् उपासनां कुर्यादिति निरूपणम् ॥ ७ १२ मोक्षपर्यन्तं उपासना कर्तव्या मोक्षेऽपि उपासना अ- स्ति इति निरूपणम् ॥ ८ १३-१९ परमात्माऽपरोक्ष्ये जाते पूर्वतनयोः अनारब्धयोः अन- भीष्टयोश्च पुण्यपापयोः नाशः उत्तरयोः अनारब्ध- योः अनभीष्टयोः पुण्यपापयोः असंबन्धः भवति । भगवद्द्वेषिणः तमसि पतने सति पुण्यस्य असंब- न्धः भवति ज्ञानिकृतपुण्यकर्म मोक्षे अतिशयफला- य भवति इति निरूपणम् ॥ :— ❦ —: चतुर्थाध्यायस्य द्वितीयः पादः । १ १-२ उमा रुद्रे विलीयते सर्वे देवाः नियम्यनियामकभा- वानुसारेण नियामकेषु विलीयन्ते इति निरूपणम्॥ २ ३ मनोऽभिमानी रुद्रः मुख्यप्राणे विलीयते इति निरूप- णम् ॥ ३ ४ मुख्यप्राणः परमात्मनि विलीयते इति निरूपणम् ॥
श्रीमद्ब्रह्मसूत्राधिकरणविषयसूचिका. ( २५ ) अधि०। सूत्र०। विषयाः । ४ ५ भूताधमदेवतानां भूताभिमानिषु लयः इति निरूप- णम् ॥ ५ ६ अग्रौ सर्वेषां लयः न इति निरूपणम् ॥ ६ ७-१४ लक्ष्म्याः लयो नास्तीति निरूपणम् ॥ ७ १५ सर्वे देवाः क्रमात् परमात्मनि विलीयन्ते इति निरू- पणम् ॥ ८ १६ मुक्ताः भगवदधीनाः भगवदिच्छाऽनुसारेणैव कामय- न्तीति निरूपणम् ॥ ९ १७-२१ मुक्तियोग्यानां मनुष्याणां देहादुत्क्रमणकाले हृदय- स्य अग्रभागे ज्वलनं भवति तेन नाडीद्वारस्य प्र- काशो भवति ब्रह्मनाड्या निष्क्रामन्ति इति निरूप- णम् ॥ १० २२ ज्ञानयोगिनः ब्रह्मप्राप्तिः कर्मयोगिनः चन्द्रप्राप्तिः गति- स्मरणानुसारेण भवति इति निरूपणम् ॥ :— चतुर्थाध्यायस्य तृतीयः पादः । १ १ ब्रह्मप्राप्तिमार्गेः अर्चिरादिरिति निरूपणम् ॥ २ २ अर्चिर्मार्गेण गत्वा वायुलोकः प्राप्यः इति निरूपणम् ॥ ३ ३ संवत्सराभिमानिलोकप्राप्त्यनन्तरं तटिल्लोकप्राप्तिः त- दनन्तरं वरुणलोकप्राप्तिरिति निरूपणम् ॥ ४ ४-५ पूर्वोक्तवायुलोकः आतिवाहिकनामकवायुलोक इति निरूपणम् ॥ ५ ६ ब्रह्मप्राप्तिमार्गेषु मुख्यवायुलोक एव अन्तिमप्राप्य इति निरूपणम् ॥ ६ ७-१६ वायुः व्याप्तोपासकान् परं ब्रह्म नयति अन्यांस्तु का- र्यं ब्रह्म नयति इति निरूपणम् ॥ —:०:— चतुर्थाध्यायस्य चतुर्थः पादः । १ १ जीवः परमात्मानं प्राप्य तं अविहाय स्वस्वरूपेण स- र्वान् भोगान् अनुभवतीति निरूपणम् ॥
( २६ ) श्रीमद्ब्रह्मसूत्राधिकरणविषयसूचिका. अधि०। सूत्र०। विषयाः । २ २ यः परमात्मानं प्राप्य भोगं अनुभवति इति उक्तः सः मुक्त एव इति निरूपणम् ॥ ३ ३ मुक्तप्राप्यं परं ज्योतिः परमात्मैव इति निरूपणम् ॥ ४ ४ परमात्मनि प्रविष्टः जीवः परमात्मभुक्तभोगानेव अ- नुभवति इति निरूपणम् ॥ ५ ५-७ परमात्मनि प्रविष्टः मुक्तजीवः स्वस्वरूपदेहेन परमा- त्मदेहेनापि भोगाननुभवति इति निरूपणम् ॥ ६ ८ मुक्तः स्वसङ्कल्पमात्रेण भोगाननुभवति इति निरूप- णम् ॥ ७ ९ मुक्तानां स्वाचार्याद्विज्ञानप्रदातृभ्यः अन्ये अधिपत- यः न सन्ति इति निरूपणम् ॥ ८ १०-१६ मुक्ताः शुद्धसत्त्वमयदेहेन चिद्रूपदेहेन वा भोगान- नुभवन्ति इति निरूपणम् ॥ ९ १७-२० मुक्ताः जगत्सृष्ट्यादिव्यतिरिक्तान् कामाननुभवन्ति इति निरूपणम् ॥ १० २१-२२ मुक्तस्य आनन्दे वृद्धिह्रासौ न स्तः भगवदुपासना तु सुखरूपैव न साधनभूता इति निरूपणम् ॥ ११ २३ मुक्तस्य पुनरावृत्तिर्नास्ति इति निरूपणम् ॥ —:❖:—
श्रीमद्बादरायणप्रणीतब्रह्मसूत्राणांवर्णानुक्रमसूचीका ॥ अ अ. पा. सूत्र. अंशो नानाव्यपदेशादन्यथा चापि दाशकित- } २ ३ ४३ वादित्वमधीयत एके . . . . } अकरणत्वाच्च न दोषस्तथा हि दर्शयति . . २ ४ १२ अक्षरधियां त्वविरोधः सामान्यतद्भावाभ्यामौ- } ३ ३ ३४ पसदवत्तदुक्तम् . . . . } अक्षरमम्बरान्तधृतेः . . . . १ ३ १० अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् . . ४ १ १६ अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् . . ३ १ ४ अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् . . ३ ३ ५७ अङ्गित्वानुपपत्तेः . . . . २ २ ८ अङ्गेषु यथाश्रयभावः . . . . ३ ३ ६३ अचलत्वं चापेक्ष्य . . . . ४ १ ९ अगवश्च . . . . २ ४ ८ अणुश्च . . . . २ ४ १३ अत एव च नित्यत्वम् . . . . १ ३ २९ अत एव च सर्वाण्यनु . . . . ४ २ २ अत एव चाग्नीन्धनाद्यनपेक्षा . . . . ३ ४ २५ अत एव चानन्याधिपतिः . . . . ४ ४ ९ अत एव चोपमा सूर्यकादिवत् . . . . ३ २ १८ अत एव न देवता भूतं च ॥ . . . . १ २ २७ अत एव प्राणः . . . . १ १ २३ अतः प्रबोधोऽस्मात् . . . . ३ २ ८ अतश्चायनेऽपि हि दक्षिणे . . . . ४ २ २१ अतस्त्वितरज्ज्यायो लिङ्गाच्च . . . . ३ ४ ३९ अतिदेशाच्च . . . . ३ ३ ४७ अतोऽनन्तेन तथाहि लिङ्गम् . . . . ३ २ २७ अतोऽन्यदपीत्येकेषामुभयोः . . . . ४ १ १७ अत्ता चराचरग्रहणात् . . . . १ २ ९ अथातो ब्रह्मजिज्ञासा . . . . १ १ १ अदृश्यत्वादिगुणको धर्मोक्तेः . . . . १ २ २१ अदृष्टानियमात् . . . . . . २ ३ ५१
२ श्रीमद्बादरायणप्रणीतब्रह्मसूत्राणां— अ. पा. सूत्रं. अधिकं तु भेदनिर्देशात् . . २ १ २२ अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् ३ ४ ८ अधिष्ठानानुपपत्तेश्च . . २ २ ३९ अध्ययनमात्रवतः . . ३ ४ १२ अनभिभवं च दर्शयति . . ३ ४ ३५ अनवस्थितेरसम्भवाच्च नेतरः . . १ २ १७ अनारब्धकार्ये एव तु पूर्वे तदवधेः ४ १ १५ अनाविष्कुर्वन्नन्वयात् . . ३ ४ ४९ अनावृत्तिः शब्दादनावृत्तिः शब्दात् . . ४ ४ २२ अनियमः सर्वेषामविरोधाच्छब्दानुमानाभ्याम् ३ ३ ३२ अनिष्टादिकारिणामपि च श्रुतम् . . ३ १ १३ अनुकृतेस्तस्य च . . १ ३ २२ अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत् २ ३ ४८ अनुपपत्तेस्तु न शारीरः . . १ २ ३ अनुबन्धादिभ्यः . . ३ ३ ५१ अनुष्ठेयं बादरायणः साम्यश्रुतेः ३ ४ १९ अनुस्मृतेर्बादरिः . . १ २ ३० अनुस्मृतेश्च . . २ २ २५ अनेन सर्वगतत्वमायामशब्दादिभ्यः ३ २ ३८ अन्तर उपपत्तेः . . १ २ १३ अन्तरा चापि तु तद्दृष्टेः . . ३ ४ ३६ अन्तरा भूतग्रामवदितिचेत्तदुक्तम् ३ ३ ३५ अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्ना } २ ३ १५ विशेषात् . . } अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् . . १ २ १८ अन्तवत्त्वमसर्वज्ञता वा . . २ २ ४१ अन्तस्तद्धर्मोपदेशात् . . १ १ २० अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषात् . . २ २ ३६ अन्यत्राभावाच्च न तृणादिवत् . . २ २ ५ अन्यथात्वं च शब्दादिति चेन्नाविशेषात् . . ३ ३ ७ अन्यथानुमितौ च ज्ञशक्तिवियोगात् . . २ २ ९