पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 24, कुल 1267 में से
संदर्भ में पढ़ेंश्रीमद्ब्रह्मसूत्राधिकरणविषयसूचिका. ( २३ ) अधि०। सूत्र०। विषयाः । ४० ६२ काम्यापेक्षी कामानुसारेण कामसाधनगुणविशिष्ट या उपासनां कुर्यात्, तद्रहितः मुमुक्षुस्तु न कुर्या त् इति निरूपणम् ॥ ४१ ६३-६६ देवैः स्वोत्पादकाङ्गत्त्वेन परमात्मा उपास्यः इति नि रूपणम् ॥ ४२ ६७-६८ पूर्वोक्ताङ्गोपासना देवव्यतिरिक्तैः न कर्तव्या इति नि रूपणम् ॥ : -*- : तृतीयाध्यायस्य चतुर्थः पादः । १ १-९ अपरोक्षज्ञानात् सर्वपुरुषार्थप्राप्तिरिति निरूपणम् ॥ २ १०-१२ सर्वेषां अपरोक्षज्ञाने अधिकारो नास्ति परन्तु वेदा ध्ययनवतामेव अधिकारः इति निरूपणम् ॥ ३ १३ सर्वेषामपि एकप्रकारेण ज्ञानाधिकारः न , किन्तु यो ग्यतातारतम्यानुसारेण इति समर्थनम् ॥ ४ १४-३३ मनुष्येषु ज्ञानिनां अपि यथेष्टाचरणं न निषिद्धप्रवृत्ति विषयं , तर्हि तेषां दुष्कर्मानुष्ठानेन मोक्षहानिः न भवति मोक्षफले एव ह्रासो भवति सत्कर्मानुष्ठाने न फलाधिक्यं भवतीति , देवाः एव कामचरणा नुज्ञावन्तः तत्रापि अनुष्ठेयकार्याणां मध्ये एव का मचरणमिति, विरिञ्चस्तु यथेच्छाचरणविधिमान् इति निरूपणम् ॥ ५ ३४-४० श्रवणमननादिषु यत्नवतामपि ज्ञानयोग्यानामेव ज्ञा नं संभवति न अयोग्यानां इति निरूपणम् ॥ ६ ४१-४३ उत्तमाधिकारिणां पदं अधमाधिकारिभिः नापेक्षणी यं इति निरूपणम् ॥ ७ ४४-४६ ज्ञानादिफलं इन्द्रियाद्यभिमानिदेवानामेव मुख्यं प्रजा नां अल्पं इति निरूपणम् ॥ ८ ४७-४८ गृहस्थाश्रमिणः आश्रमिषु उत्तमाः न भवन्ति, कि न्तु यतय एव इति निरूपणम् ॥ ९ ४९ अयोग्यानां उपदेशः न कर्तव्यः इति निरूपणम् ॥