पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 25, कुल 1267 में से
संदर्भ में पढ़ें( २४ ) श्रीमद्ब्रह्मसूत्राधिकरणविषयसूचिका. अधि०। सूत्र०। विषयाः । १० ५० प्रारब्धकर्मप्रतिबन्धाभावे श्रवणमननादिभिः तज्जन्म- न्येव ज्ञानं सम्भवति अन्यथा जन्मान्तरे इति नि- रूपणम् ॥ ११ ५१ ज्ञानिनोऽपि प्रारब्धकर्मप्रतिबन्धाभावे तच्छरीरपाता- नन्तरमेव मोक्षः इति निरूपणम् ॥ :—*—: चतुर्थाध्यायस्य प्रथमः पादः । १ १-२ श्रवणमननादीनां आवृत्तिः कर्तव्येति निरूपणम् ॥ २ ३ विष्णुः मम स्वामी इत्युपासना कर्तव्येति निरूपणम् ॥ ३ ४ नामादिप्रतिमायां ब्रह्मदृष्टिः न कर्तव्या, किन्तु तत्र स्थितत्वेन उपासना कार्येति निरूपणम् ॥ ४ ५ परमात्मनः ब्रह्मत्वेन उपासना कर्तव्येति निरूपणस् ॥ ५ ६ परमात्मनः अवयवे आदित्यादिजनकत्वोपासना देवै- रेव कार्या इति निरूपणम् ॥ ६ ७-११ आसीनस्सन् उपासनां कुर्यादिति निरूपणम् ॥ ७ १२ मोक्षपर्यन्तं उपासना कर्तव्या मोक्षेऽपि उपासना अ- स्ति इति निरूपणम् ॥ ८ १३-१९ परमात्माऽपरोक्ष्ये जाते पूर्वतनयोः अनारब्धयोः अन- भीष्टयोश्च पुण्यपापयोः नाशः उत्तरयोः अनारब्ध- योः अनभीष्टयोः पुण्यपापयोः असंबन्धः भवति । भगवद्द्वेषिणः तमसि पतने सति पुण्यस्य असंब- न्धः भवति ज्ञानिकृतपुण्यकर्म मोक्षे अतिशयफला- य भवति इति निरूपणम् ॥ :— ❦ —: चतुर्थाध्यायस्य द्वितीयः पादः । १ १-२ उमा रुद्रे विलीयते सर्वे देवाः नियम्यनियामकभा- वानुसारेण नियामकेषु विलीयन्ते इति निरूपणम्॥ २ ३ मनोऽभिमानी रुद्रः मुख्यप्राणे विलीयते इति निरूप- णम् ॥ ३ ४ मुख्यप्राणः परमात्मनि विलीयते इति निरूपणम् ॥