BharatKosha
Back to the archive

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

by श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य)

DevanagariHindipublished1,267 pages
Page 8Permalink

( ७ ) २-३-१५ शंकरः इति शंकररामानुजौ मन्ये २-३-१६। रामानुजः ते । २. नात्माश्रुतेर्नित्यत्वाच्च ताभ्यः ॥ द्वितीयसूत्रे आत्मशब्दः प २-३-१७. शङ्करः. रमात्मवाचक इति मध्वा २-३-१८. रामानुजः चार्यः। जीवार्थक, इति शङ्क ररामानुजौ मन्येते । किञ्च क्वचित् पाठभेदेन अर्थभेदान् कल्पयन्ति ३. समना चासृत्युपक्रमादमृतत्वं चा यथा प्रान्तस्थितसूत्रे “स नुपोष्य ॥ ४-२-७. माना” इति शङ्करस्य पा ठः, “समना” इति मध्वाचार्यस्य पाठः । पाठभेदेन च शब्दाः भिन्ना र्थका भवन्ति ॥ समाना = समानलक्षणा समना = लक्ष्मीः पञ्चमकारणम् ॥ वेदसंहितासु यथा पदपाठः अस्ति तथा ब्रह्मसूत्रेषु उपनिष दादिषु च पदपाठो नास्ति, अतः सूत्रभाष्यकाराः उपनिषदादिभाष्य काराश्च इच्छानुसारण पदविभागं कुर्वन्ति । पदविभागे व्यत्यासात् अ र्थेऽपि व्यत्यासो भवति । यथा “गुणाद्वा लोकवत्” (२-३-२६.) इ ति सूत्रे लोकवत् इति शङ्करस्य पदविभागः । आलोकवत् इति मध्वा चार्यस्य पदविभागः । तथा “तत्सत्यं स आत्मा तत्त्वमसि श्वेतके तो” (छा. ६-१६-३.) इति उपनिषदि तत् त्वं असि इति शङ्करस्य पदविभागः । अतत् त्वं असि इत्यपि सम्भवतीति मध्वाचार्यः मन्य ते । संहितायां कुतः नियतानि पदानि, उपनिषदादिषु अनियतानि इ त्यत्र नियामकं न जानीमः । पूर्विकाः उपनिषदः ब्राह्मणानि च संहि तायाः व्याख्यानरूपाणीति मत्वा तेषु पदपाठं नाकुर्वन् इति अहं मन्ये ॥ षष्ठकारणम् ॥ ब्रह्मसूत्रेषु इदं सूत्रं अस्य वेदवाक्यस्य अर्थनिरूपणाय प्रवृत्तं इति न व्यक्तम्, तत्र तत्र “तथा दर्शयति” “तथा श्रुतेः” इति सू

Page 9Permalink

श्रूयते, तादृशस्थलेषु भाष्यकाराः स्वस्वमतोपयुक्ताः श्रुतिस्मृतीः उ दाहरन्ति । मध्वाचार्यः वर्तमानकाले अनुपलभ्यमानान् अनेकान् श्रु त्यादीन् उदाहरति ॥ ( ११ ) पूर्वोक्तभाष्यकारैः वर्णितसिद्धान्तेषु मध्ये कस्सिद्धान्तः सूत्रकृद्बादरायणाभिप्रेत इति प्रथमं विचारः कर्त्तव्यः, योऽर्थः श्रुतिस्मृ त्यनुगुणः सोऽर्थः बादरायणाभिप्रेततया ज्ञातव्य इति पण्डिताः मन्य न्ते, यदि वेदव्याख्यातारः सूत्रव्याख्यातृभ्यः भिन्नाः सर्वैः प्रामाणिक त्वेन अभ्युपगताश्च तदा पण्डितैरुक्तो मार्गः युक्त एव, तथा नास्ति, वेदेषु परस्परविरुद्धार्थप्रतिपादकानि वाक्यानि सन्ति तेषां सूत्रभा ष्यकारा वा तच्छिष्या वा व्याख्यातारो वर्तन्ते, तेषां मतानुसारेण श्रु तिस्मृतीः अन्वयन्ति । यथा “सदेव सोम्येदमग्र आसीत्” ( छा. ६- २-१) इति श्रुतौ “अद्वितीयं” इति पदस्य वस्त्वन्तरशून्यत्वमर्थ इ ति शङ्करो मन्यते, तस्य पदस्य समाभ्यधिकराहित्यमेव अर्थ इति न सर्वबस्तुराहित्यमर्थ इति मध्वाचार्यो मन्यते । तस्यैव पदस्य अधिष्ठा त्रन्तरशून्यत्वमर्थ इति रामानुजो मन्यते । “ब्रह्मैव सन् ब्रह्माप्येति” ( बृ ४-४-६.) इति श्रुतेः ब्रह्मैव सन् ब्रह्म प्राप्नोति, ब्रह्मप्राप्तिश्च देहान्त रप्रतिसन्धानाभावमात्रमिति अर्थ इति शङ्कराचार्यः, ब्रह्मैव सन् = जी वभावमविहायेति यावत् ब्रह्म प्राप्नोतीति अर्थ इति मध्वाचार्यः, ब्रह्मै वसन् = आविर्भूतगुणाष्टकरूपब्रह्मरूपस्सन् ब्रह्माप्येति = परब्रह्मणि लीनो भवति, लयो नाम तद्विलक्ष्णत्वेन दर्शनाभावः इति रामानुजाचा र्यो मन्यते । अतः श्रुतिस्मृत्यनुसारेण अयमेव सूत्रार्थः बादरायणाभि प्रेत इति निश्चेतुं न शक्यते ॥ ( १२ ) तर्हि कथं निश्चेतव्य इति चेत्—सूत्रे काव्यरीत्या अक्लि ष्टकल्पनया च योऽर्थः प्रतीयते स एव बादरायणाभिप्रेत इति निर्णेत व्यः । एवं कचित् सूत्रे ( १-१-२.) ब्रह्मणः जगज्जन्मस्थितिलयकारण त्वं उक्तम् । कचित् सूत्रे ( १-१-२० ) जीवात् ब्रह्मणः भिन्नत्वं उक्तम् । कचित् सूत्रे ( २-३-३३.) कर्तृत्वमुक्तम् । क्वचित् सूत्रे ( ४-३-१०.) मर णानन्तरं जीवस्य लोकान्तरगमनमुक्तम् । क्वचित् सूत्रे ( १-१-७.) ब्र ह्मणः मोक्षदातृत्वमुक्तम् । कचित् सूत्रे ( ४-४-२३.) विष्णुलोकप्राप्त्यन न्तरं जीवानां पुनरावृत्तिर्नास्तीति उक्तम्। एकस्मिन् एव सूत्रे मायाश ब्दस्य प्रयोगो वर्तते । सोऽपि स्वप्नपदार्थविषय एव । इत्यादिसूत्रार्थे

Page 10Permalink

पर्यालोचनया बादरायणः द्वैती इति मम प्रतिभाति ॥ ( १३ ) व्यासः द्वैती चेत् भवतु, " तत्त्वमसि " इत्याद्यद्वैतप्रतिपा- दकवेदवाक्यानां का गतिः ? कुतः वेदे द्वैताद्वैतपरवाक्यानि सन्ति ? इति चेत्—वेदे द्वैताद्वैतपरवचनानि सन्तीति यत् तत्सत्यम् । तस्य कारणं वेदऋषीणां विचित्रबुद्धिरेव इति अहं मन्ये । कानि वाक्या- नि अस्माभिः अङ्गीकर्तव्यानि इति विषये वक्ष्यमाणभारतश्लोके उक्ता- त् उत्तरात् अन्यत् उत्तमं उत्तरं मम न प्रतीयते ॥ तथा च भारतश्लोकः— तर्कोऽप्रतिष्ठश्श्रुतयो विभिन्नाः नैको ऋषिर्यस्य मतं प्रमाणम् । धर्मस्य तत्त्वं निहितं गुहायां महाजनो येन गतस्स पन्थाः ॥ आरण्यपर्वणि एकादशोत्तरत्रिशततमे ( ३११ ) अध्याये पञ्चदशोत्तर- शततमः ( ११५ ) येथे यान्‌यान् पूज्यजनानिति मन्यन्ते तेषांतेषां तेते महाजनाः। अस्माकं भक्त्या वा क्रियया वा ज्ञानेन वा निष्ठया वा परमात्मनः कि- मपि प्रयोजनं नास्ति । यत्कार्यं निष्कापट्येन अस्माभिः क्रियते तदेव भगवत्प्रीतिकरं भवतीति निष्कपटनिरीश्वरवादिनोऽपि परमात्मा रक्षि- तुं समर्थ इति अहं मन्ये । ' मन एव मनुष्याणां कारणं बन्धमोक्षयोः ' इति वचने यथार्थमिति भासते ॥ ( १४ ) अस्य ग्रन्थस्य मुद्राङ्कनं बहूनां मित्राणां साहाय्येन आसी- त् । राजकार्यधुरन्धराः के. सि. एस्. ऐ. इति च बिरुदाङ्किताः महाराज श्री मैसूरु दिवान् शेषाद्रिअय्यर् ग्रन्थस्य मुद्राङ्कने ईप्सितं सर्वं सा- हाय्यं कार्यमिति मम प्रार्थनानुसारेण मैसूर् ग्रन्थशालाधिपतीन् वेद- शास्त्रसम्पन्नान् बि. ए. महादेवशास्त्रिणः तदपेक्षितं सर्वं कार्यमिति विश्वासपूर्वकं आज्ञापयामासुः । ते महादेवशास्त्रिणः ग्रन्थस्य मुद्रा- ङ्कने यद्यत्कार्यं आवश्यकं तत्सर्वं श्रद्धया जागरूकतया च अकुर्वन् । महाराजश्री रामचन्द्ररावु साहेब् इत्येतेषां, महाराजश्री आर्काट् श्री- निवासाचार्याणां च साहाय्येन मूलग्रन्थाः लब्धाः । मैसूरु कौन्सिल- र् महाराजश्री सि. ऐ. इ. कृष्णमूर्तिरावु महाराजश्री रामचन्द्ररावु

Page 11Permalink

( १० ) साहेब द्वारा एकं मूलग्रन्थं अदुः । मध्वशास्त्रसम्पन्नाः वि. घ. लक्ष्म णाचार्याः मूलग्रन्थेषु कांश्चिदध्यायान् अदुः । मध्वशास्त्रसम्पन्नाः बि. ये. ये. श्रीनिवासाचार्याः मूलग्रन्थेषु कांश्चित्पादान् अदुः । म ध्वशास्त्रसम्पन्नाः वेंकटेशाचार्याः शुद्धाशुद्धपत्रिकां परिनिर्मिमिरे । एतेषां सर्वेषां महाजनानां वन्दनानि समर्पयामि ॥ — * — ☞ पळ्ळे, चेंचलरावु .

Page 12Permalink

श्रीमद्ब्रह्मसूत्राधिकरणविषयसूचिका. —::— प्रथमाध्यायस्य प्रथमः पादः । —::— अधि०। सूत्र०। विषयाः । १ १ ब्रह्मजिज्ञासायाः कर्तव्यत्वसाधनम् ॥ २ २ लक्षणकथनेन ब्रह्मणः विष्णुत्वसमर्थनम् ॥ ३ ३ ब्रह्मलक्षणस्य अन्येषु अविद्यमानत्वप्रतिपादनम् ॥ ४ ४ शास्त्रसमन्वयात् ब्रह्मण एव जगज्जन्मादिकारणत्वस- मर्थनम् ॥ ५ ५–११ ब्रह्मणः साकल्येन अवाच्यत्वेऽपि यत्किञ्चिद्रूपेण वा- च्यत्वसमर्थनम् ॥ ६ १२–१९ श्रुत्युक्तानन्दमयस्य ब्रह्मत्वसमर्थनम् ॥ ७ २०–२१ श्रुत्युक्तः देहान्तःप्रविष्टः परमात्मैव नेन्द्रादिः इति स- मर्थनम् ॥ ८ २२ कतिपयश्रुतिषु उदाहृतः आकाशशब्दः परमात्मवाची- ति समर्थनम् ॥ ९ २३ कतिपयश्रुत्युक्तप्राणशब्दः परमात्मवाचीति समर्थनम् ॥ १० २४ कतिपयश्रुत्युक्तज्योतिश्शब्दः परमात्मवाचीति समर्थ- नम् ॥ ११ २५–२७ गायत्रीशब्दः परमात्मवाचीति समर्थनम् ॥ १२ २८–३१ ऐतरेयके उक्तप्राणशब्दः परमात्मवाचीति समर्थनम् ॥ —:*:— प्रथमाध्यायस्य द्वितीयः पादः । १ १–८ ऐतरेयके आपाततः आदित्ये विद्यमानतया प्रतीतस- र्वगतत्वान्तर्गत सर्वप्राणिहृदयस्थत्वं परमात्मन्येव वर्तते इति समर्थनम् ॥ २ ९–१० सर्वात्तृत्वं परमात्मन एव इतरस्य तु दत्तस्वातन्त्र्येण स्वल्पात्तृत्वमिति समर्थनम् ॥ ३ ११–१२ श्रुतौ द्वयोः पुरुषयोः प्रतिपादितं कर्मफलभोक्तृत्वं आत्मान्तरात्मरूपद्वयेन एकस्य परमात्मन एवेति

Page 13Permalink

( १२ ) श्रीमद्ब्रह्मसूत्राधिकरणविषयसूचिका. अधि०। सूत्र०। विषयाः । समर्थनम् ॥ ४ १३-१७ श्रुत्युक्तचक्षुरन्तस्थत्वं परमात्मन एव नाग्नेरिति स मर्थनम् ॥ ५ १८-२० विष्णोः सर्वान्तर्यामित्वस्थापनम् ॥ ६ २१-२३ परमात्मनः अदृश्यत्वाद्यभावाख्यधर्मसमर्थनम् ॥ ७ २४-३२ वैश्वानरशब्दवाच्यः विष्णुरेवेति समर्थनम् ॥ —::— प्रथमाध्यायस्य तृतीयः पादः॥ १ १-७ पृथिवीस्वर्गाद्याधारत्वं विष्णोरेव न रुद्रादीनामिति समर्थनम् ॥ २ ८-९ श्रुत्युक्तभूमा विष्णुरेव न वायुरिति समर्थनम् ॥ ३ १०-१२ अक्षरशब्दवाच्यः परमात्मा न लक्ष्मीरिति समर्थनम्॥ ४ १३ सच्छब्दवाच्यः परमात्मा न प्रकृतिरिति समर्थनम् ॥ ५ १४-२१ हृत्पद्मस्थत्वं परमात्मनि एव वर्तते न आकाशे इति समर्थनम् ॥ ६ २२-२३ ज्ञानार्थं अपेक्षितत्वं परमात्मन एव न ज्ञानिसुखस्य इति समर्थनम् ॥ ७ २४-२५ काठके उक्त ईशानः परमात्मैव न वायुः तस्य अंगुष्ठ परिमितत्वं उपासनार्थं उक्तं इति समर्थनम् ॥ ८ २६-३३ देवानां वेदविद्याऽधिकारसमर्थनम् ॥ ९ ३४-३८ शूद्राणां वेदाधिकारो नास्तीति समर्थनम् ॥ १० ३९ श्रुत्युक्तवज्रशब्दः परमात्मवाची इति समर्थनम् ॥ ११ ४० श्रुत्युक्तज्योतिः परमात्मेति समर्थनम् ॥ १२ ४१ श्रुत्युक्ताकाशः परमात्मेति समर्थनम् ॥ १३ ४२ स्वप्नादिदर्शनम् परमात्मन एव इति समर्थनम् ॥ १४ ४३ श्रुत्युक्तब्राह्मणः परमात्मैव न विरिञ्चः इति समर्थनम्॥ —::— प्रथमाध्यायस्य चतुर्थः पादः॥ १ १-९ श्रुत्युक्तः अव्यक्तादिः परमात्मैव न प्रधानादिः इति समर्थनम् ॥

Page 14Permalink

श्रीमद्ब्रह्मसूत्राधिकरणविषयसूचिका. ( १३ ) अधि०। सूत्र०। विषयाः । २ १०-११ ज्योतिष्टोमादिशब्दाः परमात्मबोधकाः इति समर्थ- नम् ॥ ३ १२-१४ पञ्चजनादिशब्दाः परमात्मबोधकाः इति समर्थनम् ॥ ४ १५ श्रुत्युक्तः आकाशशब्दः परमात्मबोधकः इति समर्थ- नम् ॥ ५ १६-२३ सर्वशब्दानां परमात्ममात्रवाचकत्वमिति, व्यवहारबा- हुल्यात जगद्विषये प्रसिद्धिरिति च समर्थनम् ॥ ६ २४-२८ स्त्रीलिङ्गशब्दा अपि परमात्मबोधका एव इति समर्थ- नम् ॥ ७ २९ निषेधादिवाचकशब्दा अपि परमात्मबोधका इति स- मर्थनम् ॥ —::— द्वितीयाध्यायस्य प्रथमः पादः । १ १-३ परमात्मनः जगज्जन्मादिकर्तृत्वे पाशुपतादिस्मृतिवि- रोधस्य परिहारः ॥ २ ४-५ श्रुत्यादिप्रामाण्ये युक्तिविरोध परिहारः ॥ ३ ६-७ मृदब्रवीत इति वचनात् अवगतमृत्कर्तृकवचनरूपा- विद्यमानार्थप्रतिपादकत्वस्य परिहारः ॥ ४ ८-१३ ब्रह्मणः जगत्कर्तृत्वे श्रुत्युपसर्जनप्रागभावकर्तृत्वसा- धकयुक्तिविरोधपरिहारः ॥ ५ १४ जीवेश्वरैक्यस्य निरासः ॥ ६ १५-२१ परमात्मनः सृष्ट्यर्थं स्वतन्त्रसाधनापेक्षत्वस्य निरासः॥ ७ २२-२७ जगत्सृष्टेः जीवकर्तृकत्वनिरासः ॥ ८ २८-३२ ब्रह्मणः जगत्कर्तृत्वविषये जीवपक्षोक्तदोषस्य नि- रासः ॥ ९ ३३-३४ ब्रह्मणः जगत्कर्तृत्वविषये प्रयोजनवत्त्वादिदोषनि- रासः ॥ १० ३५-३७ परमात्मनः वैषम्यनैर्घृण्यदोषनिरासः ॥ ११ ३८ परमात्मनः सर्वगुणैः पूर्णत्वनिगमनम् ॥ —::—

Page 15Permalink

( १४ ) श्रीमद्ब्रह्मसूत्राधिकरणविषयसूचिका. अधि० | सूत्र० | विषयाः । द्वितीयाध्यायस्य द्वितीयः पादः । १ १-४ प्रकृतेः जगत्कर्तृत्वं सम्भवतीति यत् निरीश्वरसाङ्ख्य मतं तस्य निराकरणम् ॥ २ ५ ईश्वरसाहाय्येन प्रधानस्यैव जगत्कर्तृत्वं इति यत् से श्वरसाङ्ख्यमतं तस्य निराकरणम् ॥ ३ ६ यत् प्रत्यक्षं तदेव प्रमाणं इति यत् चार्वाकमतं तस्य निराकरणम् ॥ ४ ७-८ जीवोपसर्जनेन प्रकृतेरेव कर्तृत्वमिति यत् सेश्वरसा ङ्ख्यैकदेशिमतं तस्य निराकरणम् ॥ ५ ९-१० प्रकृत्युपसर्जनेन जीवस्यैव कर्तृत्वमिति यत् निरीश्व रसाङ्ख्यैकदेशिमतं तस्य निराकरणम् ॥ ६ ११-१७ अणुभिः कार्यं जायते इति यत् तार्किकाणां मतं तस्य निराकरणम् ॥ ७ १८-२५ परमाणुसमुदाय एव घटादिबुद्धिं जनयति न तु तद तिरिक्तवस्तु अस्तीति यत् बौद्धैकदेशिवैभाषिक सौत्रान्तिकमतं तस्य निराकरणम् ॥ ८ २६-२९ शून्यादेव जगदुत्पत्तिरिति यत् शून्यवादिमाध्यमिक मतं तस्य निराकरणम् ॥ ९ ३०-३२ जगत् विज्ञानमात्रमिति यत् योगाचारमतं तस्य नि राकरणम् ॥ १० ३३-३६ जैनमतनिराकरणम् ॥ ११ ३७-४१ पशुपतिः जगत्कर्ता इति यत् पाशुपतमतं तस्य निरा करणम् ॥ १२ ४२-४५ शक्तिः जगत्कर्त्री इति यत् शाक्तमतं तस्य निराकर णम् ॥ —:*:— द्वितीयाध्यायस्य तृतीयः पादः । १ १-७ आकाशस्य उत्पत्तिमत्त्वविषयकश्रुतिविरोधपरिहारे ण उत्पत्तिमत्त्वनिरूपणम् ॥ २ ८ मुख्यवायोः उत्पत्तिमत्त्वविषयकश्रुतिविरोधपरिहारे

Page 16Permalink

श्रीमद्ब्रह्मसूत्राधिकरणविषयसूचिका. ( १५ ) अधि०। सूत्र०। विषयाः। ण मुख्यप्राणः उत्पत्तिमान् इति निरूपणम् ॥ ३ ९ ब्रह्मणः उत्पत्तिमत्त्वविषयकश्रुतिविरोधपरिहारेण ब्र- ह्मणः उत्पत्तिर्नास्तीति निरूपणम् ॥ ४ १० तेजसः ब्रह्मणस्सकाशादुत्पत्तिविषयकश्रुतिविरोधप- रिहारेण ब्रह्मणस्सकाशात् तेजसः उत्पत्तिनिरूप- णम् ॥ ५ ११ अपां ब्रह्मणः सकाशादुत्पत्तिविषयकश्रुतिविरोधपरि- हारेण ब्रह्मणः सकाशात् उत्पत्तिरिति निरूपणम्॥ ६ १२ जलं ब्रह्मणः अन्नसृष्टौ द्वारकारणं पृथिवीसृष्टौ द्वार द्वारकारणं इत्येतद्बोधकश्रुतिविरोधपरिहारेण ज- लं पृथिवीद्वारकारणं इति निरूपणम् ॥ ७ १३ ब्रह्मणः अधिभूताधिदैवसंहारकर्तृत्वविषयकश्रुतिवि- रोधपरिहारेण ब्रह्मणः अधिभूतादिसंहारकर्तृत्व- निरूपणम् ॥ ८ १४ अधिभूतादिसंहारक्रमविषयकश्रुतिविरोधपरिहारेण व्युत्क्रमेण लीयते इति निरूपणम् ॥ ९ १५-१६ मनस्तत्त्वस्य उत्पत्तिक्रमेण लयः सर्वेषां विपरीतक्रमे- ण लयः इत्येतत्प्रतिपादकश्रुतिविरोधपरिहारेण सर्वेषां विपरीतक्रमेणैव लयः इति निरूपणम् । १० १७ परमात्मा न लीयते परमात्मा लीयते इत्येतत्प्रतिपाद- कश्रुतिविरोधपरिहारेण परमात्मनः लयः नास्ती- ति निरूपणम् ॥ ११ १८-१९ जीवोत्पत्तिविषयकश्रुतिविरोधपरिहारेण स्थूलशरी- रेण ब्रह्मणः जीवः उत्पद्यत इति जीवस्य स्थूलशरी- रसम्बन्ध एव उत्पत्तिः इति निरूपणम् ॥ १२ २०-२६ जीवाणुत्वविषयकश्रुतिविरोधपरिहारेण जीवः अणु- रिति निरूपणम् ॥ १३ २७ जीवः बहुरूपः बहुरूपो न इत्येतत्प्रतिपादकश्रुतिवि- रोधपरिहारेण जीवः स्वरूपेण एकः। अंशेन बहु- रूपः इति निरूपणम् ॥

Page 17Permalink

( १६ ) श्रीमद्ब्रह्मसूत्राधिकरणविषयसूचिका. अधि०। सूत्र०। विषयाः । १४ २८-२९ जीवस्य परमात्मभिन्नत्वविषयकश्रुतिविरोधपरिहा- रेण जीवः भिन्न इति निरूपणम् ॥ १५ ३० जीवस्य उत्पत्तिरस्ति , जीवः अनादिः , इत्येतद्बोध- कश्रुतिविरोधपरिहारेण स्वरूपतः अनादिरिति निरूपणम् ॥ १६ ३१-३२ जीवः ज्ञानानन्दरूपः जीवः ज्ञानानन्दादिरूपो न इत्ये- तद्बोधक श्रुतिविरोधपरिहारेण जीवः स्वरूपतः ज्ञा- नानन्दादिरूपः इति निरूपणम् ॥ १७ ३३-४२ जीवकर्तृत्वविषयकश्रुतिविरोधपरिहारेण दत्तस्वात्- न्त्र्येण जीवः कर्ता इति निरूपणम् ॥ १८ ४३-५० जीवः परमात्मनः अंशः परमात्मनः अंशो न इत्येतद्बो- धक श्रुतिविरोधपरिहारेण भिन्नांशः नाम, अल्पश- क्तिः किञ्चित्साहश्यमात्रवान् इति निरूपणम् ॥ १९ ५१-५३ जीवः परमात्मनः प्रतिबिम्बः इति श्रुतिः न इति अनु- मितश्रुतिः अनयोर्विरोधपरिहारेण प्रतिबिम्बः ना- म, किञ्चित् साम्योपेतः इति निरूपणम् ॥ —:*:— द्वितीयाध्यायस्य चतुर्थः पादः । १ १-३ इन्द्रियोत्पत्तिविषयकबलवच्छ्रुतिविरोधस्य परिहारे ण इन्द्रियाणि परमात्मना स्थूलरूपेण उत्पद्यन्ते इ- ति निरूपणम् ॥ २ ४ मनोजन्मविषयकबलवच्छ्रुतिविरोधस्य परिहारेण म नः परमात्मना स्थूलरूपेण उत्पद्यते इति निरूप- णम् ॥ ३ ५ वागुत्पत्तिविषयकबलवच्छ्रुतिविरोधस्य परिहारेण वा क् परमात्मना स्थूलरूपेण उत्पद्यते इति निरूपणम्॥ ४ ६-७ प्राणसङ्ख्याविषयबलवच्छ्रुतिविरोधस्य परिहारेण प्राणाः द्वादश इति निरूपणम् ॥ ५ ८ प्राणपरिमाणविषयकश्रुतिविरोधस्य परिहारेण प्रा णाः अणव इति निरूपणम् ॥

Page 18Permalink

श्रीमद्ब्रह्मसूत्राधिकरणविषयसूचिका. ( १७ ) अधि० । सूत्रं । विषयाः । ६ ९-१० मुख्यप्राणजन्मविषयकश्रुतिविरोधस्य परिहारेण स्थू- लरूपेण मुख्यप्राणः उत्पद्यते इति निरूपणम् ॥ ७ ११-१२ मुख्यप्राणः स्वतन्त्रः मुख्यप्राणः परमात्माधीनः इत्ये- तद्बोधकश्रुतिविरोधस्य परिहारेण परमात्माधीनः इति निरूपणम् ॥ ८ १३ प्राणादयः मुख्यप्राणस्य स्वरूपभूताः मुख्यप्राणस्य दासाः इत्येतद्बोधकश्रुतिविरोधस्य परिहारेण दा- सभूताः पञ्च, स्वरूपभूताः पञ्च इति निरूपणम् ॥ ९ १४ मुख्यप्राणः व्याप्तः मुख्यप्राणः अणुः इत्येतद्बोधकशु- तिविरोधस्य परिहारेण अन्तर्गतरूपेण अणुः बहि- र्गतरूपेण व्याप्तः इति निरूपणम् ॥ १० १५-१७ प्राणाः जीवस्य करणानि ब्रह्मणः करणानि इत्येतद्बो- धकश्रुतिविरोधस्य परिहारेण ब्रह्मणः करणानि इ- ति निरूपणम् ॥ ११ १८-२० सर्वे प्राणाः इन्द्रियाणि मुख्यप्राणादन्ये द्वादश प्राणाः एव इन्द्रियाणि इत्येतद्बोधकश्रुतिविरोधस्य परि- हारेण अन्ये एव इन्द्रियाणि इति निरूपणम् ॥ १२ २१ इन्द्रियाश्रयशरीरं परमात्मसृष्टं विरिञ्चसृष्टं इत्येतद्बो- धकश्रुतिविरोधस्य परिहारेण परमात्मसृष्टमिति निरूपणम् ॥ १३ २२-२३ इन्द्रियाश्रयशरीरं जलमात्रेण उत्पद्यते पृथिव्यादि- भ्यः उत्पद्यते इत्येतद्बोधकश्रुतिविरोधस्य परिहा- रेण पृथिव्यादिभ्यः इति निरूपणम् ॥ —-::-*— तृतीयाध्यायस्य प्रथमः पादः । १ १ जीवस्य भूतसम्बन्धः देहनाशेऽपि न निवर्तते इति नि- रूपणम् ॥ २ २ समस्तभूतविशिष्टस्य जीवस्य गमननिरूपणम् ॥ ३ ३ भूतानां जीवेन सह गमननिरूपणम् ॥ ४ ४ प्राणाः जीवेन सह आगतः गच्छन्तीति निरूपणम् ॥

Page 19Permalink

( १८ ) श्रीमद्ब्रह्मसूत्राधिकरणविषयसूचिका. अधि०। सूत्र०। विषयाः। ५ ५ भूतानां जीवेन सह गमनविषये पूर्वपक्षपरिहारः ॥ ६ ६ भूतानां जीवेन सह गमनविषये प्रत्यक्षश्रुतिः नास्तीति पूर्वपक्षस्य परिहारः ॥ ७ ७ वैराग्यभक्त्युपासनज्ञानैरेव मोक्षः भवति कर्मणा जा- यमानो मोक्षः गौणः इति निरूपणम् ॥ ८ ८ कर्म अनुभवेन निःशेषं न नश्यति अतः वैराग्यादि साधनं आवश्यकमेव इति निरूपणम् ॥ ९ ९ जीवस्य स्वर्गादिकं प्रति येन पथा गमनं तथा नियमे- न आगमनं नेति निरूपणम् ॥ १० १०-१२ जीवस्य गमनागमनं कर्मणैव न आचारमात्रेण इति निरूपणम् ॥ ११ १३-१५ पापकर्मकृतामपि गमनागमनमस्तीति, केचिज्जीवाः नरके दुःखं अनुभूय ऊर्ध्वलोकं आरोहन्ति, अन्ये तमसि अवरोहन्ति इति निरूपणम् ॥ १२ १६ नरकाणि सप्तेति निरूपणम् ॥ १३ १७ परमात्मा जीवस्य अन्तःस्थित्वा प्रेरकोऽपि तस्य नर- कानुभवः नेति निरूपणम् ॥ १४ १८ देवयानपितृयानयोः गमने जीवानां स्वातन्त्र्यं नेति निरूपणम् ॥ १५ १९-२३ तमसि सुखलेशोऽपि नास्तीति निरूपणम् ॥ १६ २४ जीवः धूमादिदेवतादेहेषु प्रविश्य तस्य स्थितौ तिष्ठ- ति तद्गमने गच्छति न तु तद्रूपत्वं तत्पदं वा प्राप्नो- ति इति निरूपणम् ॥ १७ २५ जीवः पुण्यमनुभूय धूममार्गेण अविळम्बेन संवत्सरा- त्प्रागेव मातृदेहं प्रविशति इति निरूपणम् ॥ १८ २६-२७ कर्मिणां स्वर्गादवरोहणे दुःखानुभवः नास्तीति निरू- पणम् ॥ १९ २८ जीवः प्रथमतः पितृदेहं प्रविश्य अनन्तरं मातृयोनिं प्र- विशतीति निरूपणम् ॥ २० २९ योनिप्रवेशानन्तरं शरीरप्राप्तिः इत्येतत् सामान्यजन

Page 20Permalink

श्रीमद्ब्रह्मसूत्राधिकरणविषयसूचिका. (१९) अधि०। सूत्र०। विषयाः । नं, विशेषतस्तु मातापितृशरीरसम्बन्धं विनाऽपि जननमस्तीति निरूपणम् ॥ ——:*:—— तृतीयाध्यायस्य द्वितीयः पादः । १ १-४ यत्स्वप्ने दृश्यते तत्सत्यं, तत्कर्ता परमात्मेति, स्वाप्नि- कपदार्थः जाग्रच्छुभाशुभसूचकः इति च निरूप- णम् ॥ २ ५ स्वप्नपदार्थस्य अदर्शनमपि परमात्माधीनमेव इति निरूपणम् ॥ ३ ६ जाग्रदवस्था परमात्मनैव भवतीति निरूपणम् ॥ ४ ७ नाडीस्थपरमात्मनि जीवस्य प्रवेशः सुषुप्तिरिति नि- रूपणम् ॥ ५ ८ ब्रह्मैव सुप्तपुरुषं प्रबोधयतीति निरूपणम् ॥ ६ ९ सर्वेषां सर्वकालेष्वपि ब्रह्मैव स्वप्नादिकारणं इति नि- रूपणम् ॥ ७ १० जीवस्य परमात्मनि अर्धप्रवेशे मूर्च्छा संभवतीति निरू- पणम् ॥ ८ ११-१३ जाग्रत्स्वप्नसुषुप्तिषु प्रवर्तकः विश्वतैजसप्राज्ञरूपः प- रमात्मा एक एवेति निरूपणम् ॥ ९ १४-१७ परमात्मा प्राकृतरूपरहितः अप्राकृतज्ञानानन्दादिरूप- वान् इति निरूपणम् ॥ १० १८ यथा सूर्यात् सूर्यप्रतिबिम्बः भिन्नः तथा जीवः परमा- त्मनः अन्यः इति निरूपणम् ॥ ११ १९ जीवः ज्ञानानन्दस्वरूपोऽपि तदभिव्यक्त्यर्थं भक्तिं कु- र्यादिति निरूपणम् ॥ १२ २०-२१ साधनेषु न्यूनाधिकभावसत्त्वात् फलेऽपि न्यूनाधिक- भावो वर्तते इति निरूपणम् ॥ १३ २२ परमात्मनः सृष्टिसंहारकर्तृत्वमात्रं नास्ति, किन्तु पा- लनकर्तृत्वमपि अस्तीति निरूपणम् ॥ १४ २३-२७ परमात्मा अव्यक्तोऽपि स्वप्रसादात् व्यक्तो भवतीति निरूपणम् ॥

Page 21Permalink

( २० ) श्रीमद्ब्रह्मसूत्राधिकरणविषयसूचिका. अधि०। सूत्र०। विषयाः। १५ २८-३१ परमात्मनि गुणत्वं गुणित्वं च वर्तते इति निरूपणम्॥ १६ ३२-३४ परमात्मनः आनन्दादिकं लौकिकानन्दादिभ्यः विल क्षणमिति निरूपणम् ॥ १७ ३५-३६ परमात्मरूपाणां आनन्दादिषु परस्परवैलक्षण्यं ना स्ति इति निरूपणम् ॥ १८ ३७ ध्यानकाले यद्रूपं प्रतीयते तत् ब्रह्मस्वरूपं न इति नि रूपणम् ॥ १९ ३८ सर्वत्र सर्वकालेषु च सृष्ट्यादिकं परमात्मनैवेति नि रूपणम् ॥ २० ३९-४२ परमात्मैव कर्मणः फलस्य च हेतुः इति निरूपणम् ॥ ─:※:─ तृतीयाध्यायस्य तृतीयः पादः । १ १-५ सर्ववेदार्थविचारेण ब्रह्म ज्ञातव्यं इति समर्थनम् ॥ २ ६-९ सर्ववेदोक्तगुणान् प्रकरणानुसारेण उपसंहृत्य उपा सना कर्तव्येति निरूपणम् ३ १० विरिञ्च एव सर्ववेदोक्तसर्वगुणैः उपासनां कर्तुं यो ग्यः, अन्ये देवाः योग्यताऽनुसारेण एककाले याव न्तो गुणाः स्फुरन्ति तावद्गुणैः उपासनां कर्तुं यो ग्याः, मनुष्यास्तु आनन्दादिगुणैः उपासनां कर्तुं योग्याः इति निरूपणम् ॥ ४ ११ अधिकगुणोपासनाक्रमेण फलप्राप्तिक्रमः इति निरूप णम् ॥ ५ १२ प्रधानफलस्य मोक्षस्य प्राप्तये सत्यं ज्ञानं आनन्दं ब्रह्म इति चतुर्गुणैः सर्वैः परमात्मा उपास्यः इति निरू पणम् ॥ ६ १३ प्रियशिरस्त्वादिगुणाः सर्वैः नोपास्याः केचिदेवा एव तदुपासनां कर्तुं योग्याः इति निरूपणम् ॥ ७ १४ चतुर्भ्यः सर्वेभ्यश्च अन्ये परमात्मनः गुणाः देवादि भिः उपास्याः इति निरूपणम् ॥

Page 22Permalink

श्रीमद्ब्रह्मसूत्राधिकरणविषयसूचिका. ( २१ ) अधि०। सूत्र०। विषयाः । ८ १५-१६ सर्वगुणोपसंहारानुपसंहारयोः कर्तव्यत्वे प्रमाणनिरू- पणम् ॥ ९ १७ “आत्मेत्येव उपासीत” इति वचने सत्यपि चतुर्गु- णाः उपास्या एवेति निरूपणम् ॥ १० १८ आत्मशब्दः सर्वगुणबोधकोऽपि विरिञ्चेतरेषां सर्वगु- णबोधको न भवतीति निरूपणम् ॥ ११ १९ मोक्षार्थं उपास्यमानगुणाः लोकविलक्षणा इति निरू- पणम् ॥ १२ २०-२१ वाण्याः त्रिविक्रमत्वादिक्रियाणां पृथक् उपासना ना- स्तीति निरूपणम् ॥ १३ २२-२३ आत्मशब्दः तत्तदधिकारियोग्यगुणाभिधायकः इति निरूपणम् ॥ १४ २४ सम्यग्भरणं , अन्तरिक्षादिलोकव्याप्तिश्च देवादिभिः उपास्ये इति निरूपणम् ॥ १५ २५ सर्ववेदोक्तगुणैरेव उपासना कर्तव्या इति निरूप- णम् ॥ १६ २६ सर्वैः भेदनादिगुणा नोपास्या इति निरूपणम् ॥ १७ २७-२८ मोक्षे मुक्तानां उपासना अस्ति । सा तु पेच्छिकी इ- ति निरूपणम् ॥ १८ २९-३१ मोक्षे मुक्ताः स्वेच्छया कर्म कुर्वन्तीति निरूपणम् ॥ १९ ३२ सर्वेषां ज्ञानिनां मुक्तिरस्तीति निरूपणम् ॥ २० ३३-३४ मुक्तानां योग्यतातारतम्यानुसारेण आनन्दः , आन- न्दतारतम्येऽपि तेषां परस्परविरोधो नास्तीति नि- रूपणम् ॥ २१ ३५-३७ मुख्यप्राणादूर्ध्वं अधिकारिणः अभावात् प्राणावसा- नमेव अधिकारितारतम्यं इति निरूपणम् ॥ २२ ३८ परमात्मा प्राणादधिक इति निरूपणम् ॥ २३ ३९ छान्दोग्ये सत्यादिप्रकरणे उक्ताः सत्यादयः भगवत्स्व- रूपभूताः इति निरूपणम् ॥ २४ ४०-४२ लक्ष्मीः नित्यमुक्ताऽपि भक्तिविशेषात् उपासनां क-

Page 23Permalink

( २२ ) श्रीमद्ब्रह्मसूत्राधिकरणविषयसूचिका. अधि०। सूत्र०। विषयाः । रोति इति निरूपणम् ॥ २५ ४३ ब्रह्मसाक्षात्कारार्थं श्रवणमननध्यानरूपोपासना कर्त व्या , श्रवणेन तत्त्वज्ञानं , मननात् तन्निश्चयः , ध्यानात् अपरोक्षः इति निरूपणम् ॥ २६ ४४ केवलं श्रवणमात्रेण ज्ञानं न संभवति , गुरुप्रसादपू र्वकश्रवणेनैव ज्ञानं इति निरूपणम् ॥ २७ ४५ गुरुप्रसादः बलीयान् इति निरूपणम् ॥ २८ ४६-४७ पूर्वगुरुसमानश्चेत् गुर्वनुज्ञया अन्यगुरुः स्वीका र्यः अधिकश्चेत् पूर्वानुज्ञां विनैव अन्यगुरुः स्वी कार्यः इति निरूपणम् ॥ २९ ४८-४९ अपरोक्षज्ञानमेव मोक्षकारणमिति निरूपणम् ॥ ३० ५० “ज्ञानात् मोक्षः” इति वचनं ‘कर्मणा मोक्षः’ इति वच नेन बाधितं न भवतीति निरूपणम् ॥ ३१ ५१ ब्रह्मदर्शनं श्रवणादिमात्रेण न भवति, किन्तु हरिगुरु भक्तिशमदमादिभिश्च इति निरूपणम् ॥ ३२ ५२ यथातथा उपासनाभेदः तथातथा दर्शनभेदः इति नि रूपणम् ॥ ३३ ५३ सामान्यतः भगवदवतारदर्शनात् न मुक्तिः, किन्तु स्वयोग्यरूपदर्शनादेव मुक्तिः इति निरूपणम् ॥ ३४ ५४ परमात्मप्रसादादेव अपरोक्षज्ञानं, न भक्तिमात्रेण इ ति निरूपणम् ॥ ३५ ५५-५६ उपासना तत्तज्जीवयोग्यताऽनुसारिणी इति निरूपणम्॥ ३६ ५७-५८ अप्रधानत्वेन अन्यदेवता अपि उपास्याः, तत्रापि अ धमगुणाः उत्तमेषु उपसंहार्याः, न उत्तमगुणाः अ धमेषु इति निरूपणम् ॥ ३७ ५९ पूर्णत्वरूपगुणेन परमात्मा उपास्यः इति निरूपणम्॥ ३८ ६० परमात्मगुणेषु पूर्णत्वं जीवानां योग्यताऽनुसारेण प्रती यते इति निरूपणम् ॥ ३९ ६१ योग्यताऽनुसारेण कर्तव्योपासनानन्तरं अन्यरूपोपास नाऽपि इच्छानुसारेण कर्तव्या इति निरूपणम् ॥

Page 24Permalink

श्रीमद्ब्रह्मसूत्राधिकरणविषयसूचिका. ( २३ ) अधि०। सूत्र०। विषयाः । ४० ६२ काम्यापेक्षी कामानुसारेण कामसाधनगुणविशिष्ट या उपासनां कुर्यात्, तद्रहितः मुमुक्षुस्तु न कुर्या त् इति निरूपणम् ॥ ४१ ६३-६६ देवैः स्वोत्पादकाङ्गत्त्वेन परमात्मा उपास्यः इति नि रूपणम् ॥ ४२ ६७-६८ पूर्वोक्ताङ्गोपासना देवव्यतिरिक्तैः न कर्तव्या इति नि रूपणम् ॥ : -*- : तृतीयाध्यायस्य चतुर्थः पादः । १ १-९ अपरोक्षज्ञानात् सर्वपुरुषार्थप्राप्तिरिति निरूपणम् ॥ २ १०-१२ सर्वेषां अपरोक्षज्ञाने अधिकारो नास्ति परन्तु वेदा ध्ययनवतामेव अधिकारः इति निरूपणम् ॥ ३ १३ सर्वेषामपि एकप्रकारेण ज्ञानाधिकारः न , किन्तु यो ग्यतातारतम्यानुसारेण इति समर्थनम् ॥ ४ १४-३३ मनुष्येषु ज्ञानिनां अपि यथेष्टाचरणं न निषिद्धप्रवृत्ति विषयं , तर्हि तेषां दुष्कर्मानुष्ठानेन मोक्षहानिः न भवति मोक्षफले एव ह्रासो भवति सत्कर्मानुष्ठाने न फलाधिक्यं भवतीति , देवाः एव कामचरणा नुज्ञावन्तः तत्रापि अनुष्ठेयकार्याणां मध्ये एव का मचरणमिति, विरिञ्चस्तु यथेच्छाचरणविधिमान् इति निरूपणम् ॥ ५ ३४-४० श्रवणमननादिषु यत्नवतामपि ज्ञानयोग्यानामेव ज्ञा नं संभवति न अयोग्यानां इति निरूपणम् ॥ ६ ४१-४३ उत्तमाधिकारिणां पदं अधमाधिकारिभिः नापेक्षणी यं इति निरूपणम् ॥ ७ ४४-४६ ज्ञानादिफलं इन्द्रियाद्यभिमानिदेवानामेव मुख्यं प्रजा नां अल्पं इति निरूपणम् ॥ ८ ४७-४८ गृहस्थाश्रमिणः आश्रमिषु उत्तमाः न भवन्ति, कि न्तु यतय एव इति निरूपणम् ॥ ९ ४९ अयोग्यानां उपदेशः न कर्तव्यः इति निरूपणम् ॥

Page 25Permalink

( २४ ) श्रीमद्ब्रह्मसूत्राधिकरणविषयसूचिका. अधि०। सूत्र०। विषयाः । १० ५० प्रारब्धकर्मप्रतिबन्धाभावे श्रवणमननादिभिः तज्जन्म- न्येव ज्ञानं सम्भवति अन्यथा जन्मान्तरे इति नि- रूपणम् ॥ ११ ५१ ज्ञानिनोऽपि प्रारब्धकर्मप्रतिबन्धाभावे तच्छरीरपाता- नन्तरमेव मोक्षः इति निरूपणम् ॥ :—*—: चतुर्थाध्यायस्य प्रथमः पादः । १ १-२ श्रवणमननादीनां आवृत्तिः कर्तव्येति निरूपणम् ॥ २ ३ विष्णुः मम स्वामी इत्युपासना कर्तव्येति निरूपणम् ॥ ३ ४ नामादिप्रतिमायां ब्रह्मदृष्टिः न कर्तव्या, किन्तु तत्र स्थितत्वेन उपासना कार्येति निरूपणम् ॥ ४ ५ परमात्मनः ब्रह्मत्वेन उपासना कर्तव्येति निरूपणस् ॥ ५ ६ परमात्मनः अवयवे आदित्यादिजनकत्वोपासना देवै- रेव कार्या इति निरूपणम् ॥ ६ ७-११ आसीनस्सन् उपासनां कुर्यादिति निरूपणम् ॥ ७ १२ मोक्षपर्यन्तं उपासना कर्तव्या मोक्षेऽपि उपासना अ- स्ति इति निरूपणम् ॥ ८ १३-१९ परमात्माऽपरोक्ष्ये जाते पूर्वतनयोः अनारब्धयोः अन- भीष्टयोश्च पुण्यपापयोः नाशः उत्तरयोः अनारब्ध- योः अनभीष्टयोः पुण्यपापयोः असंबन्धः भवति । भगवद्द्वेषिणः तमसि पतने सति पुण्यस्य असंब- न्धः भवति ज्ञानिकृतपुण्यकर्म मोक्षे अतिशयफला- य भवति इति निरूपणम् ॥ :— ❦ —: चतुर्थाध्यायस्य द्वितीयः पादः । १ १-२ उमा रुद्रे विलीयते सर्वे देवाः नियम्यनियामकभा- वानुसारेण नियामकेषु विलीयन्ते इति निरूपणम्॥ २ ३ मनोऽभिमानी रुद्रः मुख्यप्राणे विलीयते इति निरूप- णम् ॥ ३ ४ मुख्यप्राणः परमात्मनि विलीयते इति निरूपणम् ॥

Page 26Permalink

श्रीमद्ब्रह्मसूत्राधिकरणविषयसूचिका. ( २५ ) अधि०। सूत्र०। विषयाः । ४ ५ भूताधमदेवतानां भूताभिमानिषु लयः इति निरूप- णम् ॥ ५ ६ अग्रौ सर्वेषां लयः न इति निरूपणम् ॥ ६ ७-१४ लक्ष्म्याः लयो नास्तीति निरूपणम् ॥ ७ १५ सर्वे देवाः क्रमात् परमात्मनि विलीयन्ते इति निरू- पणम् ॥ ८ १६ मुक्ताः भगवदधीनाः भगवदिच्छाऽनुसारेणैव कामय- न्तीति निरूपणम् ॥ ९ १७-२१ मुक्तियोग्यानां मनुष्याणां देहादुत्क्रमणकाले हृदय- स्य अग्रभागे ज्वलनं भवति तेन नाडीद्वारस्य प्र- काशो भवति ब्रह्मनाड्या निष्क्रामन्ति इति निरूप- णम् ॥ १० २२ ज्ञानयोगिनः ब्रह्मप्राप्तिः कर्मयोगिनः चन्द्रप्राप्तिः गति- स्मरणानुसारेण भवति इति निरूपणम् ॥ :— चतुर्थाध्यायस्य तृतीयः पादः । १ १ ब्रह्मप्राप्तिमार्गेः अर्चिरादिरिति निरूपणम् ॥ २ २ अर्चिर्मार्गेण गत्वा वायुलोकः प्राप्यः इति निरूपणम् ॥ ३ ३ संवत्सराभिमानिलोकप्राप्त्यनन्तरं तटिल्लोकप्राप्तिः त- दनन्तरं वरुणलोकप्राप्तिरिति निरूपणम् ॥ ४ ४-५ पूर्वोक्तवायुलोकः आतिवाहिकनामकवायुलोक इति निरूपणम् ॥ ५ ६ ब्रह्मप्राप्तिमार्गेषु मुख्यवायुलोक एव अन्तिमप्राप्य इति निरूपणम् ॥ ६ ७-१६ वायुः व्याप्‍तोपासकान् परं ब्रह्म नयति अन्यांस्तु का- र्यं ब्रह्म नयति इति निरूपणम् ॥ —:०:— चतुर्थाध्यायस्य चतुर्थः पादः । १ १ जीवः परमात्मानं प्राप्य तं अविहाय स्वस्वरूपेण स- र्वान् भोगान् अनुभवतीति निरूपणम् ॥

Page 27Permalink

( २६ ) श्रीमद्ब्रह्मसूत्राधिकरणविषयसूचिका. अधि०। सूत्र०। विषयाः । २ २ यः परमात्मानं प्राप्य भोगं अनुभवति इति उक्तः सः मुक्त एव इति निरूपणम् ॥ ३ ३ मुक्तप्राप्यं परं ज्योतिः परमात्मैव इति निरूपणम् ॥ ४ ४ परमात्मनि प्रविष्टः जीवः परमात्मभुक्तभोगानेव अ- नुभवति इति निरूपणम् ॥ ५ ५-७ परमात्मनि प्रविष्टः मुक्तजीवः स्वस्वरूपदेहेन परमा- त्मदेहेनापि भोगाननुभवति इति निरूपणम् ॥ ६ ८ मुक्तः स्वसङ्कल्पमात्रेण भोगाननुभवति इति निरूप- णम् ॥ ७ ९ मुक्तानां स्वाचार्याद्विज्ञानप्रदातृभ्यः अन्ये अधिपत- यः न सन्ति इति निरूपणम् ॥ ८ १०-१६ मुक्ताः शुद्धसत्त्वमयदेहेन चिद्रूपदेहेन वा भोगान- नुभवन्ति इति निरूपणम् ॥ ९ १७-२० मुक्ताः जगत्सृष्ट्यादिव्यतिरिक्तान् कामाननुभवन्ति इति निरूपणम् ॥ १० २१-२२ मुक्तस्य आनन्दे वृद्धिह्रासौ न स्तः भगवदुपासना तु सुखरूपैव न साधनभूता इति निरूपणम् ॥ ११ २३ मुक्तस्य पुनरावृत्तिर्नास्ति इति निरूपणम् ॥ —:❖:—