भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 158, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 158

तृतीयः सर्गः ६६

मतः' इति विश्वः । नवाम्बुदानानीकस्य वृन्दस्य मुहुर्त्तं क्षणमात्रं लाञ्छने चिह्नभूते धनुषि । दिव्ये धनुषीत्यर्थः । अमोघमवन्ध्यं सायकं बाणं समधत्त संहितवान् ।

**भाषार्थ—**रघु के स्तम्भरूपी बाण से हृदय पर आघात खाकर इन्द्र ने भी नये मेघों के समान वर्ण वाले धनुष पर अव्यर्थ बाण को चढ़ाया ॥ ५३ ॥

दिलीपसूनोः स बृहद्भुजान्तरं प्रविश्य भीमासुरशोणितोचितः ।
पपावनास्वादितपूर्वमाशुगः कुतूहलेनेव मनुष्यशोणितम् ॥ ५४ ॥

**अन्वयः—**भीमासुरशोणितोचितः सः आशुगः दिलीपसूनोः बृहत् भुजान्तरं प्रविश्य, अनास्वादितपूर्वं मनुष्यशोणितं कुतूहलेन इव पपौ ।

दिलीप इति । भीमानां भयङ्कराणामसुराणां शोणिते रुधिर उचितः परि- चितः स इन्द्रमुक्त आशुगः सायको दिलीपसूनोः रघोर्बृहद्विशालं भुजान्तरं वक्षः प्रविश्य । अनास्वादितपूर्वं पूर्वमनास्वादितम् । सुप्सुपेति समासः । मनुष्यशोणितं कुतूहलेनेव पपौ ।

**भाषार्थ—**भयंकर दैत्यों के रुधिर से परिचित उस बाण ने रघु के विशाल हृदय में घुस कर, पहिले न चखे हुए मनुष्य के खून को कौतुक से पीया ॥५४॥

हरेः कुमारोऽपि कुमारविक्रमः सुरद्विपास्फालनकर्कशाङ्गुलौ ।
भुजे शचीपत्रविशेषकाङ्किते स्वनामचिह्नं निचखान सायकम् ॥ ५५ ॥

**अन्वयः—**कुमारविक्रमः कुमारः अपि सुरद्विपास्फालनकर्कशाङ्गुलौ शची- पत्रविशेषकाङ्किते हरेः भुजे स्वनामचिह्नं सायकं निचखान ।

हरेरिति । कुमारस्य स्कन्दस्य विक्रम इव विक्रमो यस्य स तथोक्तः । 'सप्तम्युपमानपूर्वपदस्य—' इत्यादिना समासः । कुमारोऽपि रघुरपि सुरद्विपस्यै- रावतस्यास्फालनेन कर्कशा अङ्गुलयो यस्य स तस्मिन् । शच्याः पत्रविशेषकैर- ङ्किते शचीपत्रविशेषकाङ्किते हरेरिन्द्रस्य-भुजे स्वनामचिह्नं स्वनामाङ्कितं सायकं निचखान निखातवान् । निष्कण्टकराज्यमाप्तस्यायं महानभिभव इति भावः ।

**भाषार्थ—**स्कन्दतुल्य पराक्रमी रघु ने भी ऐरावत के चलाने से कर्कश अङ्गुलियों वाली, इन्द्राणी के तिलक विशेष से भूषित इन्द्र की भुजा पर अपने नाम के निशान वाला बाण मारा ॥ ५५ ॥

जहार चान्येन मयूरपत्रिणा शरेण शक्रस्य महाशनिध्वजम् ।
चुकोप तस्मै स भृशं सुरश्रियः प्रसह्य केशव्यपरोपणादिव ॥ ५६ ॥