भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 403, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 403

३४४ रघुवंशमहाकाव्ये

भाषार्थ—बालक को उत्पन्न करने के कारण कृश उदरवाली माता कौशल्या नन्हें से राम को लेकर पलंग पर लेटी हुई ऐसी सुन्दर लगती थीं, मानों शरद ऋतु में पतली धार वाली गङ्गा के तट पर चढ़ाया हुआ नीला कमल हो ॥ ६९ ॥

कैकेय्यास्तनयो जज्ञे भरतो नाम शीलवान् ।
जनयित्रीमलंचक्रे यः प्रश्रय इव श्रियम् ॥ ७० ॥

अन्वयः—कैकेय्याः भरतः नाम शीलवान् तनयः जज्ञे यः प्रश्रयः श्रियम् इव जनयित्रीम् अलञ्चक्रे ।

कैकेय्या इति । कैकेयस्य राज्ञोऽपत्यं स्त्री कैकेयी । “तस्यापत्यम्” इत्यणि कृते “कैकेयमित्रयुप्रलयानां यादेरियः' इतीयादेशः । तस्या भरतो नाम शीलवांस्तनयो जज्ञे जातः । यस्तनयः प्रश्रयो विनयः श्रियमिव । जनयित्रीं मातरमलञ्चक्रे ।

भाषार्थ—कैकेयी को भरत नामक शीलवान् पुत्र उत्पन्न हुआ, जिसने लक्ष्मी को विनय के समान माता को सुशोभित किया ॥ ७० ॥

सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रा सुषुवे यमौ ।
सम्यगाराधिता विद्या प्रबोधविनयाविव ॥ ७१ ॥

अन्वयः—सुमित्रा लक्ष्मणशत्रुघ्नौ यमौ सुतौ सम्यगाराधिता विद्या प्रबोधविनयौ इव सुषुवे ।

सुताविति । सुमित्रा लक्ष्मणशत्रुघ्नौ नाम यमौ युग्मजातौ सुतौ पुत्रौ । सम्यगाराधिता स्वभ्यस्ता विद्या प्रबोधविनयौ तत्त्वज्ञानेन्द्रियजाताविव सुषुवे ।

भाषार्थ—जिस प्रकार अच्छी तरह अभ्यास की हुई विद्या तत्त्वज्ञान और नम्रभाव को उत्पन्न करती है, उसी प्रकार सुमित्रा ने लक्ष्मण और शत्रुघ्न नामक दो पुत्रों को एक साथ उत्पन्न किया ॥ ७१ ॥

निर्दोषमभवत्सर्वमाविष्कृतगुणं जगत् ।
अन्वगादिव हि स्वर्गो गां गतं पुरुषोत्तमम् ॥ ७२ ॥

अन्वयः—सर्वं जगत् निर्दोषम् आविष्कृतगुणं च अभवत् स्वर्गः हि गां गतं पुरुषोत्तमम् अन्वगात् ।

निर्दोषमिति । सर्वं जगद्भूलोको निर्दोषं दुर्भिक्षादिदोषरहितम् आविष्कृतगुणं प्रकटीकृतारोग्यादिगुणं चाभवत् । अत्रोत्प्रेक्षते—गां भुवं गतमवतीर्णं पुरुषोत्तमं विष्णुं स्वर्गोऽप्यन्वगादिव । स्वर्गो हि गुणनान्निर्दोषश्चेत्यागमः । स्वर्गतुल्यमभूदित्यर्थः ।

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या) · पृष्ठ 403, कुल 735 में से · BharatKosha