रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)
Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary
सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 17, कुल 94 में से
संदर्भ में पढ़ें१० आयुर्वेदीयग्रन्थमाला । [उपदेशः मध्वाज्याभ्यां लिहेत्कर्षमनु स्यात्क्रामणं परम् । गगनेश्वररसः । पारदो गगनं कान्तं तीक्ष्णं च मारितं समम् ॥ ३४ ॥ भृङ्गधात्रीफलद्रावैश्छायायां भावयेत्त्र्यहम् । सितामध्वाज्यकैस्तुल्यं सर्वं भाण्डे निरोधयेत् ॥ ३५ ॥ धान्यराशौ स्थितं मासं ततो निष्कत्रयं समम् । भक्षयेच्च पिबेत्क्षीरं कर्षैकं त्रिफलामनु ॥ ३६ ॥ रात्रौ शुण्ठीं कणां खादेद्वर्षैकादमरो भवेत् । जीवेद्ब्रह्मदिनं वीरः स्याद्रसो गगनेश्वरः ॥ ३७ ॥ वटेश्वररसः । वटक्षीरैस्त्र्यहं मर्द्य गन्धं शुद्धरसं समम् । वटकाष्ठाग्निना पच्यान्मृत्पात्रे यामपञ्चकम् ॥ ३८ ॥ क्षिपन् क्षिपन् वटक्षीरं तत्काष्ठेनैव चालयेत् । समुद्धृत्य त्र्यहं भाव्यं देवदालीदलद्रवैः ॥ ३९ ॥ उष्णकाले तु गुञ्जैंकं ताम्बूलपत्रसंयुक्तम् । चन्द्रवृद्ध्या सदा भक्ष्यं यावत् षोडशगुञ्जकम् ॥ ४०॥ चूर्णमुत्तरवारुण्या बाकुच्या देवदालिजम् । मध्वाज्याभ्यां लिहेत्कर्षं क्रामकं ह्यनुपानकम् ॥ ४१ ॥ वर्षमात्राज्जरां हन्ति जीवेद्वर्षशतत्रयम् । रसो वटेश्वरो नाम वज्रकायकरो नृणाम् ॥ ४२ ॥ अचलेश्वररसः । मृतं सूतं शुद्धगन्धं त्रिफलां गुगुग्लुं समम् । सर्वं वातारितैलेन मिश्रं कर्षं लिहेत्सदा ॥ ४३ ॥ षण्मासेन जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् । तस्य मूत्रपुरीषेण शुल्वं भवति काञ्चनम् ॥ ४४ ॥ अजस्य वृषणं पाच्यं गवां क्षीरेण तं निशि । सितायुक्तं पिबेच्चानु रसोऽयमचलेश्वरः ॥ ४५ ॥