रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)
Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary
सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 18, कुल 94 में से
संदर्भ में पढ़ें२.] रसरत्नाकरस्य रसायनखण्डः। ११ परमेश्वररसः । रसं वज्रं स्वर्णकान्ते मुण्डं च मारितं समम् । माक्षिकं गन्धकं शुद्धं सर्वं जम्बीरजैर्द्रवैः ॥ ४६ ॥ सप्ताहं मर्दयेत्खल्वे तद्गोलं चान्धितं पुटेत् । भूधरे दिनमेकं तु ख्यातः सिद्धरसः परः ॥ ४७ ॥ मार्षकं मधुना लेह्यं वर्षान्मृत्युजरापहम् । दिव्यकायो नरः सिद्धो भवेद्विष्णुपराक्रमः ॥ ४८ ॥ श्वेतपौर्नर्नवं मूलं क्षीरपिष्टं सदा पिवेत् । भक्षयेद्वा सिता सार्धं क्रामकं पैरमे रसे ॥ ४९ ॥ गन्धामृतरसः । मृतसूतस्य द्विगुणं शुद्धं गन्धं विमिश्रयेत् । दिनैकं कन्यकाद्रावैर्मर्दयित्वा निरोधयेत् ॥ ५० ॥ दिनैकं मधुना पच्यान्निष्कैंकं मधुना लिहेत् । गन्धामृतो रसो नाम वत्सरान्मृत्युजिद्भवेत् ॥ ५१ ॥ समूलं भृङ्गराजं तु छायाशुष्कं विचूर्णयेत् । तत्समं त्रिफलाचूर्णं सर्वतुल्या सिता भवेत् ॥ ५२ ॥ एकीकृत्य पलैकैकं भक्षयेदनुपानकम् । कालकण्टकरसः । पारदाभ्रं मृतं तुल्यं द्वाभ्यां तुल्यं तु गन्धकम् ॥ ५३॥ तत्सर्वं भृङ्गजैर्द्रवैर्मर्दयेद्दिनसप्तकम् । षड्वारं चोङ्गुलीतैलैर्भावयित्वाऽथ भक्षयेत् ॥ ५४ ॥ माषमात्रं तु वर्षेकं रसोऽयं कालकण्टकः । पिष्ट्वा करञ्जपत्राणि गवां क्षीरैः पिबेदनु ॥ ५५ ॥ जरामृत्युविनिर्मुक्तो जीवेद्ब्रह्मदिनं नरः । अमृतेशरसः । मृतसूताभ्रकं कान्तं विषं ताप्यं शिलाजतु ॥ ५६ ॥ १ 'परमेश्वरे' ख. । २ 'बाकुचीतैलै-' ख. ।