भारतकोश
रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary

सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished94 पृष्ठ

पृष्ठ 3, कुल 94 में से

संदर्भ में पढ़ें
पृष्ठ 3

निवेदनम्

श्रीनित्यनाथसिद्धविरचितो रसरत्नाकरः रसखण्ड-रसेन्द्रखण्ड-वादि- खण्ड-रसायनखण्ड-मन्त्रखण्डाख्यैः पञ्चभिः खण्डैर्विभक्तः । यदुक्तं स्वेनैव ग्रन्था- रम्भे,-“पञ्चखण्डमिदं शास्त्रं साधकानां हितं प्रियम् । रसखण्डे तु वैद्यानां व्या- धितानां रसेन्द्रके ॥ वादिनां वादखण्डे च वृद्धानां च रसायने । मन्त्रिणां मन्त्र- खण्डे च रससिद्धिः प्रजायते”-इति । तेष्वेतावत्पर्यन्तं रसखण्डो रसेन्द्रखण्डश्चेति खण्डद्वयं कलकत्तानगरे मुम्बय्यां च मुद्रितं वर्तते । वादिखण्डः, रसायनखण्डो मन्त्रखण्डश्चेति खण्डत्रयं त्वमुद्रितमेवास्ते । अमुद्रितेषु खण्डेष्वयं रसायन- खण्डो वैद्यानां चिकित्सायामुपयुक्त इति ज्ञात्वा स एव प्रथमं प्रकाश्यते । अव- शिष्टं खण्डद्वयमपि यथावसरं प्रसेत्स्यत्येवास्यां ग्रन्थमालायाम् । अस्मिन् खण्डे रसायनतन्त्रं वाजीकरणतन्त्रं चेति तन्त्रद्वयं प्रतिपादितं दृश्यते। दृश्यन्ते चात्र बहवो नूतनयोगा अपि। यथा-अत्रोक्तो वालुकार्मानप्रयोगः ‘समक उल सेन्दा-रेंगमाही' इति नाम्ना यवन(युनानी)वैद्येषु चिरकालात् प्रसिद्धोऽपि भारतीयवैद्यकग्रन्थे नवीन^१ एवै । यद्यप्यस्मिन् ग्रन्थे रसायनवाजीकरणयोगानां गुणकथनावसरे ‘आयुः स्याद्ब्रह्मणो दिनं' 'रमयेत्कामिनीशतं' इत्यादिरूपा अतिशयोक्तिर्वर्तते, सा चार्थवादरूपैव; तथाऽप्येषां प्रयोगाणामायुष्यत्वं वाजीकरत्वं च मन्तव्यमेव । श्रीनित्यनाथसिद्धः कं देशं जन्मनाऽलञ्चकारेति निर्णेतुं न किञ्चिदपि साधन- मुपलभ्यते । स चायं श्रीनित्यनाथसिद्धः ख्रिस्तीयद्वादशशताब्दयां बभूवेत्य- नुमीयते, रसवाग्भटकृतरसरत्नसमुच्चये तन्नामोल्लेखात् । रसरत्नसमुच्चयकर्ता वाग्भटस्तु ख्रिस्तीयत्रयोदशशताव्दयां बभूवेतीतिहासविदां मतम्^२ । ग्रन्थस्यास्य शुद्ध्यर्थे आदर्शपुस्तकद्वयमुपलब्धं, एकं मुम्बईनिवासिनां मदीयसुहृदां 'वैद्य दामोदर विठ्ठल दमणकर' इत्येतेषां, द्वितीयं च वटोदरनिवासिनां मदीय- सुहृदां 'अमृत विनायक जाम्बेकर' इत्येतेषाम् । संशोवनावसरे तयोराद्यस्य क.इति द्वितीयस्य च ख. इति संज्ञा स्थापिताऽस्ति । ग्रन्थस्यास्य संशोधने यथामति कृतेऽपि यत्ने भ्रमप्रमादिवशाञ्जातं स्खलनं क्वाप्युपलभ्येत चेत्सुधीभिः संशोधनीयं संवेदनीयञ्चाहमिति आश्विन शुक्ल १० सं १९६९. }
नं. ३७२, बोरावझारस्ट्रीट फोर्ट, मुंबई. } यादवशर्मणः ।


१ अत एवानुमीयते यन्नित्यनाथसिद्धो भारतवर्षे यवनराज्यस्थापनानन्तरं बभूवेति। भारतवर्षे यवनराज्यस्थापनाकालस्तु खीस्तीय १११४ वर्षे । 2 See History of Hindoo Chemistry Vol. I. Introduction page 89. & Vol. II. pages 222-23.