रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)
Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary
सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 8, कुल 94 में से
संदर्भ में पढ़ेंआयुर्वेदीयग्रन्थमाला । श्रीनित्यनाथसिद्धविरचितरसरत्नाकरस्य चतुर्थो रसायनखण्डः । प्रथमोपदेशः । मङ्गलाचरणम् । जयति स रसराजो मृत्युशङ्कापहारी सकलगुणनिधानं कायकल्पाधिकारी । वलिपलितविनाशं सेवितो वीर्यवृद्धिं स्थिरमपि कुरुते यः कामिनीनां प्रसङ्गम् ॥ १ ॥ देहसिद्धेः प्रशंसा । अथातः संप्रवक्ष्यामि देहसिद्धिं सुशोभनाम् । यस्याः सिद्धौ मनुष्याणां जायन्ते सर्वसिद्धयः ॥ २ ॥ न देहेन विना किंचिदिष्टमस्ति जगत्त्रये । तस्मात्सर्वप्रयत्नेन तस्मिन् यत्नो विधीयताम् ॥ ३ ॥ रसायनसेवनस्य पूर्वकर्म । शुभनक्षत्रदिवसे वमने रेचने कृते । ततो विशेषशुद्ध्यर्थं केतकीस्तनजं द्रवम् ॥ ४ ॥ त्रिदिनं कुडवैकैकं लोणदोषहरं पिबेत् । विडङ्गं च वचा कुष्ठं केतकीस्तनसंयुतम् ॥ ५ ॥ क्वथितं त्रिदिनं पीतमम्लदोषहरं परम् । श्यामावह्निविडङ्गानि त्र्यूषणं त्रिफला वृषः ॥ ६ ॥ १ 'तस्याः' ख. । २ लवणभक्षणजनितदोषहरमित्यर्थः ।