रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)
Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary
सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 9, कुल 94 में से
संदर्भ में पढ़ें२ आयुर्वेदौयग्रन्थमाला । [उपदेशः सैन्धवं देवदारुश्च मुस्ता चैतत्समं समम् । घृतैर्लेहं तु कर्षैकं सप्ताहात्सर्वदोषजित् ॥ ७ ॥ एवं विशुद्धदेहस्तु पूजयेद्देवतां गुरुम् । कुमारीं योगिनीचक्रं ततः कुर्याद्रसायनम् ॥ ८ ॥ रससेवने पथ्यानि । निर्वाते भूगृहे वाऽथ बाह्यचिन्ताविवर्जितः । जितेन्द्रियो जितक्रोधः क्षीरशाल्यन्नयुग्भवेत् ॥ ९ ॥ षष्ठ्योदनं यवान्नं च गोधूमं मुद्गयूषकम् । जाङ्गलं भक्षयेन्मांसं केवलं क्षीरमेव वा ॥ १० ॥ वलान्नं वाऽथ भुञ्जीत शाकलोणविवर्जितम् । अभ्यङ्गं मस्तुना कुर्यात् स्नानं चैव सुखाम्बुना ॥ ११॥ काकिनीं स्त्रीं भजेन्नित्यं स्वानुकूलां सुयौवनाम् । रसेन्द्रे भक्ष्यमाणे तु कामान्धो जायते नरः ॥ १२ ॥ मैथुनेन विना तस्य ह्यजीर्णो जायते रसः । अजीर्णे कम्पदाहार्ती हिक्का मूर्च्छा ज्वरोऽरतिः ॥१३॥ कासश्वासारुचिच्छर्दिभ्रममोहा भवन्ति हि । सेवेत सुभगां तस्माद्दुर्भागां परिवर्जयेत् ॥ १४ ॥ रसायने वर्ज्यानि । अभ्यङ्गं कटुतैलेन काञ्जिकं मदिरां दधि । कलिङ्गकारवल्ल्यम्लतैलकूष्माण्डराजिकाः ॥ १५ ॥ बिल्वच्छत्राकवार्ताकविदलं काकमाचिकाम् । मूलकं लशुनं तीक्ष्णं शीतमुष्णं च वर्जयेत् ॥ १६ ॥ १ 'देवताचक्रं' ख. । २ 'यस्यास्तु कुञ्चिताः केशाः श्यामा या पद्मलो- चना । सुरूपा तरुणी भिन्नविस्तीर्णजघनस्थला ॥ सङ्कीर्णहृदया पीनस्तनभारेण नामिता । चुम्बनालिङ्गनस्पर्शकोमल्या मृदुभाषिणी ॥ अश्वत्थपत्रसदृशयोनि- देशसुशोभिता । कृष्णपक्षे पुष्पवती सा नारी काकिनी स्मृता ॥ रसबन्धे प्रयोगे च उत्तमा सा रसायने' र. र. स. अ. ६ ॥ ३ -'दाहादि' ख. ।