रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 43, कुल 558 में से
संदर्भ में पढ़ेंद्वितीयः पटलः । १८ ॐ क्रौं श्रीं¹ सूतराजस्य मूलमन्त्र उदाहृतः ॥ ५२ ॥ तस्मिन् रसाङ्कुशीं देवीं² मूलेनावाहयेत्प्रिये । चतुरस्रे तु दिक्पालान्³ पूजयित्वा बहिः क्रमात् ॥ ५३ ॥ नन्दिनञ्च महाकालं भृङ्गि्रीटं महाबलम्⁴ । कुम्भकर्णञ्च सुग्रीवं भृङ्गोकञ्च⁵ दृढायुधम्⁶ ॥ ५४ ॥ द्वारे चतुष्टये विन्यस्य पूजयेद्दक्षवामयोः । शक्रं पूर्वेऽभि⁷संपूज्य स्कन्दमाग्नेयगोचरे⁸ ॥ ५५ ॥ दक्षिणस्यां ततो रुद्रं⁹ पवनं नैर्ऋते तथा¹⁰ । शिवं पश्चिमभागे तु पावकं वायवे न्यसेत् । उमामुत्तरभागे तु व्यापकं चेशगोचरे¹¹ ॥ ५६ ॥ लेपिका क्षेपिका चैव चारिका.........जया तथा¹² । लोहटी बन्धकारी च भूचरी मृत्युनाशिनी¹³ ॥ ५७ ॥ विभूतिः खेचरी¹⁴ चैव दश दूत्यः क्रमेण च¹⁵ ।
(१) चौं यां क्रौं, a variant in M. (२) B reads रसाङ्गुशां. M reads रसाङ्गुशं देवी, which is grammatically inc. (३) चतुरः श्रेष्ठदिकपालान्, a variant in M. (४) M reads मनोबलं. (५) B reads भङ्गोकञ्च. M reads मृगादृञ्च. (६) K reads सुधायुधम्, which has no clear sense. (७) B reads पूर्वेऽभि. M reads युक्त पूर्वे च. (८) B reads ऽमाचरम्. (९) K reads भद्र. (१०) K reads यजेत्. (११) B reads चेत् समाचरेत्. (१२) B has क्रामिका रञ्जिका तथा. K has लेपिकां क्षेपिकां चैव रञ्जकां रन्धिनीं तथा. (१३) लोहटीं बन्धकारीं च भूतमृत्युविनाशिनीं, a variant in K. (१४) विभूतीं खेचरीं, a variant in K. (१५) दशदूत्यक्रमेण च, a reading in M, which is grammatically inc.