ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
पृष्ठ 20, कुल 91 में से
संदर्भ में पढ़ेंद्वितीयः सर्गः । १७ कान्तिर्येषां तैस्तथोक्तैः । क्वचित्कुत्रचिद्भागे प्रभिन्नो योऽञ्ज- नराशिः कज्जलसमूहस्तेन संनिभैः सदृशैः । क्वचित्सगर्भाणां गर्भवतीनां प्रमदानां स्त्रीणां ये स्तनाः कुचास्तेषां प्रभेव प्र- भा कान्तिर्येषां तैस्तथोक्तैर्घनैर्मेघैर्व्योमाकाशं समन्तत इतस्त- तः समाचितं व्याप्तमित्यर्थः ॥ तृषाकुलैश्चातकपक्षिणां कुलैः प्रयाचितास्तोयभरावलम्बिनः । प्रयान्ति मन्दं बहुधोरवर्षिणो बलाहकाः श्रोत्रमनोहरस्वनाः ॥ ३ ॥ तृषेति ॥ तृषा पिपासा तयाकुलैर्व्याकुलैश्चातकपक्षिणां कुलैः समुदायैः प्रयाचिताः प्रार्थितास्तोयभरेण जलभरेणा- वलम्बन्त इति तथोक्ताः । बह्व्यो धारा यस्यां क्रियायां यथा भवति तथा वर्षन्ति ते तथोक्ताः । श्रोत्रस्य श्रवणस्य मनोहर आह्लादकरः स्वनः शब्दो येषां ते तथोक्ता बलाह- का मेघाः । 'अभ्रं मेघो वारिवाहः स्तनयित्नुर्बलाहकः' इत्य- मरः । मन्दं प्रयान्ति गगने संचरन्तीत्यर्थः ॥ बलाहकाश्चाशनिशब्दमर्दलैः सुरेन्द्रचापं दधतस्तडिद्गुणम् । सुतीक्ष्णधारापतनोग्रसायकै- स्तुदन्ति चेतः प्रसभं प्रवासिनाम् ॥ ४ ॥ बलाहका इति ॥ अशनिशब्दमर्दला अशनिर्वज्रस्तस्य शब्द एव मर्दलो रणवाद्यविशेषो येषां ते तथोक्ताः । तडिद्विद्युदेव गुणो ज्या यस्य तत्तथोक्तम् । 'मौर्वी ज्या १. 'नव.' २. 'वारि.' ३. 'भीषणाः'; 'भूषणाः.' ४. 'सायकाः.' ५. 'ध्वनिभिः.'