सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
by भगवान् सङ्कर्षण / महर्षि नारद
Page 449 of 837
Read in context३९० सात्वतसंहिता कृतेनानेन विधिना पीडितानां सदैव हि। रक्षणं रसधातुनां शश्वदेव हि जायते॥ २९०॥ ततः प्रलिप्ते भूभागे कुशाजिनसमावृते। कृतन्यासः स्वयं तिष्ठेद् रक्ष्यागारे सहायवान् ॥ २९१॥ पयोभुग् वा निराहारो ध्यानजप्यपरायणः। आदिमध्यावसानस्थं रात्र्यंशेषु समाचरेत्॥ २९२॥ पूजनं हवनं सम्यग् बलिदानसमन्वितम्। सक्तुना सोदकेनैव मधुनाऽथ घृतेन च॥ २९३॥ पूर्वभागे तु यामिन्यामतीते विहितो बलिः। यवगोधूमशाल्युत्थचूर्णेन सगुडाम्भसा॥ २९४॥ त्रिप्रकाराणि संवर्त्य मोदकानि तु पाणिना। वृत्तदीपशिखाकारैस्तुल्यान्याग्रफलस्य च॥ २९५॥ क्षीरयुक्तैरपक्वैस्तैर्मध्यरात्र्यां बलिं हरेत्। सुमर्दितैस्तिलैः कृष्णैर्बीजैः पाकविवर्जितैः॥ २९६॥ तण्डुलै रजनीचूर्णैर्दध्ना दूर्वाङ्कुरैः फलैः। व्यतीतायां तु शर्वर्यां बलिं रक्षागृहाद् बहिः॥ २९७॥ मार्गेकदेशे निक्षिप्य चत्वरे वापि शोधिते। अथाभिमन्त्र्य बीजानि सप्तधान्यानि मल्लके॥ २९८॥ दद्याद् द्विजेन्द्रकन्यायै तत्सकाशात् समाहरेत्। तिस्रः प्रसृतयः पात्र एकस्मिन् सप्त चापरे॥ २९९॥ एकादश ततोऽन्यस्मिन् घटे पात्रत्रयं ततः। अस्त्रसम्पुटितेनैव सिंहबीजेन मन्त्रवित्॥ ३००॥ शतमष्टाधिकं चैव द्विगुणं त्रिगुणं क्रमात्। तेन तोयघटानां तु उद्धृत्योद्धृत्य निक्षिपेत्॥ ३०१॥ एकं स्थले जले चान्ये प्रातर्मध्यं दिनक्षये। आ समाप्तेरिदं कुर्यात् सामान्यं भूततर्पणम्॥ ३०२॥ ततोऽपरस्मिन्नहनि इष्ट्वा मन्त्रं तु मण्डले। हुत्वा यथाविधानेन दत्वा पूर्णाहुतिं लिखेत्॥ ३०३॥ सितेन शालिचूर्णेन अष्टाश्रं मण्डलं लिखेत्। तन्मध्ये शङ्खमध्यस्थं कमलं लिख्य षड्दलम् ॥ ३०४॥ दद्याद् घटाष्टकं बाह्ये प्राग्वद् दीपसमन्वितम्।