सिद्धान्तशिरोमणि: गणिताध्याय (भास्कराचार्य - ग्रहगणित, मध्यमाधिकार व स्पष्टाधिकार सटीक)

सिद्धान्तशिरोमणि: गणिताध्याय (भास्कराचार्य - ग्रहगणित, मध्यमाधिकार व स्पष्टाधिकार सटीक)
Siddhanta Shiromani Ganitadhyaya of Bhaskaracharya with Commentary
भास्कराचार्य द्वितीय द्वारा
DevanagariHindipublished573 पृष्ठ
पृष्ठ 4, कुल 573 में से
संदर्भ में पढ़ेंपृष्ठ 4
समर्पणम् श्लो. 1. त्वत्पादाब्जदिदृक्षया 'हिमगिरिप्रस्यन्दिगङ्गाझरी सङ्काशप्रवहज्जनावलिरहोरात्रं च जोघुष्यते । गोविन्देति विमुक्तकण्ठमसकृत् श्री वेङ्कटेशप्रभो ! त्वत्पादाब्जसमर्पिता कृतिरियं भक्त्या प्रसूनायताम् ॥ श्लो. 2. यः सिद्धान्तशिरोमणि र्विजयते श्रीभास्कराचार्यस्य सः व्याख्यातो बहुभिस्तथाऽपि मयका व्याख्यायतेऽसौ पुनः । व्याख्येयं मणिदीधितिर्विरचिता यादृक्श्रमेण प्रभो ! जानीषे भगवन् ! त्वमेव तमिमां त्वत्पादयो र्पये ॥ श्लो. 3. पुराचार्यैः प्रोक्तं यदपि च नवीनै स्तदखिलम् विचार्यैव व्याख्या व्यरचि भगवन् ! भास्करकृतेः । यदीयं व्याख्या मे सहृदयबुधाह्लादनकरी तदाऽहं धन्यः स्यामियमपि कृषिर्मे सफलति ॥