भारतकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 17, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 17
सुभाषितरत्नभाण्डागारम्[ १ प्रकरणम्

समुद्रा ग्रहगणमनुजा दैत्यगन्धर्वनागाः। द्वीपा नक्षत्र-
ताराविबवसुमनयो व्योम भूरश्विनौ च सलीना यस्य सर्वे
वपुषि स भगवान् पातु वो विश्वरूपः ॥ १९ ॥


गणेशः

वन्दे वेन्दारुमन्दार$^{१}$मिन्दुभूषणनन्दनम् । अमन्दान-
न्दसन्दोहबन्धुरं$^{२}$ सिन्धुराननम्$^{३}$ ॥ १ ॥ आलम्बे जगदा-
लम्बे$^{४}$ हेरम्बचरणाम्बुजे । शुष्यन्ति यद्रजःस्पर्शात्सद्यः
प्रत्यूहवार्धयः$^{५}$ ॥ २ ॥ गजाननाय महसे प्रत्यूहतिमिर-
च्छिदे । अपारकरुणापूरतरङ्गितदृशे नमः ॥ ३ ॥ नमस्त-
स्मै गणेशाय यत्कण्ठः पुष्करायते$^{६}$ । मदामोघघनध्वानो$^{७}$
नीलकण्ठस्य ताण्डवे ॥ ४ ॥ अगजाननपद्मार्कं$^{८}$ गजाननम-
हर्निशम् । अनेकदं तं भक्तानामेकदन्तमुपास्महे$^{९}$ ॥ ५ ॥
चलत्कर्णानिलोद्भूतसिन्दूरारुणिताम्बरः । जयत्यकालेऽपि
सृजन्सन्ध्यामिव गजाननः ॥ ६ ॥ एकदन्तद्युतिसितः शम्भोः
सूनुः श्रियेऽस्तु वः । विद्याकन्द इवोद्भिन्नवाङ्मनो-
हरः ॥ ७ ॥ अभिप्रेतार्थसिद्धयर्थं पूजितो यः सुरासुरैः ।
सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः ॥ ८ ॥ दुरितस-
मूहबलाहकपटलिसंहरणपवमानम् । शिवयोरङ्गाभरणं वन्दे
कचिद्गजाननं तेजः ॥ ९ ॥ अविरलविगलन्मदजलकपोल-
पालिनीलिनमधुपकुलः । उद्भिन्ननवश्मश्रुरणिरिव द्विपमुखो
जयति ॥ १० ॥ एकरद द्वैमातुर निस्त्रिगुण चतुर्भुजोऽपि
पञ्चकर$^{१०}$ । जय षण्मुखनुत सचन्द्रगन्धमदौघतनुतनय$^{११}$
॥ ११ ॥ मङ्गलकलशद्वयमयकुम्भमदम्भेन भजत गजवद-
नम् । यद्दानतोयतरलैस्तिलतुलनालम्बि रोलम्बैः ॥ १२ ॥
शिवयोः सुधाहारिद्रादीप्तिमतः सारभुजगत्यित्रोः । त्रिभुवन-
विघ्नध्वंसी करिकल्पः कश्चिदरुणिमा जयति ॥ १३ ॥
युगपत्स्वगण्डचुम्बनलोलौ$^{१२}$ पितरौ निरीक्ष्य हेरम्बः । तन्मु-
खमेलनकुतुकी स्वाननमपनीय परिहसन्नपायात् ॥ १४ ॥
हस्तपङ्कजनिविष्टमोदकव्याजसञ्च्रदशेषपुमर्थम् । नौमि
किंचिदवधूतितशुण्डादण्डकुण्डलितमण्डितगण्डम् ॥ १५ ॥
अन्तरायतिमिरोपशान्तये शान्तपावनमचिन्त्यवैभवम् । त-
न्नरं$^{१३}$ वपुषि कुञ्जरं मुखे मन्महे किमपि तुन्दिलं महः ॥ १६ ॥
अशेषविघ्नप्रतिषेधदक्षमन्त्राक्षतानामिव दिक्मुखेषु । विक्षेप-
लीला करशीकराणां करोतु वः प्रीतिमभाननस्य ॥ १७ ॥
दन्ताग्रनिर्भिन्नहिमाचलोर्वीरन्ध्रोत्थिताहीन्द्रमणिप्रमौघे$^{१}$ ।
नागाननं स्तम्भधिया कपोलौ घर्षन्पितुर्भया हसितः पुनातु$^{२}$
॥ १८ ॥ दन्ताञ्चलेन धरणीतलमुन्नमय्य पातालकेलिषु
धुतादिवराहलीलम् । उल्लाघनोत्फणफणाधरगीयमानक्रीडा-
वदानमभिरराजमुखं नमामः ॥ १९ ॥ आनन्दमात्रमकरन्द-
मनन्तगन्धं योगीन्द्रसुस्थिरमिलिन्दमपास्तबन्धम् । वेदान्त-
सूर्यकिरणैकविकासशीलं हेरम्बपादशरदम्बुजमानतोऽस्मि
॥ २० ॥ गण्डस्थलीगलदमन्दमदप्रवाहमाह्याङ्गिरेफमधुरस्वर-
दत्तकर्णः । हर्षादिवालसनिमीलितनेत्रयुग्मो विघ्नच्छिदे
भवतु भूतपतिर्गणेशः ॥ २१ ॥ लक्ष्मीं तनोतु सुतरा-
मितरानपेक्षमङ्घिद्वयं निगमशाखिशिखाप्रवालम् । हैरम्बम-
म्बुरुहडम्बरचौर्यनिघ्नं$^{३}$ विघ्नाद्रिभेदशतधार$^{४}$धुरंधरं नः ॥ २२ ॥
पायाद्गजेन्द्रवदनः स इमां त्रिलोकीं यस्योद्गतेन गगने महता
करेण । मूलावलग्नसितदन्तबिसार्ङ्कुरेण नालायितं तपनबिम्ब-
सरोरुहस्य ॥ २३ ॥ अविरलमदधाराधौतकुम्भः शरण्यः फणि-
वरवृतगात्रः सिद्धसाध्यादिवन्द्यः । त्रिभुवनजनविघ्नध्वान्त-
विध्वंसदक्षो वितरतु गजवक्त्रः सततं मङ्गलं वः ॥ २४ ॥
जेतुं यस्त्रिपुरं हरेण हरिणा व्याजाद्वलिं बघ्नता स्रष्टुं वारि-
भवोद्भवेन भुवनं शेषेण धर्तुं धराम् । पार्वत्या महिषासुर-
प्रमथने सिद्धाधिपैः सिद्धये ध्यातः पञ्चशरेण विश्वजितये
पायात्स नागाननः ॥ २५ ॥ विध्वध्वान्तनिवारणैकतरणि-
र्विघ्नाटवीहव्यवाड्डिघ्न्यालकुलाभिमानगरुडो$^{५}$ विघ्नेभपञ्चा-
ननः । विघ्नोत्तुङ्गगिरिप्रभेदनपविर्विघ्नाम्बुधौ वाडवो विघ्ना-
घौघघनप्रचण्डपवनो विघ्नेश्वरः पातु वः ॥ २६ ॥ उच्चैर्ब्र-
ह्माण्डखण्डद्वितयसहचरं कुम्भयुग्मं दधानः प्रेङ्खच्छृंगारिप-
क्षेप्रैतिभटविकटश्रोत्रतालाभिरामः$^{६}$ । देवः शभोरपत्यं भुजग-
पतितनुस्पर्धिवर्धिष्णुहस्तँस्त्रैलोक्याश्चर्यमूर्तिः$^{७}$ स जयति
जगतामीश्वरः कुञ्जरास्यः ॥ २७ ॥ दोर्योतद्दन्तखण्डः
सकलसुरगणाडम्बरेषु प्रचण्डः सिन्दूराकीर्णगण्डः प्रक-
टितविलसच्चारुचान्द्रीवखण्डः$^{८}$ । गण्डस्यान्तर्तैघेण्डः$^{९}$ खरहर-
तनयः कुण्डलीभूतशुण्डो$^{१०}$ विन्नानां कालदण्डः स भवतु
भवतां भूतये वक्रतुण्डः ॥ २८ ॥ विघ्नेशो वः स पाया-
द्विहतिषु जलधीन्पुष्कराग्रेण पीत्वा यस्मिंश्चुदृत्य तोयं व-
मति तदखिलं दृश्यते व्योम्नि देवैः । क्वाप्यम्भः क्वापि
विष्णुः क्वचन कमलभूः क्वाप्यनन्तः क्वचिच्छ्रीः क्वाप्यौर्वः$^{११}$


पादटिप्पण्यः (Left Footnotes):
१ भक्तजनकल्पवृक्षम् २ सुन्दरम् ३ गजाननम् ४ जगदाधारभूते ५ विघ्नसमुदा ६ मृदङ्गवदाचरति ७ निबिडध्वनि ८ पार्वती. ९ मोक्षभानेनवस्तुदातारम् १० गणेशम् ११ पार्वती गङ्गारूपमातृद्वयवत्वादित्यर्थ १२ शुण्डामदाय पञ्चकरत्वमित्यर्थ १३ अष्टमूर्तिर्महादेव १४ अमरै १५ चूर्णम् १६ हस्तितुल्य १७ कुम्भौ १८ विघ्न

पादटिप्पण्यः (Right Footnotes):
१ दन्ताग्रेण. २ हर्षितं ३ अधीनम् ४ वज्रम् ५ मङ्गणा. ६ मदेनेन. ७ अग्नि ८ तुल्यम् ९ आधुन्वन् १० गरुड ११ प्रतिस्पर्धी १२ शुण्डादण्ड. १३ अमरः १४ शुण्डाग्रेण १५ शेष १६ वाडवः.