BharatKosha
Back to the archive

स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)

Svapnavasavadattam of Bhasa with Hindi Commentary

by महाकवि भास / पं. विश्वनाथ शास्त्री

DevanagariSanskritpublished204 pages
Page 93Permalink

३६ उपोद्घातः तास्वेव सम्प्रति विरूढतृणाङ्कुरासु बीजाञ्जलिः पतति कीटमुखावलीढः ॥” इति। चारुदत्तस्य तृतीयाङ्के— “मार्जारः प्लवने वृकोऽपसरणे श्येनो गृहालोकने निद्रा सुप्तमनुष्यवीर्यतुलने संसर्पणे पन्नगः । माया वर्णशरीरभेदकरणे वा(ग्) देशभाषान्तरे दीपो रात्रिषु सङ्कटे च तिमिरं वायुः स्थले नौर्र्जले ॥” इति। मृच्छकटिकस्य तु “मार्जारः क्रमणे मृगः प्रसरणे श्येनो गृहालुञ्चने सुप्तासुप्तमनुष्यवीर्यतुलने श्वा सर्पणे पन्नगः । माया रूपशरीरवेषरचने वाग् देशभाषान्तरे दीपो रात्रिषु सङ्कटेषु डुडुमो वाजी स्थले नौर्जले ॥” इति। चारुदत्तस्य चतुर्थाङ्के— “विषादस्रस्तसर्वाङ्गी सम्भ्रमोत्फुल्ललोचना । मृगीव शरविद्धाङ्गी कम्पसे चानुकम्पसे ॥” इति। मृच्छकटिकस्य तु— “विषादस्रस्तसर्वाङ्गी संभ्रमभ्रान्तलोचना । नीयमाना भुजिष्यात्वं कम्पसे नानुकम्पसे ॥” इति। चारुदत्तनाटके “किण्णुखु अज्ज पच्चूस एव्व गेहादो णिक्खन्तस्स बुभु- क्खाए पुक्खरपत्तपडिदजळबिन्दू विअ चळचळाअन्ति विअ मे अक्खीणि । (परिक्रम्य) जाव गेहं गच्छिअ जाणामि किण्णुखु संविधा विहिदा ण वेत्ति । एदं अह्माणं गेहं । जाव पविसामि” इति सूत्रधारवाक्यानि। एतदर्थकानि मृच्छकटिके त्येतानि “............. चिरसज्झिदोवासणेण सुक्खपोक्खरणाळाइं बिअ मे बुभु-

Page 94Permalink

उपोद्घातः ३७ क्खाए मिलाणाईं अङ्गाइं । ता जाव गेहं गदुअ आणामि अत्थि किं पि कुटु- म्बिणीए उववादिअं ण वेत्ति । (परिक्रम्यावलोक्य च) एदं तं अह्माणं गेहं, ता प- विसामि ।” चारुदत्तनाटकस्य द्वितीयाङ्कादौ वाक्यानि — “गणिका— तदो तदो। चेटी — अझहे ण किञ्चि मए भणिदं । किं तदो तदो त्ति । गणिका — हज्जे! किं मए मन्तिदं ” एतदर्थकानि मृच्छकटिकस्य तत्र वाक्यानि — वसन्तसेना — हज्जे! तदो तदो । चेटी — अज्जुए! ण किं पि मन्तेसि । किं तदो तदो । वसन्तसेना — किं मए भणिदं । चेटी — तदो तदो त्ति ।” चारुदत्तनाटकस्य तृतीयाङ्के वाक्यानि — “चारुदत्तः — वयस्य! वीणा नामासमुद्रोत्थितं रत्नम् । कुतः” “विदूषकः — कामं पसंसेदु भवं । मम खु दाव गाअन्तो मणुस्सो इत्थि- आ वि पठन्ती उभअं आदरं ण देदि । गाअन्तो दाव मणुस्सो रत्तसुमणावेष्टिदो विअ पुरोहिदो दिढं ण सोभइ । इत्थिआ वि पठन्ती छिण्णणासा विअ धेणुआ अदिविरूवा होइ ।” मृच्छकटिके त्वेतानि — “चारुदत्तः — अहो अहो साधु साधु रेभिलेन गीतम् । वीणा हि नामा- समुद्रोत्थितं रत्नम् । कुतः ”

Page 95Permalink

३८ उपोद्धातः "विदूषकः- मम दाव दुवेहिं जेव्व हस्सं जाअदि इत्थिआए सक्कअं पठन्तीए मणुस्सेण अ काअलिं गाअन्तेण । इत्थिआ दाव सक्कअं पठन्ती दि- ण्णणवणस्सा विअ गिट्टी अहिअं सुसुआअदि । मणुस्सो वि काअलिं गाअन्तो सुक्खसुमणोदामवेढिदो वुड्ढपुरोहिदो विअ मन्तं जवन्तो दिढं मे ण रोआदि ।" चारुदत्तनाटकस्य चतुर्थाङ्के वाक्यं - "सज्जलकः - मदनिके! किं न पर्याप्तं, द्वितीयमप्यनार्यं करिष्यामि । न खल्वत्र शस्त्रेण कश्चित् परिक्षतो व्यापादितो वा ।" एतदर्थकं मृच्छकटिकस्य वाक्यं - "शर्विलकः - मदनिके! भीते सुप्ते न शर्विलकः प्रहरति । तन्मया न कश्चिद् व्यापादितो नापि परिक्षतः ।" चारुदत्तचतुर्थाङ्के वाक्यान्तरं - "सज्जलकः - आर्यचारुदत्तेनास्मि प्रेषितः, यस्तावदलङ्कारो मम हस्ते निक्षिप्तः, स त्वयं भोगमलिनतया गृहस्यासान्निध्यात् कौटुम्बिकानां दुरारक्षः । तद् गृह्यतामिति ।" एतदर्थकं मृच्छकटिके वाक्यं - "शर्विलकः - "सार्थवाहस्त्वां विज्ञापयति - जर्जरत्वाद् गृहस्य दूरक्ष- मिदं भाण्डम् । तद् गृह्यतामिति ।" एवमन्यान्यपि भूयिष्ठानि वाक्यानि श्लोकाश्च मृच्छकटिके चारु- दत्तीयसंवादीनि दृश्यन्ते । इतिवृत्तं च द्वयोश्चारुदत्तचरितमेव । तेनैवं मन्त- व्यं-तयोरन्यतरदन्यतरस्याधार इति । तत्रापि चारुदत्तनाटकमेव मृच्छकटिक- स्य मूलमिति न्याय्यं, मृच्छकटिकेऽर्वाचीनकाव्याद्दतस्य प्रस्तावनायां कविका- व्यनामनिर्देशस्य दर्शनेन तस्य तन्निर्देशरहितचारुदत्तापेक्षयार्वाचीनत्वौचित्यात् ।

चतुर्थ अङ्क: प्रमदवन में उदयन-विदूषक संवाद

Page 96Permalink

उपोद्घातः ३९ किञ्च, चारुदत्तनाटकादृष्टा अपि मनोहराः केऽपि ग्रन्थसन्दर्भा मृच्छकटिके सन्ति । तेन लघुग्रन्थरूपतया स्थितं चारुदत्तनाटकम् आस्वाद्यतातिशयाय कैश्चित् संस्कारैरुपेतं कृत्वा विस्तार्य च मृच्छकटिकसंज्ञया शूद्रेकेन ख्यापितमिति युक्तमूहिनुम् । एवञ्च मृच्छकटिकस्य चारुदत्तनाटकप्रायतत्वात् तत्र सचेतसां चारुदत्तवदतिपुरातनत्वावभास उपपद्यते, तत्सङ्कलनमात्रकर्त्तरि च शूद्रेके तन्मू- ल्‍लकवित्वभ्रमादतिप्राचीनत्वभ्रमः । काममयं कालिदासतः प्राचीन इत्यत्र प्रमा- णाभावः, आलंङ्कारिकवामनात् तु प्राचीन एवासौ । तदीयायां काव्यालङ्कार- सूत्रवृत्तौ “शूद्रकादिरचितेषु प्रबन्धेष्वस्य (श्लेषाख्यगुणस्य) भूयान् प्रपञ्चो दृश्यते” इति कथनात् । तदेवं भासस्य कवित्ववैभवं कालिदासशूद्रकाद्युपजीव्यमासी- दिति फलितम् ॥ अत्र नाटकचक्रे ततइतः सन्ति केचित् परिमिताः पाणिनीयादृष्टा आ- प्रयोगविशेषाः । लङ्कारिकाहृद्याश्च प्रयोगाः— १. “अपरिचयात्तु न श्लिष्यते मे मनसि ।” (स्वप्न. अङ्क. १) २. “आपृच्छामि भवन्तौ ।” (स्वप्न. अङ्क. १) ३. “साधुजनहस्तंगतैषा नोत्कण्ठिष्यति ।” (स्वप्न. अङ्क. १) ४. “हस्त्यश्वरथपदातीनि विजयाङ्गानि ।” (प्रतिज्ञा. अङ्क. ४) ५. “दैवप्रामाण्याद् भ्रश्यते वर्धते वा ।” (प्रतिज्ञा. अङ्क. १) ६. “यावदहमुच्छ्वसामि ।” (प्रतिज्ञा. अङ्क. १) ७. “कथमगणितपूर्वं द्रक्ष्यते........श्रोष्यते ।” (प्रतिज्ञा. अङ्क. १) ८. “प्रथममभिकाङ्क्षे हि मनसा ।” (प्रतिज्ञा. अङ्क. २) ९. “जित इति पुनरेनं रुष्यते वासुभद्रः ।” (पञ्च. अङ्क. २) १०. “स्त्रीगतां पृच्छसे कथाम् ।” (पञ्च. अङ्क. २)

Page 97Permalink

४० उपॊद्घातः

११. “वीजन्तो मलयानििला अपि ।” (अभिषेक. अङ्क. ३) १२. “सीतां समाश्वासितुम् ।” (अभिषेक. अङ्क. ७) १३. “ऋज्वायतां च मुखतोरणलोलमालाम् ।” (स्वप्न. अङ्क. ५) इत्येवञ्जातीयकाः। अत्र स्थूलाक्षरेषु पदेषु पदव्यत्ययः, 'हस्त्यश्वरथपदातीनी'त्यत्रा- नैकवद्भावः उच्च्वसामीत्यत्र शब्लोपः, 'वीजन्तः' 'समाश्वासितुमि'त्यनयोर्णिज्- लोपः, 'ऋज्वायतां चे'त्यत्र पादपूरणार्थश्चशब्दश्च कृतः । किन्त्वत्र समाधान- मपि पाणिनीयानां सुगमम् । द्वितीये प्रयोगे आ इत्यस्यानुपसर्गतायाः, तृतीये आत्मनेपदानित्यतायाः, चतुर्थे हस्त्यश्वरथसहिताः पदातयो येषु तानीति बहुव्रीहेः, षष्ठे गणकार्यानित्यतायाः, एकादशे पचाद्यजन्ताद् वीजशब्दादाचाराक्विपः, द्वादशे समाश्वासवच्छब्दाण्णिचो बाहुलकलोपस्य, त्रयोदशे चशब्दस्य तुशब्दार्थकतायाः, अन्येषु यथाकथञ्चित् कर्मवद्भावस्य चाश्रयणेनोपपत्तेः । वस्तुतस्तु नन्दकालि- कचाणक्यप्राचीनस्यास्मन्महाकवेर्नन्दसहजीविर्षोपाध्यायशिष्यपाणिनिशास- नानुसरणमसम्भावितमिति एवंविधः प्रयोगस्तत्रभवतो वश्यवाङ्मयस्य महाकवेर्न दूषणम्, अपितु पुरातनतरतया भूषणमिति विभावनीयम् । अव्युत्पन्नलेखकहस्त- परम्पराप्रमादात्पतिता वा प्रचाररहितेऽस्मिन् नाटकचक्रेऽपपाठा एषु प्रयोगेषु कति- पये स्युः । एवं प्रतिज्ञानाटिकायां भामहोद्भावितः पूर्वोक्तो न्यायविरोधोऽपि सुप- रिहरः । चारशून्यतया सचिवोपेक्षया वा वत्सराजस्य महामतेः सतो गजच्छ- द्भप्रयोगविषयशत्रूद्यमाज्ञानं, कुद्धैर्बहुभिः शत्रुभिरसहायस्य करगतस्य तस्य हनना- भावः, प्रत्यक्षदृष्टेऽपि कृत्रिमगजे दिवा विशेषाग्रहणम् इत्येतानर्थान् भामहो न्यायवि- रुद्धान् मन्यते । तत्र हि आद्ययोर्न काचिदनुपपत्तिः, चारवतो भक्तिमन्निपुणसचि- वचिन्त्यमानकार्यस्य वृद्धदर्शनस्य च सतोऽपि गजमृगयाव्यसनितयामात्यानुम- तिमप्रतीक्ष्य रभसधाविनो राज्ञः शत्रूद्यमाज्ञानस्य सम्भवाद्, वीरः सावज्ञो मान- वान् वैरी जीवग्राहं गृहीत्वा स्वस्वामिपादमूले यन्त्रीयते, तदेव तद्वधापेक्षया स्वा- मिपरितोषकरमिति, करगतस्य बहुप्रहारनिश्चेष्टस्य हननमतिशुद्रकर्मेति च विचा- रणया निपुणोदारभृत्यसाधारणाया परामात्येन सालङ्कायनेन कृतस्य स्वयोधोप-

Page 98Permalink

उपोद्घातः ४१ क्रान्तवत्सराजवधप्रतिषेधस्य न्याय्यत्वाच्च। अत एवारुचेर्मन्ये, भामहाचार्यस्तु- तीयं न्यायविरोधं कृत्रिमगजगतविशेषाज्ञानलक्षणं पर्यन्ते समुद्भावयाम्बभूव। किन्तु सूक्ष्मेक्षिकायमेतदपि दूषणं न लगति। प्रतिज्ञानाटिकायां हि वत्सराजच्छलन- वृत्तान्तं निवेदयन् हंसको नाम वक्ति— “तदो दिउणं विअ अद्धाणं गच्छिअ साळरुक्खच्छाआए सवण्णदट्ठणील- दाए परुब्भासिदेहि असरीरविणिलिखितेहि विअ दन्तजुअळेहि सूइदो धणु- सदमत्तेण विअ दिट्ठो सो दिव्ववारणपडिच्छन्दो”

इति। यत्र स कृत्रिमो नीलहस्ती स्थापितस्तत्र वनोद्देशे सालवृक्षच्छायायास्तथा बाहुल्यमासीद्, यथा तद्देहनैल्यस्याविवेकोऽभवदित्यनेन वाक्येन प्रतीयते। तत् कथं दन्तयुगलानुमेयप्राये तस्मिन् कपटहस्तिनि दिवापि कृत्रिमत्वज्ञापकविशेषप्र- हणस्य सम्भवः। कामम् ‘अनर्धागते सूर्ये’ मध्याह्नासन्नकाले वा वत्सराजस्यायं नीलहस्तिग्रहणसम्भ्रम इति प्रतिज्ञानाटिकातोऽवगमात् सान्द्रायापि वनच्छायाया वासरमध्यालोकप्रभावस्यानभिभवनीयत्वाद् दिवा सालवृक्षच्छायाया न गजगतवि- शेषतिरोधानं भवति, तया गजस्वरूपगतनैल्यस्यावच्छादनोक्तिश्चेयमतिशयोक्ति- मात्रमिति मत्वा भामहेन दूषणं दत्तम्, अस्माभिस्तु सालच्छायाबाहुल्येन दिन- प्रभावाभिभवं सम्भावयद्भिरनानुभवसिद्धवस्तुवृत्तकथनरूपां मत्वा तद् दूषणं समा- हितम्। यथा तूक्तं बृहत्कथाप्रतिबिम्बे कथासरित्सागरे* सान्ध्यतिमिरप्रसरोऽपि तदानीं स्थित इति, तथा कृत्रिमगजगतविशेषाज्ञानं वत्सराजस्य सुतरामेवोपप- न्नम्। किन्त्वियं सान्ध्यतिमिरप्रसरवाचोयुक्तिः प्रतिज्ञानाटिकायां नास्ति। बृहत्कथायां तु एषा सोमदेवभट्टेन दृष्टा स्याद्, यां तन्मूले कथासरित्सागरे स निवेशितवान्। बृहत्कथायां चैषा¶ तत्कर्त्तुस्य भामहदूषणस्य परिहारदार्थ्याय कल्पिता स्याद् इति सर्वमनवद्यम्॥

  • द्वितीयलम्बकस्य चतुर्थतरङ्गेऽष्टादशश्लोकः— “गान्धर्वदत्तचित्तत्वात् सन्ध्याध्वान्तवशाच्च सः। न तं वनगतं राजा मायागजमलक्षयत्॥” इति। ¶ एतां चेद् भामहो न्यज्ञास्यत्, कृत्रिमगजगतविशेषाज्ञानस्य न्यायविरुद्धत्वं नावक्ष्यद् इत्यतोऽपि हेतोर्बृहत्कथा भामहादर्वाचीना वेदितव्या।
Page 99Permalink

४२ उपोद्घातः अस्य भासनाटकचक्रस्य कालिदासकाले निरङ्कुशः प्रचार आसीत् , 'प्रथितयशसां भाससौमिल्लकविपुत्रादीनाम्' इति कालिदासोक्तेः। शूद्रककाले तु [margin: अप्रचारः।] स भृशं विरलोऽभवत्। अत एव मृच्छकटिके शूद्रकस्य चारुदत्तना- टकीयभूयिष्ठवाक्यसङ्कलनसंरम्भोपपत्तिः, तथा परवाक्यसङ्कलननिष्पा- दितस्य मृच्छकटिकस्य प्रचारोपपत्तिश्च। ततः प्रचारः क्रमशॊ हीयमानो गत एव तावदभावमद्यत्वे। तत्र किं कारणं स्यात्। न तावद् गुणविरहः कारणं, कालि- दासादिस्पृहणीयगुणगणपौष्कल्यस्य प्रागुपपादनात्। नापि स्वरसभङ्गसमर्थनीय- पूर्वोक्तकतिपयप्रयोगसंयुक्तत्वं कारणं, वार्त्तिक-महाभाष्यादिसाचिव्यदूराधिरूढ- महिमानि सर्वतो व्याप्तिं गते पाणिनीये शब्दानुशासने, कासुचित् ततइतः प्रसू- त्वरीषु मेधावि-भामहाद्यालङ्कारिकप्रणीतासु शिक्षासु, तदुभयानुसरणनियमप्रण- ये च संस्कृताध्यायिना सर्वतः संजाते प्रादुर्भूतानां कालिदासकृतीनां तथाविध- कतिपयप्रयोगसंयुक्तत्वेऽपि प्रचाराव्याघातात्। नापि ग्रन्थेषु कविनामानिवेशः कारणं, ग्रन्थानिविष्टकविनाम्नामपि रघुवंश-शिशुपालवधादीनां प्रचारदर्शनात्। अतोऽप्रचारे कारणमदृष्टमेव किञ्चित् कल्प्यं, यद्बलाद् आचार्यव्याडिप्रणीतः सङ्ग्रहो गुणाढ्यरचिता बृहत्कथेत्येवमादयो ग्रन्था नामशेषतां प्राप्ताः। एवं चिरप्रनष्टानामतिपुराणानामेषां भासनाटकानां बहूनामयमिदानीं यु- गपदुपलम्भो मृतपुनरुत्थानवत् कस्य नाम जगति न भवेदाश्चर्याय चानन्दाय च। एष हि संस्कृतप्रणयिनां पुरावृत्तविमर्शकानां च महार्घो निधिलाभः। अनेन च प्रनष्टलाभप्रत्ययेन कापि जनिता मे प्रत्याशा—नाटकान्तराण्यपि तस्य जातुचि- दुपलप्सीयेति, नखलु भासनाटकानि परिगणितानि केनचिद् एतावन्तीति। अ- पूर्वभासनाटकबृन्दाभिलेखधन्यं जीर्णतालपत्रसम्पुटं ये चिरादरक्षन्, मह्यं चोपा- कुर्वन्, तेषु 'मणलिकरमठस्वामिषु विशिष्य तज्ज्येष्ठे शङ्करनारायणशर्ममहा- शये कृतज्ञतामनपायिनीं वहामि। स्मरामि च हार्देन कतिपयतदुपमातृकादायकस्य पिषारोटिगोविन्दज्योतिषिकस्य (पुत्तियल्) वासुदेवशर्ममहाशयस्य (तालमण्) कृष्णतन्त्रिमहाशयस्य च।

Page 100Permalink

उपोद्घातः ४३ तदेवमभिनवोपलब्धानां नाटकानां स्वभावः, कर्ता, काल इत्येतत्प्रधाना विचाराः कृताः। पुरावृत्तविशेषाभ्यूहानुकूलं वस्तु तेषु किंकिमस्तीति चिन्तनं सक- निगमनम्। लनाटकव्यालोडनसापेक्षत्वात् सकलनाटकप्रकाशनोत्तरमेव सुकरं सुबोधं चेति कृत्वा स्थापितमायत्यै। उपलब्धे नाटकचक्रसंपुटे स्वप्नवासवदत्तनाटकस्य प्राथम्यान्नाटकान्तरकर्त्रादिनिर्णयानुकूलत्वाच्च तदिदा- नीमादितः प्रकाशयामः। क्रमेण तु प्रतिज्ञायौगन्धरायणादीनि प्रकाशयि- ष्यामः ॥ अनन्तशयनम् } ११-४-१९१२. } त. गणपतिशास्त्री.

Page 101Permalink

इस पृष्ठ पर कोई पाठ (टेक्स्ट) मौजूद नहीं है। यह पृष्ठ खाली है।

Page 102Permalink

ERRATA TO INTRODUCTION. Page. Line. Incorrect. Correct. xix 14 ज्ञा मा xxii 17 9 10 ” 23 second third ” 24 fifth fourth ” 28 very same 2nd ” ” is of 5th Adhikarana is २० १६ नव दश ” २१ पञ्चमा चतुर्था ” ” द्वि तृ

Page 103Permalink

इस पृष्ठ पर कोई पठनीय पाठ (Text) उपलब्ध नहीं है। यह पृष्ठ रिक्त (Blank) है।

Page 104Permalink

निवेदना । — अत्रास्य स्वप्नवासवदत्तम् इति संज्ञा राजशेखरसुभाषितानुसाराद् व्यवहृता । स्वप्नवासवदत्तेति स्वप्ननाटकमिति च कामं व्यवहर्तुं शक्यम् । तत्र मणालिक्करमठीया स्वप्नवासवदत्तमातृका क. चिह्निता । पण्डितानन्ताचा- र्यप्रहिता ख. चिह्निता । कृष्णतन्त्रस्वामिका ग. संज्ञा । आद्ययोः पाठभेदाः प्रतिपृष्ठमधस्तान्निवेशिताः । तृतीयस्यास्तु ते पुस्तकान्ते पृथङ् निवेशिताः । मातृका- यामदृष्टानाम्पेक्षिततया प्रतिभातानामक्षराणां चापरेखान्तर्निवेशनम्, असमञ्जसा- नामक्षराणां पार्श्वतः प्रश्नचिह्नदानपूर्वं समञ्जसाभिमतान्यक्षराणि निवेश्य तेषामुभ- येषां चापरेखान्तर्निवेशनं, समञ्जसाक्षराप्रतिभानेऽसमञ्जसाक्षरमात्रस्य सप्रश्नचिह्न- स्य चापरेखान्तर्न्यसनमित्येषा संशोधनरीतिः । कस्याञ्चिदपि मातृकायां प्राकृत- स्य संस्कृतच्छायाया अदर्शनात् सा प्रायः पर्यालोच्य लिखिता । तत्तत्पृष्ठेषु यथापेक्षं टिप्पण्यप्यधस्ताद् दत्ता । ये ग. ग्रन्थे पाठभेदाः, ये च क. ग्रन्थे त्रुटि- तांशाः ख. ग्रन्थादुपलब्धाः, ते पुस्तकस्यान्ते परिशिष्टतया योजिताः ॥ त. गणपतिशास्त्री.

Page 105Permalink

This page is blank and contains no text to transcribe.

Page 106Permalink

कथावस्तुसंक्षेपः —————— “पद्मावतीं नाम दर्शकस्य राज्ञो भगिनीं वत्सराज उदयनः परिणेष्यति, ततः शत्रुहृतं राज्यं समग्रं पुनरधिगमिष्यति” इति सिद्धादेशिकवाक्यविश्वासात् पद्मावतीपरिणयशीघ्रघटनाय वत्सराजमन्त्री यौगन्धरायणो वासवदत्तां नाम तत्पूर्वमहिषीमवन्तिराजमहासेनदुहितरं लावाणकग्रामदाहेन दग्धामपदिश्य ब्राह्म- णव्यञ्जनः प्रोषितभर्तृकस्वभगिनीव्यपदेशेन पद्मावत्या हस्ते न्यासं कृत्वा गतः । तां चात्यन्तिकवासवदत्ताविरहप्रतीत्या वत्सराजः सशोकोऽपि दर्शकेन दत्तां म- हिषीत्वेन प्रतिजग्राह । एकदा पर्यङ्कनिद्रालोर्वत्सराजस्य पार्श्वे पद्मावतीबुद्ध्या संविष्टा वासवदत्ता स्वात्मानमभिसम्बुध्योत्स्वप्नायमानमुत्कण्ठया वत्सराजं स्व- प्रवचनानुगुणं किमप्यभिभाष्य संस्पृश्य च तत्प्रबोधभिया शय्यागृहाद् बहिरधा- वद्, झटिति च प्रबुध्यानुधावतो वत्सराजाद् द्वारपक्षाभिघातक्षणप्रतिरुद्धगतेर्नि- लिल्ये। अथ द्विगुणरणकदूनो वत्सराजो वासवदत्तावैवाहिकचित्रफलके वा- सवदत्ताजनन्या स्वात्मविनोदाय जामातृवात्सल्याद् यदृच्छया प्रहिते तां पद्माव- त्या सह पश्यन् “अस्ति चित्रदृष्टवासवदत्तारूपसंवादिनी काचिदावन्तिका नाम मदन्तःपुरे, सा हि ब्राह्मणेन केनचित् स्वभगिनीति रक्षणार्थं मयि न्यस्ता” इति तया बोधितोऽभवत् । ततस्तया तामानीताम् उदयनः प्रत्यभिज्ञाय यौगन्धराय- णेन च कपटब्राह्मणेन न्यासप्रत्यर्पणार्थिना तत्कालसन्निहितेन समागम्य विदितस- फलात्ममन्त्रितन्त्रमुदितस्ताभ्यां पत्नीभ्यां सहितः सौख्यानि निर्विवेशेति ॥

Page 107Permalink

पात्राणि । पुरुषाः— राजा = उदयननामा वत्सराजः । यौगन्धरायणः = वत्सराजमन्त्री । विदूषकः = वसन्तकनामा वत्सराजनर्मसचिवः । ब्रह्मचारी = लावणकेऽधीती । काञ्चुकीयः = राजकुले भृत्यः । संभषकः } भटः } = पद्मावतीभृत्यौ । स्त्रियः— वासवदत्ता = उदयनस्य प्रथममहिषी । इयमावन्तिका च । पद्मावती = मगधराजस्य दर्शकनाम्नो भगिनी । तापसी चेटी = पद्मावत्याः किङ्करी । मधुकरिका } पद्मिनिका } = पद्मावत्याः सख्यौ चेट्यौ वा । धात्री = पद्मावत्या उपमाता । विजया = वत्सराजगृहे प्रतिहारी । धात्री = वासवदत्ताया उपमाता ।

Page 108Permalink

॥ श्रीः ॥ श्रीगणेशाय नमः । महाकविश्रीभासप्रणीतं स्वप्नवासवदत्तम् । (नान्द्यन्ते ततः प्रविशति सूत्रधारः) सूत्रधारः — *उदयनवेन्दुसवर्णोवासवदत्ताबलो बलस्य त्वाम् । पद्मावतीर्णपूर्णौ वसन्तकम्रौ भुजौ पाताम् ॥ १ ॥ एवमार्यमिश्रान् विज्ञापयामि । अये किन्नुखलु मयि विज्ञा- पनव्यग्रे शब्द इव श्रूयते । अङ्ग ! पश्यामि । (नेपथ्ये) (क) उस्सरह उस्सरह अय्या ! उस्सरह । सूत्रधारः — भवतु, विज्ञातम् । (क) उत्सरतोत्सरतार्याः ! उत्सरत ।

  • उदयनवेन्दुसवर्णौ उदयकालनूतनचन्द्रतुल्यवर्णौ दत्तमासवं मद्यं यस्यै सा आसव- दत्ता । दत्तशब्दपरनिपात आहिताग्न्यादि(२. २. ३७)त्वात्, तथाभूताबला याभ्यां तौ आस- वदत्ताबलो पद्मावतीर्णपूर्णौ लक्ष्म्याविर्भावसमृद्धौ वसन्ते कम्रौ मनोज्ञौ तत्कालोचितशृङ्गारवेष- परिग्रहात्, वसन्ताख्यतालविशेषमनोज्ञौ वा बलस्य बलभद्रस्य भुजौ त्वां पातां रक्षताम् । अत्र मुद्रालङ्कारविधया प्रधानपात्राणाम् उदयन-वासवदत्ता-पद्मावती-वसन्तकानां निर्देशः कृतः ।
Page 109Permalink

२ स्वप्नवासवदत्ते भृत्यैर्मगधराजस्य स्निग्धैः कन्यानुगामिभिः । धृष्टमुत्सार्यते सर्वस्तपोवनगतो जनः ॥ २ ॥ (निष्क्रान्तः) स्थापना । (प्रविश्य) भटौ — (क) उस्सरह उस्सरह अय्या ! उस्सरह । (ततः प्रविशति परिव्राजकवेषो यौगन्धरायणः आवन्तिकावेषधारिणी वासवदत्ता च) यौगन्धरायणः — (कर्णं दत्त्वा) कथमिहाप्युत्सार्यते । कुतः, धीरस्याश्रमसंश्रितस्य वसतःस्तुष्टस्य वन्यैः फलै- र्मानार्हस्य जनस्य वल्कलवतस्त्रासः समुत्पाद्यते । उत्सिक्तो विनयादपेतपुरुषो भाग्यैश्चलैर्विस्मितः कोऽयं भो निभृतं तपोवनमिदं ग्रामीकरोत्याज्ञया ॥ ३ ॥ वासवदत्ता — (ख) अय्य ! को एसो उस्सारेदि । यौगन्धरायणः — योऽधर्मो(द्)दामात्मानमुत्सारयति । वासवदत्ता — (ग) अय्य ! ण हि ५ एव्वं वत्तुकामा, अहं वि णाम ६ उस्सारइदव्वा होमि त्ति । (क) उत्सरतोत्सरतार्याः ! उत्सरत । (ख) आर्य ! क एष उत्सारयति । (ग) आर्य ! न ह्येवं वक्तुकामा, अहमपि नामोत्सारयितव्या भवामीति । १. 'ततः प्रविशतः साधारणौ' ख. पाठः. २. 'साधारणौ — उ' ख. पाठः. ३. 'सो' ग. पाठः. ४. 'त्युत्सुको ॥' ख. पाठः. ५. 'हु' ख. पाठः. ६. 'दाव उ' ख. पाठः.

Page 110Permalink

प्रथमोऽङ्कः । ३ यौगन्धरायणः — भवति! एवमनिर्ज्ञातानि दैवतान्यवधू- यन्ते । वासवदत्ता —(क) अय्य ! तह परिस्समो परिखेदं ण उप्पा- देदि, जह अअं परिभवो । यौगन्धरायणः — भुक्तोज्झित एष विषयो३ऽत्रभवत्या । नात्र चिन्ता कार्या । कुतः, पूर्वं त्वयाप्यभिमतं गतमे(वा?वमा)सी- च्छ्लाघ्यं गमिष्य(ति?सि) पुनर्विजयेन भर्तुः । कालक्रमेण जगतः परिवर्तमाना चक्रारपङ्क्तिरिव गच्छति भाग्यपङ्क्तिः ॥ ४ ॥ भटौ — (ख) उस्सरह उस्सरहं । (ततः प्रविशति काञ्चुकीयः) काञ्चुकीयः — सम्भषक ! नखलु नखलूत्सारणा कार्या । पश्य, परिहरतु भवान्६ नृपापवादं न परुषमाश्रमवासिषु प्रयोव्यम्७ । ˙नगरपरिभवान्८ विमोक्तुमेते वनमभिगम्य मनस्विनो वसन्ति ॥ ५ ॥ (क) आर्य ! तथा परिश्रमः परिखेदं नोत्पादयति, यथायं परिभवः । (ख) उत्सरतोत्सरत । १. 'णः —एं' ख. पाठः. २. 'त्तहं प' ख. पाठः. ३. 'यस्तत्र' ख. पाठः. ४. 'उभौ— उ' ख. पाठः. ५. 'ह अय्या। उस्सरह । त' ख. पाठः. ६. 'वो नृ' क. पाठः. ७. 'ज्य।' क. पाठः. ८. 'द्वि मो' ख. पाठः.

Page 111Permalink

उभौ — (क) अय्य! तह। (निष्क्रान्तौ) यौगन्धरायणः — हन्त सविज्ञानमस्य दर्शनम्। वत्से! उपसर्पावस्तावदेनम्¹। वासवदत्ता — (ख) अय्य! तह। यौगन्धरायणः — (उपसृत्य) भोः! किङ्कृतेयमुत्सारणा। काञ्चुकीयः — भोस्तपस्विन्! यौगन्धरायणः — (आत्मगतम्) तपस्विन्निति गुणवान् खल्व- यमालापः। अपरिचयात्तु न श्लिष्यते‡ मे मनसि। काञ्चुकीयः — भोः! श्रूयताम्। एषा खलु गुरुभिरभिहि- तनामधेयस्यास्माकं महाराजदर्शकस्य भगिनी पद्मावती नाम। सैषा नो महाराजमातरं महादेवीमाश्रमस्थामभिगम्यानुज्ञाता तत्रभवत्या राजगृहमेव यास्यति²। तद् अद्यास्मिन्नाश्रमपदे वासो- ऽभिप्रेतोऽस्याः। तद्भवन्तः, तीर्थोदकानि समिधः कुसुमानि दर्भान् स्वैरं वनादुपनयन्तु तपोधनानाम्। धर्मप्रिया नृपसुता न हि धर्मपीडा- मिच्छेत् तपस्विषु कुलव्रतमेतदस्याः ॥ ६ ॥ (क) आर्य! तथा। (ख) आर्य! तथा। १. 'नम्। (उपगम्य) भोः' ख. पाठः. २. 'ति। अ' क. पाठः. ‡ कर्मवद्भावो बोद्धव्यः।

Page 112Permalink

प्रथमोऽङ्कः । *यौगन्धरायणः — (स्वगतम्) एवम् । एषा सा मगधराज- पुत्री पद्मावती नाम, या पुष्पकभद्रादिभिरादेशिकैरादिष्टा स्वामिनो देवी भविष्यतीति । ततः, प्रद्वेषो बहुमानो वा सङ्कल्पादुपजायते । भर्तृदाराभिलाषित्वादस्यां मे महती स्वता ॥ ७ ॥ वासवदत्ता -- (स्वगतम्) (क) राअदारिअत्ति सुणिअ भइ- णिआसिणेहो वि मे एत्थ सम्पज्जइ । (ततः प्रविशति पद्मावती सपरिवारा चेटी च) चेटी -- (ख) ऐँदु एदु भट्टिदारिआ, इदं अस्समपदं पविसदु । (ततः प्रविशत्युपविष्टा तापसी) तापसी — (ग) साअदं राअदारिआए । वासवदत्ता — (स्वगतम्) (घ) इअं सा राअदारिआ। अभि- जणाणुरूर्वं खु से रूवं । पद्मावती — (ङ) अय्ये ! वन्दामि । तापसी -- (च) चिरं जीव । पविस जादे ! पविस । तवो- वणाणि णाम अदिहिजणस्स सअगेहं । (क) राजदारिकेति श्रुत्वा भगिनिकास्नेहोऽपि मेऽत्र संपद्यते । (ख) एत्वेतु भर्तृदारिका, इदमाश्रमपदं प्रविशतु । (ग) स्वागतं राजदारिकायाः । (घ) इयं सा राजदारिका । अभिजनानुरूपं खल्वस्या रूपम् । (ङ) आर्ये ! वन्दे । (च) चिरं जीव । प्रविश जाते ! प्रविश । तपोवनानि नामातिथिजनस्य स्वगेहम् । १. 'सा रा' ख. पाठः. २. 'त्री या' क. पाठः. ३. 'टी ए' क. पाठः. ४. 'इदो इंदो भ' ख. पाठः. ५. 'ति ता' ख. पाठः. ६. 'सी प' क. पाठः. * इयं यौगन्धरायणोक्तिः समनन्तरवासवदत्तोक्त्युत्तरं पठ्यते ख. पुस्तके ।