भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 202, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 202

दन्तानां राजानो राजदन्ताः ॥ ^Aधर्मादिष्वनियमः * ॥ अर्थधर्मौ । धर्मार्थौ । दम्पती । जम्पती । जायापती । जायाशब्दस्य जम्भावो दम्भावश्च वा निपात्येते ३ । आकृतिगणोऽयम् ४ ॥ द्वन्द्वे घि । २।२।३२ ॥ द्वन्द्वे घिसंज्ञं पूर्वं स्यात् । हरिश्च हरश्च हरिहरौ ॥ अनेकप्राप्ता- वेकत्र नियमोऽनियमः शेषे * ॥ हरिगुरुहराः । हरिहरगुरवः ॥ अजाद्यद- न्तम् । २।२।३३ ॥ इदं द्वन्द्वे पूर्वं स्यात् । ईशकृष्णौ ॥ बहुष्वनियमः । अश्वस्थेन्द्राः । इन्द्राश्वरथाः ॥ घ्यन्तादजाद्यदन्तं विप्रतिषेधेन ॥ इन्द्राग्नी ॥ अल्पाच्तरम् । २।२।३४॥ ५ शिवकेशवौ ॥ ऋतुनक्षत्राणां समाक्षराणामानुपूर्व्येण * ॥ हेमन्तशिशिरवसन्ताः । कृत्ति- कारोहिण्यौ । समाक्षराणां किम् ? ग्रीष्मवसन्तौ ॥ लघ्वक्षरं पूर्वम्* ॥ कुशकाशम् ॥ अभ्यर्हितं च * ॥ तापसपर्वतौ ॥ वर्णानामानुपूर्व्येण * ॥ ब्राह्मणक्षत्रियविट्शूद्राः ॥ भ्रातुर्ज्यायसः* ॥ युधिष्ठिरार्जुनौ ॥ द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् ।२।४।२ ॥ एषां द्वन्द्व एकवत्स्यात् ॥ पाणिपादम् । मार्दङ्गिकपाणविकम् ॥ रथिकाश्वारोहम् ॥ समाहारस्यैकत्वादेकत्वे सिद्धे निय- A धर्मादिषूभयम् * अर्थधर्मौ, धर्मार्थौ, अर्थशब्दौ, शब्दार्थौ, अर्थकामौ, कामार्थौ, वैकारिमतम्, गोज- वाजम्, गोपालधानीपुलासम्, पूलासककरण्डम्, स्थूलपूलासम्, स्थलपूलासम्, उशीरबीजम्, सिद्धास्थम्, चित्रास्वाती, भार्यापती, दम्पती, जम्पती, जायापती, पुत्रपती, पुत्रपशू, केशश्मश्रू, शिरोबीजम्, शिरोजानु, सर्पिर्मधुनी, मधुसर्पिषी, आद्यन्तौ, अन्तादी, गुणवृद्धी, वृद्धिगुणौ । आकृतिगणोऽयं राजदन्तादिः ॥ १ ‘राजदन्तास्तु चत्वारो दशनानां पुरःस्थिताः’ इति त्रिकाण्डशेषः ॥ हैमे तु-‘राजदन्तौ तु मध्यस्थावुपरिश्रेणिकौ क्वचित् ॥’ इत्युपलभ्यते ॥ २ “अल्पाच्तरम्” इति सूत्रभाष्यनिर्दिष्टं ‘धर्मादिषूभयम्’ इति वार्तिकं राजदन्तान्तर्गतसूत्रं मत्वा तदर्थमाह-धर्मादिष्वनियम इति ॥ ३ निपात्यत इति । राजदन्तादिगणे पाठेनेति शेखरकृत् ॥ धर्मादिगणे पाठेनेति दाधिमथाः ॥ ४ अयमिति । राजदन्तादिरित्यर्थ इति शेखरकृत् ॥ धर्मादिरित्यर्थ इति दाधिमथाः ॥ ५ अल्पाच्तरम् । ‘ऐऔच्’ इति सूत्रे निर्देशादेवेत्संज्ञकचकारस्य कुत्वस्थानित्वाभावनिपातनमिव ष्टुत्वनि- मित्त्वाभावनिपातनमप्येतन्निर्देशादेव निश्चीयते । अत एव ‘अच्त्वम्’ ‘अनच्त्वम्’ ‘अकच्स्वरौ’ इत्यादयो भाष्यप्रयोगाः ‘अच्ंसंधिः’ इत्यादयोपि प्रयोगाः ॥ एवं च ‘अक्षु’ ‘एक्षु’ इत्यत्र भाष्यप्रयोगे तु कुत्वं कैश्चित्पण्डितप्रकाण्डैः शोधितमेव भवेदिति दाधिमथानां निश्चयः ॥ ६ ननु समाहारे द्वन्द्वे समाहार- स्यैकत्वादेवैकवद्भावे सिद्धे इदं प्रपञ्चार्थं व्यर्थमिति शङ्कायामाह-नियमार्थमिति । ‘प्राण्यङ्गादीनामेव समाहारः’ इति विपरीतनियमस्तु न ‘संज्ञापरिभाषम्’ इत्यसिद्ध्यापत्तेः ॥ ‘तिष्यपुनर्वस्वोः-’ इति सूत्रे बहुवचनग्रहणात् । तद्धि ‘तिष्यपुनर्वसु’ इति समाहारैकवचनस्य मा भूत् इति कृतम् इति मनोरमाशयश्चिन्त्यः । उक्तविपरीत-- नियमे ‘तिष्यपुनर्वसु’ इत्यत्रैकवद्भावो भवति न वा । भवति चेदिष्ट्यापत्तिरेव । न भवति चेत्, कुतो न भवति प्राण्यङ्गादिष्वप्राणिजातेरप्यन्तर्भावात्प्राप्तेरव्याहतत्वात् ॥ तेन प्राण्यङ्गादीनामितरेतरयोगे द्वन्द्वो नैव भवतीति ॥ एवं च ‘जातिरप्राणिनाम्’ इत्येकवद्भावनियमेन बहुवचनस्यासंभवात् ‘तिष्यपुनर्वस्वोः-’ इति सूत्रे बहुवचनग्रह- णमनर्थकं सत् “सर्वो द्वन्द्वो विभाषयैकवद्भवति” इति परिभाषां ज्ञापयति तद्धटकसर्वशब्दस्य ‘प्राणितूर्यसेनाङ्गद्वन्द्वव्यतिरिक्तपरत्वं च । तथा चोक्तं “विभाषा वृक्ष-” इति सूत्रे भाष्ये-‘तत्तर्हि न वक्त- व्यम्’ इति शङ्कायाम् ‘वक्तव्यं च । किं प्रयोजनम् ? पूर्वत्र नित्यार्थम्, उत्तरत्र व्यभिचारा- र्थम्” इति व्याख्यातं चैतत्प्रदीपे-पूर्वत्रेति । ‘प्राण्यङ्गादीनां समाहार एवं’ इत्येवमर्थमित्यर्थः ॥ उद्योते- व्यभिचारार्थमिति । नित्यैकवद्भावस्य व्यभिचारार्थमित्यर्थः ॥ एवं च ‘जातिरप्राणिनाम्’ इत्येकवद्भावस्य वैकल्पिकत्वाद् बहुवचने तस्य द्विवचनं विधीयत इति तिष्यपुनर्वसू तिष्यपुनर्वसु सिद्धमिति बोध्यम् ॥

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध) · पृष्ठ 202, कुल 835 में से · BharatKosha