वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 204, कुल 835 में से
संदर्भ में पढ़ेंपृषतम् । रुरुपृषताः । कुशकाशम् । कुशकाशाः । व्रीहियवम् । व्रीहियवाः । दधिघृतम् । दधिघृते । गोमहिषम् । गोमहिषाः । शुकवकम् । शुकवकाः । अश्ववडवम् । अश्ववडवौ । पूर्वापरम् । पूर्वापरे । अधरोत्तरम् । अधरोत्तरे ॥ फलसेनावनस्पतिमृगशकुनिक्षुद्रजन्तुधा- न्यतृणानां बहुप्रकृतिरेव द्वन्द्व एकवदिति वाच्यम् * ॥ बदराणि चामलकानि च बद- रामलकम् । जातिरप्राणिनामित्येकवद्भावः । नेह-बदरामलके । रथिकाश्वारोहौ । प्लक्षन्यग्रोधौ । इत्यादि ॥ ²विभाषावृक्षेति सूत्रे येऽप्राणिनस्तेषां ग्रहणं 'जातिरप्राणिनामिति नित्ये प्राप्ते विक- ल्पार्थम् ॥ ³पशुग्रहणं हस्त्यश्वादिषु सेनाङ्गत्वान्नित्ये⁴ प्राप्ते ॥ 'मृगाणां मृगैरेव शकुनीनां तैरेवो- भयत्र द्वन्द्वः । अन्यैस्तु सहेतरेतरयोग एव' इति नियमार्थं मृगशकुनिग्रहंणम्⁵ ॥ एवं ⁶पूर्वापर- मधरोत्तरमित्यपि ॥ अश्ववडवग्रहणं तु पक्षे नपुंसकत्वार्थम् । अन्यथा परत्वात् 'पूर्ववदश्ववडवा- विति स्यात् ॥ विप्रतिषिद्धं चानधिकरणवाचि । २।४।१३ ॥ विरुद्धार्थानामद्रव्यवाचिनां द्वन्द्व एकवद्वा स्यात् ॥ शीतोष्णम् । शीतोष्णे । ⁷वैकल्पिकः समाहारद्वन्द्वः 'चार्थे द्वन्द्वः' इति सूत्रेण प्राप्तः स विरुद्धार्थानां यदि भवति, तर्हि अद्रव्यवाचिनामेवेति नियमार्थमिदम् । तेन द्रव्यवाचिनामितरेतरयोग एव । शीतोष्णे उदके स्तः ॥ ⁸'विप्रतिषिद्धं किम् ? नन्दकपाञ्चजन्यौ । इह पाक्षिकः समाहारद्वन्द्वो भवत्येव ॥ न ^Aदधिपयआदीनि । २।४।१४ ॥ एतानि नैकवत्स्युः । दधिपयसी । इध्माबर्हिषी । निपातनाद्दीर्घः । ऋक्सामे । वाङ्मनसे ॥ अधिकरणैतावत्त्वे च । २।४।१५॥ द्रव्यसंख्यावगमे एकवदेवेति नियमो न स्यात् ॥ दश दन्तोष्ठाः ॥ विभाषा समीपे । २।४।१६॥ अधिकरणैतावत्त्वस्य सामीप्येन परिच्छेदे समाहार एवेत्येवंरूपो नियमो वा स्यात् ॥ A दधिपयसी, सर्पिर्मधुनी, मधुसर्पिषी, ब्रह्मप्रजापती, शिववैश्रवणौ, स्कन्दविशाखौ, परिव्राजककौशिकौ प्रवर्योगपसदौ, शुक्लकृष्णौ, इध्माबर्हिषी, दीक्षातपसी, अध्ययनतपसी, उलूखलमुसले, आद्यवसाने, श्रद्धामेधे, ऋक्सामे, वाङ्मनसे । इति दधिपयआदयः ॥ १ एकवद्भावे नियमार्थं वार्तिकमाह-फलसेनेति ॥ २ 'विभाषावृक्ष-' इति सूत्रे 'फलसेना-' इति वार्तिके च निर्दिष्टप्रयोजनमाह-विभाषा वृक्षेति सूत्र इति ॥ अप्राणिनः वृक्षतृणधान्यव्यञ्जनानि ॥ ३ हस्त्यश्वादिषु सेनाङ्गत्वादिति । 'एकेभैकरथा त्र्यश्वा पत्तिः पञ्चपदातिका' इति पत्तिपरिग- णितपील्वादीनां लक्षणलक्षितपत्तितो यथाक्रमं त्रिगुणतया ×३=सेनामुख ×३= गुल्म ×३= गण ×३= वाहिनी ×३= पृतना ×३= चमू ×३= अनीकिनीसंज्ञाः सेना भवन्ति । अनीकिन्या दशगुणत्वे अक्षौ- हिणीसंज्ञा सेना भवति । तत्र हस्तिरथाश्वानां केवलानामनुपपत्त्या पीलुवानरथवानचर्माधाराः स्वारा मुख्ययो- द्धारश्च यद्यपि गृह्यन्ते तथापि पीलुवानादीनां तदधीनवृत्तित्वाद् मुख्यतया हस्त्यादय एव सेनाङ्गत्वेन गृह्यन्ते । तथा चेदं प्रयोजननिरूपणं सूत्रवार्तिकयोरेकवाक्यतया सेनापशुग्रहणपरं बोध्यम् । अत एव क्षुद्रपशुग्रहणचारितार्थ्यस्य 'महाजोरभ्रम्' इत्यत्र भाष्ये वर्णितस्य नासामञ्जस्यम् ॥ ४ नित्ये प्राप्त इति । विकल्पार्थम् इति शेषः ॥ ५ मृगशकुनिग्रहणमिति । मृगग्रहणं वार्तिके, शकुनिग्रहणं सूत्रे वार्तिके चेति बोध्यम् ॥ 'चार्थे द्वन्द्वः' इत्येव समाहारद्वन्द्वेनैकवद्भावसिद्धौ इति शेषः ॥ ६ पूर्वापरशब्दयोरधरोत्तरशब्दयोश्च परस्परं यथानिर्दिष्टयोरेव समाहारद्वन्द्वः अन्यैस्त्वितरेतरयोग एवेति भावः ॥ ७ 'चार्थे द्वन्द्वः' इति सूत्रेण प्राप्तो यो वैकल्पिकः समाहारद्वन्द्वः, स इत्यन्वयः ॥ ८ 'चार्थे द्वन्द्वः' इति सूत्रेण प्राप्तो वैकल्पिकः समाहारद्वन्द्वोऽद्रव्यवाचिनामेव' इति नियमाङ्गीकारे 'नन्दकपाञ्चजन्यौ' इत्यत्र द्रव्यवाचित्वेन नैव स्याद् अतो 'विप्रतिषिद्धम्' इतीति भावः ॥